Ṛk 6.7.1
Saṃhitā
मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒त आ जा॒तम॒ग्निं ।
क॒विं स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयंत दे॒वाः ॥
मूर्धानं दिवो अरतिम् पृथिव्या वैश्वानरम् ऋत आ जातम् अग्निम् |
कविं सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः ||
mūrdhā́nam divó aratím pṛthivyā́ vaiśvānarámṛtá ā́ jātámagním ǀ
kavím samrā́jamátithim jánānāmāsánnā́ pā́tram janayanta devā́ḥ ǁ
mūrdhānaṃ divo aratim pṛthivyā vaiśvānaram ṛta ā jātam agnim |
kaviṃ samrājam atithiṃ janānām āsann ā pātraṃ janayanta devāḥ ||
Padapāṭha
मू॒र्धान॑म् । दि॒वः । अ॒र॒तिम् । पृ॒थि॒व्याः । वै॒श्वा॒न॒रम् । ऋ॒ते । आ । जा॒तम् । अ॒ग्निम् ।
क॒विम् । स॒म्ऽराज॑म् । अति॑थिम् । जना॑नाम् । आ॒सन् । आ । पात्र॑म् । ज॒न॒य॒न्त॒ । दे॒वाः ॥
मूर्धानम् । दिवः । अरतिम् । पृथिव्याः । वैश्वानरम् । ऋते । आ । जातम् । अग्निम् ।
कविम् । सम्ऽराजम् । अतिथिम् । जनानाम् । आसन् । आ । पात्रम् । जनयन्त । देवाः ॥
mūrdhā́nam ǀ diváḥ ǀ aratím ǀ pṛthivyā́ḥ ǀ vaiśvānarám ǀ ṛté ǀ ā́ ǀ jātám ǀ agním ǀ
kavím ǀ sam-rā́jam ǀ átithim ǀ jánānām ǀ āsán ǀ ā́ ǀ pā́tram ǀ janayanta ǀ devā́ḥ ǁ
mūrdhānam ǀ divaḥ ǀ aratim ǀ pṛthivyāḥ ǀ vaiśvānaram ǀ ṛte ǀ ā ǀ jātam ǀ agnim ǀ
kavim ǀ sam-rājam ǀ atithim ǀ janānām ǀ āsan ǀ ā ǀ pātram ǀ janayanta ǀ devāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.007.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.5.09.01
- Maṇḍala · Anuvāka · Ṛk
- 06.01.055
- Devatā देवता
- Agni Vaiśvānara
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.