Ṛk 6.62.9
Saṃhitā
य ईं॒ राजा॑नावृतु॒था वि॒दध॒द्रज॑सो मि॒त्रो वरु॑ण॒श्चिके॑तत् ।
गं॒भी॒राय॒ रक्ष॑से हे॒तिम॑स्य॒ द्रोघा॑य चि॒द्वच॑स॒ आन॑वाय ॥
य ईं राजानाव् ऋतुथा विदधद् रजसो मित्रो वरुणश् चिकेतत् |
गम्भीराय रक्षसे हेतिम् अस्य द्रोघाय चिद् वचस आनवाय ||
yá īm rā́jānāvṛtuthā́ vidádhadrájaso mitró váruṇaścíketat ǀ
gambhīrā́ya rákṣase hetímasya dróghāya cidvácasa ā́navāya ǁ
ya īṃ rājānāv ṛtuthā vidadhad rajaso mitro varuṇaś ciketat |
gambhīrāya rakṣase hetim asya droghāya cid vacasa ānavāya ||
Padapāṭha
यः । ई॒म् । राजा॑नौ । ऋ॒तु॒ऽथा । वि॒ऽदध॑त् । रज॑सः । मि॒त्रः । वरु॑णः । चिके॑तत् ।
ग॒म्भी॒राय॑ । रक्ष॑से । हे॒तिम् । अ॒स्य॒ । द्रोघा॑य । चि॒त् । वच॑से । आन॑वाय ॥
यः । ईम् । राजानौ । ऋतुऽथा । विऽदधत् । रजसः । मित्रः । वरुणः । चिकेतत् ।
गम्भीराय । रक्षसे । हेतिम् । अस्य । द्रोघाय । चित् । वचसे । आनवाय ॥
yáḥ ǀ īm ǀ rā́jānau ǀ ṛtu-thā́ ǀ vi-dádhat ǀ rájasaḥ ǀ mitráḥ ǀ váruṇaḥ ǀ cíketat ǀ
gambhīrā́ya ǀ rákṣase ǀ hetím ǀ asya ǀ dróghāya ǀ cit ǀ vácase ǀ ā́navāya ǁ
yaḥ ǀ īm ǀ rājānau ǀ ṛtu-thā ǀ vi-dadhat ǀ rajasaḥ ǀ mitraḥ ǀ varuṇaḥ ǀ ciketat ǀ
gambhīrāya ǀ rakṣase ǀ hetim ǀ asya ǀ droghāya ǀ cit ǀ vacase ǀ ānavāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.062.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.02.04
- Maṇḍala · Anuvāka · Ṛk
- 06.06.009
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.