Ṛk 6.62.6
Saṃhitā
ता भु॒ज्युं विभि॑र॒द्भ्यः स॑मु॒द्रात्तुग्र॑स्य सू॒नुमू॑हथू॒ रजो॑भिः ।
अ॒रे॒णुभि॒र्योज॑नेभिर्भु॒जंता॑ पत॒त्रिभि॒रर्ण॑सो॒ निरु॒पस्था॑त् ॥
ता भुज्युं विभिर् अद्भ्यः समुद्रात् तुग्रस्य सूनुम् ऊहथू रजोभिः |
अरेणुभिर् योजनेभिर् भुजन्ता पतत्रिभिर् अर्णसो निर् उपस्थात् ||
tā́ bhujyúm víbhiradbhyáḥ samudrā́ttúgrasya sūnúmūhathū rájobhiḥ ǀ
areṇúbhiryójanebhirbhujántā patatríbhirárṇaso nírupásthāt ǁ
tā bhujyuṃ vibhir adbhyaḥ samudrāt tugrasya sūnum ūhathū rajobhiḥ |
areṇubhir yojanebhir bhujantā patatribhir arṇaso nir upasthāt ||
Padapāṭha
ता । भु॒ज्युम् । विऽभिः॑ । अ॒त्ऽभ्यः । स॒मु॒द्रात् । तुग्र॑स्य । सू॒नुम् । ऊ॒ह॒थुः॒ । रजः॑ऽभिः ।
अ॒रे॒णुऽभिः॑ । योज॑नेभिः । भु॒जन्ता॑ । प॒त॒त्रिऽभिः॑ । अर्ण॑सः । निः । उ॒पऽस्था॑त् ॥
ता । भुज्युम् । विऽभिः । अत्ऽभ्यः । समुद्रात् । तुग्रस्य । सूनुम् । ऊहथुः । रजःऽभिः ।
अरेणुऽभिः । योजनेभिः । भुजन्ता । पतत्रिऽभिः । अर्णसः । निः । उपऽस्थात् ॥
tā́ ǀ bhujyúm ǀ ví-bhiḥ ǀ at-bhyáḥ ǀ samudrā́t ǀ túgrasya ǀ sūnúm ǀ ūhathuḥ ǀ rájaḥ-bhiḥ ǀ
areṇú-bhiḥ ǀ yójanebhiḥ ǀ bhujántā ǀ patatrí-bhiḥ ǀ árṇasaḥ ǀ níḥ ǀ upá-sthāt ǁ
tā ǀ bhujyum ǀ vi-bhiḥ ǀ at-bhyaḥ ǀ samudrāt ǀ tugrasya ǀ sūnum ǀ ūhathuḥ ǀ rajaḥ-bhiḥ ǀ
areṇu-bhiḥ ǀ yojanebhiḥ ǀ bhujantā ǀ patatri-bhiḥ ǀ arṇasaḥ ǀ niḥ ǀ upa-sthāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.062.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.02.01
- Maṇḍala · Anuvāka · Ṛk
- 06.06.006
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.