Ṛk 6.62.10
Saṃhitā
अंत॑रैश्च॒क्रैस्तन॑याय व॒र्तिर्द्यु॒मता या॑तं नृ॒वता॒ रथे॑न ।
सनु॑त्येन॒ त्यज॑सा॒ मर्त्य॑स्य वनुष्य॒तामपि॑ शी॒र्षा व॑वृक्तं ॥
अन्तरैश् चक्रैस् तनयाय वर्तिर् द्युमता यातं नृवता रथेन |
सनुत्येन त्यजसा मर्त्यस्य वनुष्यताम् अपि शीर्षा ववृक्तम् ||
ántaraiścakráistánayāya vartírdyumátā́ yātam nṛvátā ráthena ǀ
sánutyena tyájasā mártyasya vanuṣyatā́mápi śīrṣā́ vavṛktam ǁ
antaraiś cakrais tanayāya vartir dyumatā yātaṃ nṛvatā rathena |
sanutyena tyajasā martyasya vanuṣyatām api śīrṣā vavṛktam ||
Padapāṭha
अन्त॑रैः । च॒क्रैः । तन॑याय । व॒र्तिः । द्यु॒ऽमता॑ । आ । या॒त॒म् । नृ॒ऽवता॑ । रथे॑न ।
सनु॑त्येन । त्यज॑सा । मर्त्य॑स्य । व॒नु॒ष्य॒ताम् । अपि॑ । शी॒र्षा । व॒वृ॒क्त॒म् ॥
अन्तरैः । चक्रैः । तनयाय । वर्तिः । द्युऽमता । आ । यातम् । नृऽवता । रथेन ।
सनुत्येन । त्यजसा । मर्त्यस्य । वनुष्यताम् । अपि । शीर्षा । ववृक्तम् ॥
ántaraiḥ ǀ cakráiḥ ǀ tánayāya ǀ vartíḥ ǀ dyu-mátā ǀ ā́ ǀ yātam ǀ nṛ-vátā ǀ ráthena ǀ
sánutyena ǀ tyájasā ǀ mártyasya ǀ vanuṣyatā́m ǀ ápi ǀ śīrṣā́ ǀ vavṛktam ǁ
antaraiḥ ǀ cakraiḥ ǀ tanayāya ǀ vartiḥ ǀ dyu-matā ǀ ā ǀ yātam ǀ nṛ-vatā ǀ rathena ǀ
sanutyena ǀ tyajasā ǀ martyasya ǀ vanuṣyatām ǀ api ǀ śīrṣā ǀ vavṛktam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.062.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.02.05
- Maṇḍala · Anuvāka · Ṛk
- 06.06.010
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.