Ṛk 6.65.4
Saṃhitā
इ॒दा हि वो॑ विध॒ते रत्न॒मस्ती॒दा वी॒राय॑ दा॒शुष॑ उषासः ।
इ॒दा विप्रा॑य॒ जर॑ते॒ यदु॒क्था नि ष्म॒ माव॑ते वहथा पु॒रा चि॑त् ॥
इदा हि वो विधते रत्नम् अस्तीदा वीराय दाशुष उषासः |
इदा विप्राय जरते यद् उक्था नि ष्म मावते वहथा पुरा चित् ||
idā́ hí vo vidhaté rátnamástīdā́ vīrā́ya dāśúṣa uṣāsaḥ ǀ
idā́ víprāya járate yádukthā́ ní ṣma mā́vate vahathā purā́ cit ǁ
idā hi vo vidhate ratnam astīdā vīrāya dāśuṣa uṣāsaḥ |
idā viprāya jarate yad ukthā ni ṣma māvate vahathā purā cit ||
Padapāṭha
इ॒दा । हि । वः॒ । वि॒ध॒ते । रत्न॑म् । अस्ति॑ । इ॒दा । वी॒राय॑ । दा॒शुषे॑ । उ॒ष॒सः॒ ।
इ॒दा । विप्रा॑य । जर॑ते । यत् । उ॒क्था । नि । स्म॒ । माऽव॑ते । व॒ह॒थ॒ । पु॒रा । चि॒त् ॥
इदा । हि । वः । विधते । रत्नम् । अस्ति । इदा । वीराय । दाशुषे । उषसः ।
इदा । विप्राय । जरते । यत् । उक्था । नि । स्म । माऽवते । वहथ । पुरा । चित् ॥
idā́ ǀ hí ǀ vaḥ ǀ vidhaté ǀ rátnam ǀ ásti ǀ idā́ ǀ vīrā́ya ǀ dāśúṣe ǀ uṣasaḥ ǀ
idā́ ǀ víprāya ǀ járate ǀ yát ǀ ukthā́ ǀ ní ǀ sma ǀ mā́-vate ǀ vahatha ǀ purā́ ǀ cit ǁ
idā ǀ hi ǀ vaḥ ǀ vidhate ǀ ratnam ǀ asti ǀ idā ǀ vīrāya ǀ dāśuṣe ǀ uṣasaḥ ǀ
idā ǀ viprāya ǀ jarate ǀ yat ǀ ukthā ǀ ni ǀ sma ǀ mā-vate ǀ vahatha ǀ purā ǀ cit ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.065.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.06.04
- Maṇḍala · Anuvāka · Ṛk
- 06.06.032
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.