Ṛk 6.65.5
Saṃhitā
इ॒दा हि त॑ उषो अद्रिसानो गो॒त्रा गवा॒मंगि॑रसो गृ॒णंति॑ ।
व्य१॒॑र्केण॑ बिभिदु॒र्ब्रह्म॑णा च स॒त्या नृ॒णाम॑भवद्दे॒वहू॑तिः ॥
इदा हि त उषो अद्रिसानो गोत्रा गवाम् अङ्गिरसो गृणन्ति |
व्य् अर्केण बिभिदुर् ब्रह्मणा च सत्या नृणाम् अभवद् देवहूतिः ||
idā́ hí ta uṣo adrisāno gotrā́ gávāmáṅgiraso gṛṇánti ǀ
vyárkéṇa bibhidurbráhmaṇā ca satyā́ nṛṇā́mabhavaddeváhūtiḥ ǁ
idā hi ta uṣo adrisāno gotrā gavām aṅgiraso gṛṇanti |
vy arkeṇa bibhidur brahmaṇā ca satyā nṛṇām abhavad devahūtiḥ ||
Padapāṭha
इ॒दा । हि । ते॒ । उ॒षः॒ । अ॒द्रि॒सा॒नो॒ इत्य॑द्रिऽसानो । गो॒त्रा । गवा॑म् । अङ्गि॑रसः । गृ॒णन्ति॑ ।
वि । अ॒र्केण॑ । बि॒भि॒दुः॒ । ब्रह्म॑णा । च॒ । स॒त्या । नृ॒णाम् । अ॒भ॒व॒त् । दे॒वऽहू॑तिः ॥
इदा । हि । ते । उषः । अद्रिसानो इत्यद्रिऽसानो । गोत्रा । गवाम् । अङ्गिरसः । गृणन्ति ।
वि । अर्केण । बिभिदुः । ब्रह्मणा । च । सत्या । नृणाम् । अभवत् । देवऽहूतिः ॥
idā́ ǀ hí ǀ te ǀ uṣaḥ ǀ adrisāno ítyadri-sāno ǀ gotrā́ ǀ gávām ǀ áṅgirasaḥ ǀ gṛṇánti ǀ
ví ǀ arkéṇa ǀ bibhiduḥ ǀ bráhmaṇā ǀ ca ǀ satyā́ ǀ nṛṇā́m ǀ abhavat ǀ devá-hūtiḥ ǁ
idā ǀ hi ǀ te ǀ uṣaḥ ǀ adrisāno ityadri-sāno ǀ gotrā ǀ gavām ǀ aṅgirasaḥ ǀ gṛṇanti ǀ
vi ǀ arkeṇa ǀ bibhiduḥ ǀ brahmaṇā ǀ ca ǀ satyā ǀ nṛṇām ǀ abhavat ǀ deva-hūtiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.065.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.06.05
- Maṇḍala · Anuvāka · Ṛk
- 06.06.033
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.