Ṛk 6.65.1
Saṃhitā
ए॒षा स्या नो॑ दुहि॒ता दि॑वो॒जाः क्षि॒तीरु॒च्छंती॒ मानु॑षीरजीगः ।
या भा॒नुना॒ रुश॑ता रा॒म्यास्वज्ञा॑यि ति॒रस्तम॑सश्चिद॒क्तून् ॥
एषा स्या नो दुहिता दिवोजाः क्षितीर् उच्छन्ती मानुषीर् अजीगः |
या भानुना रुशता राम्यास्व् अज्ञायि तिरस् तमसश् चिद् अक्तून् ||
eṣā́ syā́ no duhitā́ divojā́ḥ kṣitī́rucchántī mā́nuṣīrajīgaḥ ǀ
yā́ bhānúnā rúśatā rāmyā́svájñāyi tirástámasaścidaktū́n ǁ
eṣā syā no duhitā divojāḥ kṣitīr ucchantī mānuṣīr ajīgaḥ |
yā bhānunā ruśatā rāmyāsv ajñāyi tiras tamasaś cid aktūn ||
Padapāṭha
ए॒षा । स्या । नः॒ । दु॒हि॒ता । दि॒वः॒ऽजाः । क्षि॒तीः । उ॒च्छन्ती॑ । मानु॑षीः । अ॒जी॒ग॒रिति॑ ।
या । भा॒नुना॑ । रुश॑ता । रा॒म्यासु॑ । अज्ञा॑यि । ति॒रः । तम॑सः । चि॒त् । अ॒क्तून् ॥
एषा । स्या । नः । दुहिता । दिवःऽजाः । क्षितीः । उच्छन्ती । मानुषीः । अजीगरिति ।
या । भानुना । रुशता । राम्यासु । अज्ञायि । तिरः । तमसः । चित् । अक्तून् ॥
eṣā́ ǀ syā́ ǀ naḥ ǀ duhitā́ ǀ divaḥ-jā́ḥ ǀ kṣitī́ḥ ǀ ucchántī ǀ mā́nuṣīḥ ǀ ajīgaríti ǀ
yā́ ǀ bhānúnā ǀ rúśatā ǀ rāmyā́su ǀ ájñāyi ǀ tiráḥ ǀ támasaḥ ǀ cit ǀ aktū́n ǁ
eṣā ǀ syā ǀ naḥ ǀ duhitā ǀ divaḥ-jāḥ ǀ kṣitīḥ ǀ ucchantī ǀ mānuṣīḥ ǀ ajīgariti ǀ
yā ǀ bhānunā ǀ ruśatā ǀ rāmyāsu ǀ ajñāyi ǀ tiraḥ ǀ tamasaḥ ǀ cit ǀ aktūn ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.065.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.06.01
- Maṇḍala · Anuvāka · Ṛk
- 06.06.029
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.