Ṛgveda · Maṇḍala 6 · Sūkta 64

Ṛk 6.64.6

Uṣas · Bharadvāja Bārhaspatya

The whole sūkta Link

Saṃhitā

उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ ।
अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो॑ देवि दा॒शुषे॒ मर्त्या॑य ॥

उत् ते वयश् चिद् वसतेर् अपप्तन् नरश् च ये पितुभाजो व्युष्टौ |
अमा सते वहसि भूरि वामम् उषो देवि दाशुषे मर्त्याय ||

útte váyaścidvasatérapaptannáraśca yé pitubhā́jo vyúṣṭau ǀ
amā́ saté vahasi bhū́ri vāmámúṣo devi dāśúṣe mártyāya ǁ

ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau |
amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya ||

Padapāṭha

उत् । ते॒ । वयः॑ । चि॒त् । व॒स॒तेः । अ॒प॒प्त॒न् । नरः॑ । च॒ । ये । पि॒तु॒ऽभाजः॑ । विऽउ॑ष्टौ ।
अ॒मा । स॒ते । व॒ह॒सि॒ । भूरि॑ । वा॒मम् । उषः॑ । दे॒वि॒ । दा॒शुषे॑ । मर्त्या॑य ॥

उत् । ते । वयः । चित् । वसतेः । अपप्तन् । नरः । च । ये । पितुऽभाजः । विऽउष्टौ ।
अमा । सते । वहसि । भूरि । वामम् । उषः । देवि । दाशुषे । मर्त्याय ॥

út ǀ te ǀ váyaḥ ǀ cit ǀ vasatéḥ ǀ apaptan ǀ náraḥ ǀ ca ǀ yé ǀ pitu-bhā́jaḥ ǀ ví-uṣṭau ǀ
amā́ ǀ saté ǀ vahasi ǀ bhū́ri ǀ vāmám ǀ úṣaḥ ǀ devi ǀ dāśúṣe ǀ mártyāya ǁ

ut ǀ te ǀ vayaḥ ǀ cit ǀ vasateḥ ǀ apaptan ǀ naraḥ ǀ ca ǀ ye ǀ pitu-bhājaḥ ǀ vi-uṣṭau ǀ
amā ǀ sate ǀ vahasi ǀ bhūri ǀ vāmam ǀ uṣaḥ ǀ devi ǀ dāśuṣe ǀ martyāya ǁ

References

Maṇḍala · Sūkta · Ṛk
06.064.06
Aṣṭaka · Adhyāya · Varga · Ṛk
5.1.05.06
Maṇḍala · Anuvāka · Ṛk
06.06.028
Devatā देवता
Uṣas
Ṛṣi ऋषि
Bharadvāja Bārhaspatya
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.64.6

Interpretations

Sāyaṇa

एषास्येति षळृचं चतुर्थं सूक्तं भरद्वाजस्यार्षं त्रैष्टुभं अनुक्रम्यतेच एषास्येति उषस्यंत्विति पूर्वसूक्ते उक्तवात् इदमप्युषोदेवताकं प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।