Ṛk 6.64.2
Saṃhitā
भ॒द्रा द॑दृक्ष उर्वि॒या वि भा॒स्युत्ते॑ शो॒चिर्भा॒नवो॒ द्याम॑पप्तन् ।
आ॒विर्वक्षः॑ कृणुषे शुं॒भमा॒नोषो॑ देवि॒ रोच॑माना॒ महो॑भिः ॥
भद्रा ददृक्ष उर्विया वि भास्य् उत् ते शोचिर् भानवो द्याम् अपप्तन् |
आविर् वक्षः कृणुषे शुम्भमानोषो देवि रोचमाना महोभिः ||
bhadrā́ dadṛkṣa urviyā́ ví bhāsyútte śocírbhānávo dyā́mapaptan ǀ
āvírvákṣaḥ kṛṇuṣe śumbhámānóṣo devi rócamānā máhobhiḥ ǁ
bhadrā dadṛkṣa urviyā vi bhāsy ut te śocir bhānavo dyām apaptan |
āvir vakṣaḥ kṛṇuṣe śumbhamānoṣo devi rocamānā mahobhiḥ ||
Padapāṭha
भ॒द्रा । द॒दृ॒क्षे॒ । उ॒र्वि॒या । वि । भा॒सि॒ । उत् । ते॒ । शो॒चिः । भा॒नवः॑ । द्याम् । अ॒प॒प्त॒न् ।
आ॒विः । वक्षः॑ । कृ॒णु॒षे॒ । शु॒म्भमा॑ना । उषः॑ । दे॒वि॒ । रोच॑माना । महः॑ऽभिः ॥
भद्रा । ददृक्षे । उर्विया । वि । भासि । उत् । ते । शोचिः । भानवः । द्याम् । अपप्तन् ।
आविः । वक्षः । कृणुषे । शुम्भमाना । उषः । देवि । रोचमाना । महःऽभिः ॥
bhadrā́ ǀ dadṛkṣe ǀ urviyā́ ǀ ví ǀ bhāsi ǀ út ǀ te ǀ śocíḥ ǀ bhānávaḥ ǀ dyā́m ǀ apaptan ǀ
āvíḥ ǀ vákṣaḥ ǀ kṛṇuṣe ǀ śumbhámānā ǀ úṣaḥ ǀ devi ǀ rócamānā ǀ máhaḥ-bhiḥ ǁ
bhadrā ǀ dadṛkṣe ǀ urviyā ǀ vi ǀ bhāsi ǀ ut ǀ te ǀ śociḥ ǀ bhānavaḥ ǀ dyām ǀ apaptan ǀ
āviḥ ǀ vakṣaḥ ǀ kṛṇuṣe ǀ śumbhamānā ǀ uṣaḥ ǀ devi ǀ rocamānā ǀ mahaḥ-bhiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.064.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.05.02
- Maṇḍala · Anuvāka · Ṛk
- 06.06.024
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.