Ṛk 6.64.3
Saṃhitā
वहं॑ति सीमरु॒णासो॒ रुशं॑तो॒ गावः॑ सु॒भगा॑मुर्वि॒या प्र॑था॒नां ।
अपे॑जते॒ शूरो॒ अस्ते॑व॒ शत्रू॒न्बाध॑ते॒ तमो॑ अजि॒रो न वोळ्हा॑ ॥
वहन्ति सीम् अरुणासो रुशन्तो गावः सुभगाम् उर्विया प्रथानाम् |
अपेजते शूरो अस्तेव शत्रून् बाधते तमो अजिरो न वोऌहा ||
váhanti sīmaruṇā́so rúśanto gā́vaḥ subhágāmurviyā́ prathānā́m ǀ
ápejate śū́ro ásteva śátrūnbā́dhate támo ajiró ná vóḷhā ǁ
vahanti sīm aruṇāso ruśanto gāvaḥ subhagām urviyā prathānām |
apejate śūro asteva śatrūn bādhate tamo ajiro na voḷhā ||
Padapāṭha
वह॑न्ति । सी॒म् । अ॒रु॒णासः॑ । रुश॑न्तः । गावः॑ । सु॒ऽभगा॑म् । उ॒र्वि॒या । प्र॒था॒नाम् ।
अप॑ । ई॒ज॒ते॒ । शूरः॑ । अस्ता॑ऽइव । शत्रू॑न् । बाध॑ते । तमः॑ । अ॒जि॒रः । न । वोळ्हा॑ ॥
वहन्ति । सीम् । अरुणासः । रुशन्तः । गावः । सुऽभगाम् । उर्विया । प्रथानाम् ।
अप । ईजते । शूरः । अस्ताऽइव । शत्रून् । बाधते । तमः । अजिरः । न । वोळ्हा ॥
váhanti ǀ sīm ǀ aruṇā́saḥ ǀ rúśantaḥ ǀ gā́vaḥ ǀ su-bhágām ǀ urviyā́ ǀ prathānā́m ǀ
ápa ǀ ījate ǀ śū́raḥ ǀ ástā-iva ǀ śátrūn ǀ bā́dhate ǀ támaḥ ǀ ajiráḥ ǀ ná ǀ vóḷhā ǁ
vahanti ǀ sīm ǀ aruṇāsaḥ ǀ ruśantaḥ ǀ gāvaḥ ǀ su-bhagām ǀ urviyā ǀ prathānām ǀ
apa ǀ ījate ǀ śūraḥ ǀ astā-iva ǀ śatrūn ǀ bādhate ǀ tamaḥ ǀ ajiraḥ ǀ na ǀ voḷhā ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.064.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 5.1.05.03
- Maṇḍala · Anuvāka · Ṛk
- 06.06.025
- Devatā देवता
- Uṣas
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.