Ṛk 6.27.1
Saṃhitā
किम॑स्य॒ मदे॒ किम्व॑स्य पी॒ताविंद्रः॒ किम॑स्य स॒ख्ये च॑कार ।
रणा॑ वा॒ ये नि॒षदि॒ किं ते अ॑स्य पु॒रा वि॑विद्रे॒ किमु॒ नूत॑नासः ॥
किम् अस्य मदे किम् व् अस्य पीताव् इन्द्रः किम् अस्य सख्ये चकार |
रणा वा ये निषदि किं ते अस्य पुरा विविद्रे किम् उ नूतनासः ||
kímasya máde kímvasya pītā́víndraḥ kímasya sakhyé cakāra ǀ
ráṇā vā yé niṣádi kím té asya purā́ vividre kímu nū́tanāsaḥ ǁ
kim asya made kim v asya pītāv indraḥ kim asya sakhye cakāra |
raṇā vā ye niṣadi kiṃ te asya purā vividre kim u nūtanāsaḥ ||
Padapāṭha
किम् । अ॒स्य॒ । मदे॑ । किम् । ऊं॒ इति॑ । अ॒स्य॒ । पी॒तौ । इन्द्रः॑ । किम् । अ॒स्य॒ । स॒ख्ये । च॒का॒र॒ ।
रणाः॑ । वा॒ । ये । नि॒ऽसदि॑ । किम् । ते । अ॒स्य॒ । पु॒रा । वि॒वि॒द्रे॒ । किम् । ऊं॒ इति॑ । नूत॑नासः ॥
किम् । अस्य । मदे । किम् । ऊं इति । अस्य । पीतौ । इन्द्रः । किम् । अस्य । सख्ये । चकार ।
रणाः । वा । ये । निऽसदि । किम् । ते । अस्य । पुरा । विविद्रे । किम् । ऊं इति । नूतनासः ॥
kím ǀ asya ǀ máde ǀ kím ǀ ūṃ íti ǀ asya ǀ pītáu ǀ índraḥ ǀ kím ǀ asya ǀ sakhyé ǀ cakāra ǀ
ráṇāḥ ǀ vā ǀ yé ǀ ni-sádi ǀ kím ǀ té ǀ asya ǀ purā́ ǀ vividre ǀ kím ǀ ūṃ íti ǀ nū́tanāsaḥ ǁ
kim ǀ asya ǀ made ǀ kim ǀ ūṃ iti ǀ asya ǀ pītau ǀ indraḥ ǀ kim ǀ asya ǀ sakhye ǀ cakāra ǀ
raṇāḥ ǀ vā ǀ ye ǀ ni-sadi ǀ kim ǀ te ǀ asya ǀ purā ǀ vividre ǀ kim ǀ ūṃ iti ǀ nūtanāsaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.027.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.23.01
- Maṇḍala · Anuvāka · Ṛk
- 06.03.028
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.