Ṛgveda · Maṇḍala 6 · Sūkta 26

Ṛk 6.26.8

Indra · Bharadvāja Bārhaspatya

The whole sūkta Link

Saṃhitā

व॒यं ते॑ अ॒स्यामिं॑द्र द्यु॒म्नहू॑तौ॒ सखा॑यः स्याम महिन॒ प्रेष्ठाः॑ ।
प्रात॑र्दनिः क्षत्र॒श्रीर॑स्तु॒ श्रेष्ठो॑ घ॒ने वृ॒त्राणां॑ स॒नये॒ धना॑नां ॥

वयं ते अस्याम् इन्द्र द्युम्नहूतौ सखायः स्याम महिन प्रेष्ठाः |
प्रातर्दनिः क्षत्रश्रीर् अस्तु श्रेष्ठो घने वृत्राणां सनये धनानाम् ||

vayám te asyā́mindra dyumnáhūtau sákhāyaḥ syāma mahina préṣṭhāḥ ǀ
prā́tardaniḥ kṣatraśrī́rastu śréṣṭho ghané vṛtrā́ṇām sanáye dhánānām ǁ

vayaṃ te asyām indra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ |
prātardaniḥ kṣatraśrīr astu śreṣṭho ghane vṛtrāṇāṃ sanaye dhanānām ||

Padapāṭha

व॒यम् । ते॒ । अ॒स्याम् । इ॒न्द्र॒ । द्यु॒म्नऽहू॑तौ । सखा॑यः । स्या॒म॒ । म॒हि॒न॒ । प्रेष्ठाः॑ ।
प्रात॑र्दनिः । क्ष॒त्र॒ऽश्रीः । अ॒स्तु॒ । श्रेष्ठः॑ । घ॒ने । वृ॒त्राणा॑म् । स॒नये॑ । धना॑नाम् ॥

वयम् । ते । अस्याम् । इन्द्र । द्युम्नऽहूतौ । सखायः । स्याम । महिन । प्रेष्ठाः ।
प्रातर्दनिः । क्षत्रऽश्रीः । अस्तु । श्रेष्ठः । घने । वृत्राणाम् । सनये । धनानाम् ॥

vayám ǀ te ǀ asyā́m ǀ indra ǀ dyumná-hūtau ǀ sákhāyaḥ ǀ syāma ǀ mahina ǀ préṣṭhāḥ ǀ
prā́tardaniḥ ǀ kṣatra-śrī́ḥ ǀ astu ǀ śréṣṭhaḥ ǀ ghané ǀ vṛtrā́ṇām ǀ sanáye ǀ dhánānām ǁ

vayam ǀ te ǀ asyām ǀ indra ǀ dyumna-hūtau ǀ sakhāyaḥ ǀ syāma ǀ mahina ǀ preṣṭhāḥ ǀ
prātardaniḥ ǀ kṣatra-śrīḥ ǀ astu ǀ śreṣṭhaḥ ǀ ghane ǀ vṛtrāṇām ǀ sanaye ǀ dhanānām ǁ

References

Maṇḍala · Sūkta · Ṛk
06.026.08
Aṣṭaka · Adhyāya · Varga · Ṛk
4.6.22.03
Maṇḍala · Anuvāka · Ṛk
06.03.027
Devatā देवता
Indra
Ṛṣi ऋषि
Bharadvāja Bārhaspatya
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.26.8

Interpretations

Sāyaṇa

किमस्यमदेत्यष्टर्चं चतुर्थंसूक्तं भरद्वाजस्यार्षं अनुक्रान्तंच—किमस्यान्त्याचायमानस्याभ्यावर्तिनोदानस्तुतिः भरद्वाजऋषिः त्रिष्टु- प् छन्दः अंत्यायास्तुदानस्तुतिरूपत्वात् यातेनोच्यतइतिन्यायेनदानमेवदेवता विनियोगोलैंगिकः ।