Ṛk 6.26.4
Saṃhitā
त्वं रथं॒ प्र भ॑रो यो॒धमृ॒ष्वमावो॒ युध्यं॑तं वृष॒भं दश॑द्युं ।
त्वं तुग्रं॑ वेत॒सवे॒ सचा॑हं॒त्वं तुजिं॑ गृ॒णंत॑मिंद्र तूतोः ॥
त्वं रथम् प्र भरो योधम् ऋष्वम् आवो युध्यन्तं वृषभं दशद्युम् |
त्वं तुग्रं वेतसवे सचाहन् त्वं तुजिं गृणन्तम् इन्द्र तूतोः ||
tvám rátham prá bharo yodhámṛṣvámā́vo yúdhyantam vṛṣabhám dáśadyum ǀ
tvám túgram vetasáve sácāhantvám tújim gṛṇántamindra tūtoḥ ǁ
tvaṃ ratham pra bharo yodham ṛṣvam āvo yudhyantaṃ vṛṣabhaṃ daśadyum |
tvaṃ tugraṃ vetasave sacāhan tvaṃ tujiṃ gṛṇantam indra tūtoḥ ||
Padapāṭha
त्वम् । रथ॑म् । प्र । भ॒रः॒ । यो॒धम् । ऋ॒ष्वम् । आवः॑ । युध्य॑न्तम् । वृ॒ष॒भम् । दश॑ऽद्युम् ।
त्वम् । तुग्र॑म् । वे॒त॒सवे॑ । सचा॑ । अ॒ह॒न् । त्वम् । तुजि॑म् । गृ॒णन्त॑म् । इ॒न्द्र॒ । तू॒तो॒रिति॑ तूतोः ॥
त्वम् । रथम् । प्र । भरः । योधम् । ऋष्वम् । आवः । युध्यन्तम् । वृषभम् । दशऽद्युम् ।
त्वम् । तुग्रम् । वेतसवे । सचा । अहन् । त्वम् । तुजिम् । गृणन्तम् । इन्द्र । तूतोरिति तूतोः ॥
tvám ǀ rátham ǀ prá ǀ bharaḥ ǀ yodhám ǀ ṛṣvám ǀ ā́vaḥ ǀ yúdhyantam ǀ vṛṣabhám ǀ dáśa-dyum ǀ
tvám ǀ túgram ǀ vetasáve ǀ sácā ǀ ahan ǀ tvám ǀ tújim ǀ gṛṇántam ǀ indra ǀ tūtoríti tūtoḥ ǁ
tvam ǀ ratham ǀ pra ǀ bharaḥ ǀ yodham ǀ ṛṣvam ǀ āvaḥ ǀ yudhyantam ǀ vṛṣabham ǀ daśa-dyum ǀ
tvam ǀ tugram ǀ vetasave ǀ sacā ǀ ahan ǀ tvam ǀ tujim ǀ gṛṇantam ǀ indra ǀ tūtoriti tūtoḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.026.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.21.04
- Maṇḍala · Anuvāka · Ṛk
- 06.03.023
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.