Ṛk 6.26.6
Saṃhitā
त्वं श्र॒द्धाभि॑र्मंदसा॒नः सोमै॑र्द॒भीत॑ये॒ चुमु॑रिमिंद्र सिष्वप् ।
त्वं र॒जिं पिठी॑नसे दश॒स्यन्ष॒ष्टिं स॒हस्रा॒ शच्या॒ सचा॑हन् ॥
त्वं श्रद्धाभिर् मन्दसानः सोमैर् दभीतये चुमुरिम् इन्द्र सिष्वप् |
त्वं रजिम् पिठीनसे दशस्यन् षष्टिं सहस्रा शच्या सचाहन् ||
tvám śraddhā́bhirmandasānáḥ sómairdabhī́taye cúmurimindra siṣvap ǀ
tvám rajím píṭhīnase daśasyánṣaṣṭím sahásrā śácyā sácāhan ǁ
tvaṃ śraddhābhir mandasānaḥ somair dabhītaye cumurim indra siṣvap |
tvaṃ rajim piṭhīnase daśasyan ṣaṣṭiṃ sahasrā śacyā sacāhan ||
Padapāṭha
त्वम् । श्र॒द्धाभिः॑ । म॒न्द॒सा॒नः । सोमैः॑ । द॒भीत॑ये । चुमु॑रिम् । इ॒न्द्र॒ । सि॒स्व॒प् ।
त्वम् । र॒जिम् । पिठी॑नसे । द॒श॒स्यन् । ष॒ष्टिम् । स॒हस्रा॑ । शच्या॑ । सचा॑ । अ॒ह॒न् ॥
त्वम् । श्रद्धाभिः । मन्दसानः । सोमैः । दभीतये । चुमुरिम् । इन्द्र । सिस्वप् ।
त्वम् । रजिम् । पिठीनसे । दशस्यन् । षष्टिम् । सहस्रा । शच्या । सचा । अहन् ॥
tvám ǀ śraddhā́bhiḥ ǀ mandasānáḥ ǀ sómaiḥ ǀ dabhī́taye ǀ cúmurim ǀ indra ǀ sisvap ǀ
tvám ǀ rajím ǀ píṭhīnase ǀ daśasyán ǀ ṣaṣṭím ǀ sahásrā ǀ śácyā ǀ sácā ǀ ahan ǁ
tvam ǀ śraddhābhiḥ ǀ mandasānaḥ ǀ somaiḥ ǀ dabhītaye ǀ cumurim ǀ indra ǀ sisvap ǀ
tvam ǀ rajim ǀ piṭhīnase ǀ daśasyan ǀ ṣaṣṭim ǀ sahasrā ǀ śacyā ǀ sacā ǀ ahan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.026.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.22.01
- Maṇḍala · Anuvāka · Ṛk
- 06.03.025
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.