Ṛk 6.26.2
Saṃhitā
त्वां वा॒जी ह॑वते वाजिने॒यो म॒हो वाज॑स्य॒ गध्य॑स्य सा॒तौ ।
त्वां वृ॒त्रेष्विं॑द्र॒ सत्प॑तिं॒ तरु॑त्रं॒ त्वां च॑ष्टे मुष्टि॒हा गोषु॒ युध्य॑न् ॥
त्वां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ |
त्वां वृत्रेष्व् इन्द्र सत्पतिं तरुत्रं त्वां चष्टे मुष्टिहा गोषु युध्यन् ||
tvā́m vājī́ havate vājineyó mahó vā́jasya gádhyasya sātáu ǀ
tvā́m vṛtréṣvindra sátpatim tárutram tvā́m caṣṭe muṣṭihā́ góṣu yúdhyan ǁ
tvāṃ vājī havate vājineyo maho vājasya gadhyasya sātau |
tvāṃ vṛtreṣv indra satpatiṃ tarutraṃ tvāṃ caṣṭe muṣṭihā goṣu yudhyan ||
Padapāṭha
त्वाम् । वा॒जी । ह॒व॒ते॒ । वा॒जि॒ने॒यः । म॒हः । वाज॑स्य । गध्य॑स्य । सा॒तौ ।
त्वाम् । वृ॒त्रेषु॑ । इ॒न्द्र॒ । सत्ऽप॑तिम् । तरु॑त्रम् । त्वाम् । च॒ष्टे॒ । मु॒ष्टि॒ऽहा । गोषु॑ । युध्य॑न् ॥
त्वाम् । वाजी । हवते । वाजिनेयः । महः । वाजस्य । गध्यस्य । सातौ ।
त्वाम् । वृत्रेषु । इन्द्र । सत्ऽपतिम् । तरुत्रम् । त्वाम् । चष्टे । मुष्टिऽहा । गोषु । युध्यन् ॥
tvā́m ǀ vājī́ ǀ havate ǀ vājineyáḥ ǀ maháḥ ǀ vā́jasya ǀ gádhyasya ǀ sātáu ǀ
tvā́m ǀ vṛtréṣu ǀ indra ǀ sát-patim ǀ tárutram ǀ tvā́m ǀ caṣṭe ǀ muṣṭi-hā́ ǀ góṣu ǀ yúdhyan ǁ
tvām ǀ vājī ǀ havate ǀ vājineyaḥ ǀ mahaḥ ǀ vājasya ǀ gadhyasya ǀ sātau ǀ
tvām ǀ vṛtreṣu ǀ indra ǀ sat-patim ǀ tarutram ǀ tvām ǀ caṣṭe ǀ muṣṭi-hā ǀ goṣu ǀ yudhyan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.026.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.21.02
- Maṇḍala · Anuvāka · Ṛk
- 06.03.021
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.