Ṛk 6.26.3
Saṃhitā
त्वं क॒विं चो॑दयो॒ऽर्कसा॑तौ॒ त्वं कुत्सा॑य॒ शुष्णं॑ दा॒शुषे॑ वर्क् ।
त्वं शिरो॑ अम॒र्मणः॒ परा॑हन्नतिथि॒ग्वाय॒ शंस्यं॑ करि॒ष्यन् ॥
त्वं कविं चोदयो ऽर्कसातौ त्वं कुत्साय शुष्णं दाशुषे वर्क् |
त्वं शिरो अमर्मणः पराहन्न् अतिथिग्वाय शंस्यं करिष्यन् ||
tvám kavím codayo’rkásātau tvám kútsāya śúṣṇam dāśúṣe vark ǀ
tvám śíro amarmáṇaḥ párāhannatithigvā́ya śáṃsyam kariṣyán ǁ
tvaṃ kaviṃ codayo 'rkasātau tvaṃ kutsāya śuṣṇaṃ dāśuṣe vark |
tvaṃ śiro amarmaṇaḥ parāhann atithigvāya śaṃsyaṃ kariṣyan ||
Padapāṭha
त्वम् । क॒विम् । चो॒द॒यः॒ । अ॒र्कऽसा॑तौ । त्वम् । कुत्सा॑य । शुष्ण॑म् । दा॒शुषे॑ । व॒र्क् ।
त्वम् । शिरः॑ । अ॒म॒र्मणः॑ । परा॑ । अ॒ह॒न् । अ॒ति॒थि॒ऽग्वाय॑ । शंस्य॑म् । क॒रि॒ष्यन् ॥
त्वम् । कविम् । चोदयः । अर्कऽसातौ । त्वम् । कुत्साय । शुष्णम् । दाशुषे । वर्क् ।
त्वम् । शिरः । अमर्मणः । परा । अहन् । अतिथिऽग्वाय । शंस्यम् । करिष्यन् ॥
tvám ǀ kavím ǀ codayaḥ ǀ arká-sātau ǀ tvám ǀ kútsāya ǀ śúṣṇam ǀ dāśúṣe ǀ vark ǀ
tvám ǀ śíraḥ ǀ amarmáṇaḥ ǀ párā ǀ ahan ǀ atithi-gvā́ya ǀ śáṃsyam ǀ kariṣyán ǁ
tvam ǀ kavim ǀ codayaḥ ǀ arka-sātau ǀ tvam ǀ kutsāya ǀ śuṣṇam ǀ dāśuṣe ǀ vark ǀ
tvam ǀ śiraḥ ǀ amarmaṇaḥ ǀ parā ǀ ahan ǀ atithi-gvāya ǀ śaṃsyam ǀ kariṣyan ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.026.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.21.03
- Maṇḍala · Anuvāka · Ṛk
- 06.03.022
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.