Ṛk 6.26.1
Saṃhitā
श्रु॒धी न॑ इंद्र॒ ह्वया॑मसि त्वा म॒हो वाज॑स्य सा॒तौ वा॑वृषा॒णाः ।
सं यद्विशोऽयं॑त॒ शूर॑साता उ॒ग्रं नोऽवः॒ पार्ये॒ अहं॑दाः ॥
श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः |
सं यद् विशो ऽयन्त शूरसाता उग्रं नो ऽवः पार्ये अहन् दाः ||
śrudhī́ na indra hváyāmasi tvā mahó vā́jasya sātáu vāvṛṣāṇā́ḥ ǀ
sám yádvíśó’yanta śū́rasātā ugrám nó’vaḥ pā́rye áhandāḥ ǁ
śrudhī na indra hvayāmasi tvā maho vājasya sātau vāvṛṣāṇāḥ |
saṃ yad viśo 'yanta śūrasātā ugraṃ no 'vaḥ pārye ahan dāḥ ||
Padapāṭha
श्रु॒धि । नः॒ । इ॒न्द्र॒ । ह्वया॑मसि । त्वा॒ । म॒हः । वाज॑स्य । सा॒तौ । व॒वृ॒षा॒णाः ।
सम् । यत् । विशः॑ । अय॑न्त । शूर॑ऽसातौ । उ॒ग्रम् । नः॒ । अवः॑ । पार्ये॑ । अह॑न् । दाः॒ ॥
श्रुधि । नः । इन्द्र । ह्वयामसि । त्वा । महः । वाजस्य । सातौ । ववृषाणाः ।
सम् । यत् । विशः । अयन्त । शूरऽसातौ । उग्रम् । नः । अवः । पार्ये । अहन् । दाः ॥
śrudhí ǀ naḥ ǀ indra ǀ hváyāmasi ǀ tvā ǀ maháḥ ǀ vā́jasya ǀ sātáu ǀ vavṛṣāṇā́ḥ ǀ
sám ǀ yát ǀ víśaḥ ǀ áyanta ǀ śū́ra-sātau ǀ ugrám ǀ naḥ ǀ ávaḥ ǀ pā́rye ǀ áhan ǀ dāḥ ǁ
śrudhi ǀ naḥ ǀ indra ǀ hvayāmasi ǀ tvā ǀ mahaḥ ǀ vājasya ǀ sātau ǀ vavṛṣāṇāḥ ǀ
sam ǀ yat ǀ viśaḥ ǀ ayanta ǀ śūra-sātau ǀ ugram ǀ naḥ ǀ avaḥ ǀ pārye ǀ ahan ǀ dāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.026.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.21.01
- Maṇḍala · Anuvāka · Ṛk
- 06.03.020
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.