Ṛk 6.27.2
Saṃhitā
सद॑स्य॒ मदे॒ सद्व॑स्य पी॒ताविंद्रः॒ सद॑स्य स॒ख्ये च॑कार ।
रणा॑ वा॒ ये नि॒षदि॒ सत्ते अ॑स्य पु॒रा वि॑विद्रे॒ सदु॒ नूत॑नासः ॥
सद् अस्य मदे सद् व् अस्य पीताव् इन्द्रः सद् अस्य सख्ये चकार |
रणा वा ये निषदि सत् ते अस्य पुरा विविद्रे सद् उ नूतनासः ||
sádasya máde sádvasya pītā́víndraḥ sádasya sakhyé cakāra ǀ
ráṇā vā yé niṣádi sátté asya purā́ vividre sádu nū́tanāsaḥ ǁ
sad asya made sad v asya pītāv indraḥ sad asya sakhye cakāra |
raṇā vā ye niṣadi sat te asya purā vividre sad u nūtanāsaḥ ||
Padapāṭha
सत् । अ॒स्य॒ । मदे॑ । सत् । ऊं॒ इति॑ । अ॒स्य॒ । पी॒तौ । इन्द्रः॑ । सत् । अ॒स्य॒ । स॒ख्ये । च॒का॒र॒ ।
रणाः॑ । वा॒ । ये । नि॒ऽसदि॑ । सत् । ते । अ॒स्य॒ । पु॒रा । वि॒वि॒द्रे॒ । सत् । ऊं॒ इति॑ । नूत॑नासः ॥
सत् । अस्य । मदे । सत् । ऊं इति । अस्य । पीतौ । इन्द्रः । सत् । अस्य । सख्ये । चकार ।
रणाः । वा । ये । निऽसदि । सत् । ते । अस्य । पुरा । विविद्रे । सत् । ऊं इति । नूतनासः ॥
sát ǀ asya ǀ máde ǀ sát ǀ ūṃ íti ǀ asya ǀ pītáu ǀ índraḥ ǀ sát ǀ asya ǀ sakhyé ǀ cakāra ǀ
ráṇāḥ ǀ vā ǀ yé ǀ ni-sádi ǀ sát ǀ té ǀ asya ǀ purā́ ǀ vividre ǀ sát ǀ ūṃ íti ǀ nū́tanāsaḥ ǁ
sat ǀ asya ǀ made ǀ sat ǀ ūṃ iti ǀ asya ǀ pītau ǀ indraḥ ǀ sat ǀ asya ǀ sakhye ǀ cakāra ǀ
raṇāḥ ǀ vā ǀ ye ǀ ni-sadi ǀ sat ǀ te ǀ asya ǀ purā ǀ vividre ǀ sat ǀ ūṃ iti ǀ nūtanāsaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.027.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.6.23.02
- Maṇḍala · Anuvāka · Ṛk
- 06.03.029
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.