Ṛgveda · Maṇḍala 6 · Sūkta 27

Ṛk 6.27.8

Indra · Bharadvāja Bārhaspatya

The whole sūkta Link

Saṃhitā

द्व॒याँ अ॑ग्ने र॒थिनो॑ विंश॒तिं गा व॒धूम॑तो म॒घवा॒ मह्यं॑ सं॒राट् ।
अ॒भ्या॒व॒र्ती चा॑यमा॒नो द॑दाति दू॒णाशे॒यं दक्षि॑णा पार्थ॒वानां॑ ॥

द्वयां अग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं सम्राट् |
अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम् ||

dvayā́m̐ agne rathíno viṃśatím gā́ vadhū́mato maghávā máhyam samrā́ṭ ǀ
abhyāvartī́ cāyamānó dadāti dūṇā́śeyám dákṣiṇā pārthavā́nām ǁ

dvayāṃ agne rathino viṃśatiṃ gā vadhūmato maghavā mahyaṃ samrāṭ |
abhyāvartī cāyamāno dadāti dūṇāśeyaṃ dakṣiṇā pārthavānām ||

Padapāṭha

द्व॒यान् । अ॒ग्ने॒ । र॒थिनः॑ । विं॒श॒तिम् । गाः । व॒धूऽम॑तः । म॒घऽवा॑ । मह्य॑म् । स॒म्ऽराट् ।
अ॒भि॒ऽआ॒व॒र्ती । चा॒य॒मा॒नः । द॒दा॒ति॒ । दुः॒ऽनशा॑ । इ॒यम् । दक्षि॑णा । पा॒र्थ॒वाना॑म् ॥

द्वयान् । अग्ने । रथिनः । विंशतिम् । गाः । वधूऽमतः । मघऽवा । मह्यम् । सम्ऽराट् ।
अभिऽआवर्ती । चायमानः । ददाति । दुःऽनशा । इयम् । दक्षिणा । पार्थवानाम् ॥

dvayā́n ǀ agne ǀ rathínaḥ ǀ viṃśatím ǀ gā́ḥ ǀ vadhū́-mataḥ ǀ maghá-vā ǀ máhyam ǀ sam-rā́ṭ ǀ
abhi-āvartī́ ǀ cāyamānáḥ ǀ dadāti ǀ duḥ-náśā ǀ iyám ǀ dákṣiṇā ǀ pārthavā́nām ǁ

dvayān ǀ agne ǀ rathinaḥ ǀ viṃśatim ǀ gāḥ ǀ vadhū-mataḥ ǀ magha-vā ǀ mahyam ǀ sam-rāṭ ǀ
abhi-āvartī ǀ cāyamānaḥ ǀ dadāti ǀ duḥ-naśā ǀ iyam ǀ dakṣiṇā ǀ pārthavānām ǁ

References

Maṇḍala · Sūkta · Ṛk
06.027.08
Aṣṭaka · Adhyāya · Varga · Ṛk
4.6.24.03
Maṇḍala · Anuvāka · Ṛk
06.03.035
Devatā देवता
Indra
Ṛṣi ऋषि
Bharadvāja Bārhaspatya
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 6.27.8

Interpretations

Sāyaṇa

आगावइत्यष्टर्चंपंचमंसूक्तंअत्रेयमनुक्रमणिका—आगावोगव्यंद्वितीयैन्द्रीवांत्यश्चपादोत्यानुष्टुप् जागतस्तृचोद्वितीयादिरिति । भरद्वा- जऋषिः इन्द्रोयज्वनइत्याद्यस्तृचोजागतः उपेदमित्यंत्यानुष्टुप् शिष्टाश्चतस्रस्त्रिष्टुभः कृत्स्नस्यगौर्देवता द्वितीयायाः सूक्तांत्यपादस्यच विकल्पेनेन्द्रोदेवता गवामुपस्थानेएतत्सूक्तं सूत्रितंच—आगावीयमेकइति ।