Ṛk 6.1.9
Saṃhitā
सो अ॑ग्न ईजे शश॒मे च॒ मर्तो॒ यस्त॒ आन॑ट् स॒मिधा॑ ह॒व्यदा॑तिं ।
य आहु॑तिं॒ परि॒ वेदा॒ नमो॑भि॒र्विश्वेत्स वा॒मा द॑धते॒ त्वोतः॑ ॥
सो अग्न ईजे शशमे च मर्तो यस् त आनट् समिधा हव्यदातिम् |
य आहुतिम् परि वेदा नमोभिर् विश्वेत् स वामा दधते त्वोतः ||
só agna īje śaśamé ca márto yásta ā́naṭ samídhā havyádātim ǀ
yá ā́hutim pári védā námobhirvíśvétsá vāmā́ dadhate tvótaḥ ǁ
so agna īje śaśame ca marto yas ta ānaṭ samidhā havyadātim |
ya āhutim pari vedā namobhir viśvet sa vāmā dadhate tvotaḥ ||
Padapāṭha
सः । अ॒ग्ने॒ । ई॒जे॒ । श॒श॒मे । च॒ । मर्तः॑ । यः । ते॒ । आन॑ट् । स॒म्ऽइधा॑ । ह॒व्यऽदा॑तिम् ।
यः । आऽहु॑तिम् । परि॑ । वे॒द॒ । नमः॑ऽभिः । विश्वा॑ । इत् । सः । वा॒मा । द॒ध॒ते॒ । त्वाऽऊ॑तः ॥
सः । अग्ने । ईजे । शशमे । च । मर्तः । यः । ते । आनट् । सम्ऽइधा । हव्यऽदातिम् ।
यः । आऽहुतिम् । परि । वेद । नमःऽभिः । विश्वा । इत् । सः । वामा । दधते । त्वाऽऊतः ॥
sáḥ ǀ agne ǀ īje ǀ śaśamé ǀ ca ǀ mártaḥ ǀ yáḥ ǀ te ǀ ā́naṭ ǀ sam-ídhā ǀ havyá-dātim ǀ
yáḥ ǀ ā́-hutim ǀ pári ǀ veda ǀ námaḥ-bhiḥ ǀ víśvā ǀ ít ǀ sáḥ ǀ vāmā́ ǀ dadhate ǀ tvā́-ūtaḥ ǁ
saḥ ǀ agne ǀ īje ǀ śaśame ǀ ca ǀ martaḥ ǀ yaḥ ǀ te ǀ ānaṭ ǀ sam-idhā ǀ havya-dātim ǀ
yaḥ ǀ ā-hutim ǀ pari ǀ veda ǀ namaḥ-bhiḥ ǀ viśvā ǀ it ǀ saḥ ǀ vāmā ǀ dadhate ǀ tvā-ūtaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.001.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.36.04
- Maṇḍala · Anuvāka · Ṛk
- 06.01.009
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.