Ṛk 6.1.2
Saṃhitā
अधा॒ होता॒ न्य॑सीदो॒ यजी॑यानि॒ळस्प॒द इ॒षय॒न्नीड्यः॒ सन् ।
तं त्वा॒ नरः॑ प्रथ॒मं दे॑व॒यंतो॑ म॒हो रा॒ये चि॒तयं॑तो॒ अनु॑ ग्मन् ॥
अधा होता न्य् असीदो यजीयान् इऌअस् पद इषयन्न् ईड्यः सन् |
तं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनु ग्मन् ||
ádhā hótā nyásīdo yájīyāniḷáspadá iṣáyannī́ḍyaḥ sán ǀ
tám tvā náraḥ prathamám devayánto mahó rāyé citáyanto ánu gman ǁ
adhā hotā ny asīdo yajīyān iḷas pada iṣayann īḍyaḥ san |
taṃ tvā naraḥ prathamaṃ devayanto maho rāye citayanto anu gman ||
Padapāṭha
अध॑ । होता॑ । नि । अ॒सी॒दः॒ । यजी॑यान् । इ॒ळः । प॒दे । इ॒षय॑न् । ईड्यः॑ । सन् ।
तम् । त्वा॒ । नरः॑ । प्र॒थ॒मम् । दे॒व॒ऽयन्तः॑ । म॒हः । रा॒ये । चि॒तय॑न्तः । अनु॑ । ग्म॒न् ॥
अध । होता । नि । असीदः । यजीयान् । इळः । पदे । इषयन् । ईड्यः । सन् ।
तम् । त्वा । नरः । प्रथमम् । देवऽयन्तः । महः । राये । चितयन्तः । अनु । ग्मन् ॥
ádha ǀ hótā ǀ ní ǀ asīdaḥ ǀ yájīyān ǀ iḷáḥ ǀ padé ǀ iṣáyan ǀ ī́ḍyaḥ ǀ sán ǀ
tám ǀ tvā ǀ náraḥ ǀ prathamám ǀ deva-yántaḥ ǀ maháḥ ǀ rāyé ǀ citáyantaḥ ǀ ánu ǀ gman ǁ
adha ǀ hotā ǀ ni ǀ asīdaḥ ǀ yajīyān ǀ iḷaḥ ǀ pade ǀ iṣayan ǀ īḍyaḥ ǀ san ǀ
tam ǀ tvā ǀ naraḥ ǀ prathamam ǀ deva-yantaḥ ǀ mahaḥ ǀ rāye ǀ citayantaḥ ǀ anu ǀ gman ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.001.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.35.02
- Maṇḍala · Anuvāka · Ṛk
- 06.01.002
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.