Ṛk 6.1.8
Saṃhitā
वि॒शां क॒विं वि॒श्पतिं॒ शश्व॑तीनां नि॒तोश॑नं वृष॒भं च॑र्षणी॒नां ।
प्रेती॑षणिमि॒षयं॑तं पाव॒कं राजं॑तम॒ग्निं य॑ज॒तं र॑यी॒णां ॥
विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम् |
प्रेतीषणिम् इषयन्तम् पावकं राजन्तम् अग्निं यजतं रयीणाम् ||
viśā́m kavím viśpátim śáśvatīnām nitóśanam vṛṣabhám carṣaṇīnā́m ǀ
prétīṣaṇimiṣáyantam pāvakám rā́jantamagním yajatám rayīṇā́m ǁ
viśāṃ kaviṃ viśpatiṃ śaśvatīnāṃ nitośanaṃ vṛṣabhaṃ carṣaṇīnām |
pretīṣaṇim iṣayantam pāvakaṃ rājantam agniṃ yajataṃ rayīṇām ||
Padapāṭha
वि॒शाम् । क॒विम् । वि॒श्पति॑म् । शश्व॑तीनाम् । नि॒ऽतोश॑नम् । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् ।
प्रेति॑ऽइषणिम् । इ॒षय॑न्तम् । पा॒व॒कम् । राज॑न्तम् । अ॒ग्निम् । य॒ज॒तम् । र॒यी॒णाम् ॥
विशाम् । कविम् । विश्पतिम् । शश्वतीनाम् । निऽतोशनम् । वृषभम् । चर्षणीनाम् ।
प्रेतिऽइषणिम् । इषयन्तम् । पावकम् । राजन्तम् । अग्निम् । यजतम् । रयीणाम् ॥
viśā́m ǀ kavím ǀ viśpátim ǀ śáśvatīnām ǀ ni-tóśanam ǀ vṛṣabhám ǀ carṣaṇīnā́m ǀ
préti-iṣaṇim ǀ iṣáyantam ǀ pāvakám ǀ rā́jantam ǀ agním ǀ yajatám ǀ rayīṇā́m ǁ
viśām ǀ kavim ǀ viśpatim ǀ śaśvatīnām ǀ ni-tośanam ǀ vṛṣabham ǀ carṣaṇīnām ǀ
preti-iṣaṇim ǀ iṣayantam ǀ pāvakam ǀ rājantam ǀ agnim ǀ yajatam ǀ rayīṇām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.001.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.36.03
- Maṇḍala · Anuvāka · Ṛk
- 06.01.008
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.