Ṛk 6.1.6
Saṃhitā
स॒प॒र्येण्यः॒ स प्रि॒यो वि॒क्ष्व१॒॑ग्निर्होता॑ मं॒द्रो नि ष॑सादा॒ यजी॑यान् ।
तं त्वा॑ व॒यं दम॒ आ दी॑दि॒वांस॒मुप॑ ज्ञु॒बाधो॒ नम॑सा सदेम ॥
सपर्येण्यः स प्रियो विक्ष्व् अग्निर् होता मन्द्रो नि षसादा यजीयान् |
तं त्वा वयं दम आ दीदिवांसम् उप ज्ञुबाधो नमसा सदेम ||
saparyéṇyaḥ sá priyó vikṣvágnírhótā mandró ní ṣasādā yájīyān ǀ
tám tvā vayám dáma ā́ dīdivā́ṃsamúpa jñubā́dho námasā sadema ǁ
saparyeṇyaḥ sa priyo vikṣv agnir hotā mandro ni ṣasādā yajīyān |
taṃ tvā vayaṃ dama ā dīdivāṃsam upa jñubādho namasā sadema ||
Padapāṭha
स॒प॒र्येण्यः॑ । सः । प्रि॒यः । वि॒क्षु । अ॒ग्निः । होता॑ । म॒न्द्रः । नि । स॒सा॒द॒ । यजी॑यान् ।
तम् । त्वा॒ । व॒यम् । दमे॑ । आ । दी॒दि॒ऽवांस॑म् । उप॑ । ज्ञु॒ऽबाधः॑ । नम॑सा । स॒दे॒म॒ ॥
सपर्येण्यः । सः । प्रियः । विक्षु । अग्निः । होता । मन्द्रः । नि । ससाद । यजीयान् ।
तम् । त्वा । वयम् । दमे । आ । दीदिऽवांसम् । उप । ज्ञुऽबाधः । नमसा । सदेम ॥
saparyéṇyaḥ ǀ sáḥ ǀ priyáḥ ǀ vikṣú ǀ agníḥ ǀ hótā ǀ mandráḥ ǀ ní ǀ sasāda ǀ yájīyān ǀ
tám ǀ tvā ǀ vayám ǀ dáme ǀ ā́ ǀ dīdi-vā́ṃsam ǀ úpa ǀ jñu-bā́dhaḥ ǀ námasā ǀ sadema ǁ
saparyeṇyaḥ ǀ saḥ ǀ priyaḥ ǀ vikṣu ǀ agniḥ ǀ hotā ǀ mandraḥ ǀ ni ǀ sasāda ǀ yajīyān ǀ
tam ǀ tvā ǀ vayam ǀ dame ǀ ā ǀ dīdi-vāṃsam ǀ upa ǀ jñu-bādhaḥ ǀ namasā ǀ sadema ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 06.001.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.36.01
- Maṇḍala · Anuvāka · Ṛk
- 06.01.006
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Bharadvāja Bārhaspatya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.