Sūkta 87
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Evayāmarut Ātreya
- Chandas छन्दस्
- Atijagatī
Metres by ṛk
1st set of styles bhurigjagatī (3, 6, 7); svarāḍjagatī (2, 8); virāḍjagatī (5, 9); atijagatī (1); nicṛjjagatī (4)
2nd set of styles atijagatī
-
Ṛk 1
प्र वो॑ म॒हे म॒तयो॑ यंतु॒ विष्ण॑वे म॒रुत्व॑ते गिरि॒जा ए॑व॒याम॑रुत् ।
प्र शर्धा॑य॒ प्रय॑ज्यवे सुखा॒दये॑ त॒वसे॑ भं॒ददि॑ष्टये॒ धुनि॑व्रताय॒ शव॑से ॥प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् |
प्र शर्धाय प्रयज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे ||prá vo mahé matáyo yantu víṣṇave marútvate girijā́ evayā́marut ǀ
prá śárdhāya práyajyave sukhādáye taváse bhandádiṣṭaye dhúnivratāya śávase ǁpra vo mahe matayo yantu viṣṇave marutvate girijā evayāmarut |
pra śardhāya prayajyave sukhādaye tavase bhandadiṣṭaye dhunivratāya śavase ||प्र । वः॒ । म॒हे । म॒तयः॑ । य॒न्तु॒ । विष्ण॑वे । म॒रुत्व॑ते । गि॒रि॒ऽजाः । ए॒व॒याम॑रुत् ।
प्र । शर्धा॑य । प्रऽय॑ज्यवे । सु॒ऽखा॒दये॑ । त॒वसे॑ । भ॒न्दत्ऽइ॑ष्टये । धुनि॑ऽव्रताय । शव॑से ॥प्र । वः । महे । मतयः । यन्तु । विष्णवे । मरुत्वते । गिरिऽजाः । एवयामरुत् ।
प्र । शर्धाय । प्रऽयज्यवे । सुऽखादये । तवसे । भन्दत्ऽइष्टये । धुनिऽव्रताय । शवसे ॥prá ǀ vaḥ ǀ mahé ǀ matáyaḥ ǀ yantu ǀ víṣṇave ǀ marútvate ǀ giri-jā́ḥ ǀ evayā́marut ǀ
prá ǀ śárdhāya ǀ prá-yajyave ǀ su-khādáye ǀ taváse ǀ bhandát-iṣṭaye ǀ dhúni-vratāya ǀ śávase ǁpra ǀ vaḥ ǀ mahe ǀ matayaḥ ǀ yantu ǀ viṣṇave ǀ marutvate ǀ giri-jāḥ ǀ evayāmarut ǀ
pra ǀ śardhāya ǀ pra-yajyave ǀ su-khādaye ǀ tavase ǀ bhandat-iṣṭaye ǀ dhuni-vratāya ǀ śavase ǁ5.87.1 Aṣṭaka 4.4.33.1Anuvāka 5.6.106
-
Ṛk 2
प्र ये जा॒ता म॑हि॒ना ये च॒ नु स्व॒यं प्र वि॒द्मना॑ ब्रु॒वत॑ एव॒याम॑रुत् ।
क्रत्वा॒ तद्वो॑ मरुतो॒ नाधृषे॒ शवो॑ दा॒ना म॒ह्ना तदे॑षा॒मधृ॑ष्टासो॒ नाद्र॑यः ॥प्र ये जाता महिना ये च नु स्वयम् प्र विद्मना ब्रुवत एवयामरुत् |
क्रत्वा तद् वो मरुतो नाधृषे शवो दाना मह्ना तद् एषाम् अधृष्टासो नाद्रयः ||prá yé jātā́ mahinā́ yé ca nú svayám prá vidmánā bruváta evayā́marut ǀ
krátvā tádvo maruto nā́dhṛ́ṣe śávo dānā́ mahnā́ tádeṣāmádhṛṣṭāso nā́drayaḥ ǁpra ye jātā mahinā ye ca nu svayam pra vidmanā bruvata evayāmarut |
kratvā tad vo maruto nādhṛṣe śavo dānā mahnā tad eṣām adhṛṣṭāso nādrayaḥ ||प्र । ये । जा॒ताः । म॒हि॒ना । ये । च॒ । नु । स्व॒यम् । प्र । वि॒द्मना॑ । ब्रु॒वते॑ । ए॒व॒याम॑रुत् ।
क्रत्वा॑ । तत् । वः॒ । म॒रु॒तः॒ । न । आ॒ऽधृषे॑ । शवः॑ । दा॒ना । म॒ह्ना । तत् । ए॒षा॒म् । अधृ॑ष्टासः । न । अद्र॑यः ॥प्र । ये । जाताः । महिना । ये । च । नु । स्वयम् । प्र । विद्मना । ब्रुवते । एवयामरुत् ।
क्रत्वा । तत् । वः । मरुतः । न । आऽधृषे । शवः । दाना । मह्ना । तत् । एषाम् । अधृष्टासः । न । अद्रयः ॥prá ǀ yé ǀ jātā́ḥ ǀ mahinā́ ǀ yé ǀ ca ǀ nú ǀ svayám ǀ prá ǀ vidmánā ǀ bruváte ǀ evayā́marut ǀ
krátvā ǀ tát ǀ vaḥ ǀ marutaḥ ǀ ná ǀ ā-dhṛ́ṣe ǀ śávaḥ ǀ dānā́ ǀ mahnā́ ǀ tát ǀ eṣām ǀ ádhṛṣṭāsaḥ ǀ ná ǀ ádrayaḥ ǁpra ǀ ye ǀ jātāḥ ǀ mahinā ǀ ye ǀ ca ǀ nu ǀ svayam ǀ pra ǀ vidmanā ǀ bruvate ǀ evayāmarut ǀ
kratvā ǀ tat ǀ vaḥ ǀ marutaḥ ǀ na ǀ ā-dhṛṣe ǀ śavaḥ ǀ dānā ǀ mahnā ǀ tat ǀ eṣām ǀ adhṛṣṭāsaḥ ǀ na ǀ adrayaḥ ǁ5.87.2 Aṣṭaka 4.4.33.2Anuvāka 5.6.107
-
Ṛk 3
प्र ये दि॒वो बृ॑ह॒तः शृ॑ण्वि॒रे गि॒रा सु॒शुक्वा॑नः सु॒भ्व॑ एव॒याम॑रुत् ।
न येषा॒मिरी॑ स॒धस्थ॒ ईष्ट॒ आँ अ॒ग्नयो॒ न स्ववि॑द्युतः॒ प्र स्यं॒द्रासो॒ धुनी॑नां ॥प्र ये दिवो बृहतः शृण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत् |
न येषाम् इरी सधस्थ ईष्ट आं अग्नयो न स्वविद्युतः प्र स्यन्द्रासो धुनीनाम् ||prá yé divó bṛhatáḥ śṛṇviré girā́ suśúkvānaḥ subhvá evayā́marut ǀ
ná yéṣāmírī sadhástha ī́ṣṭa ā́m̐ agnáyo ná svávidyutaḥ prá syandrā́so dhúnīnām ǁpra ye divo bṛhataḥ śṛṇvire girā suśukvānaḥ subhva evayāmarut |
na yeṣām irī sadhastha īṣṭa āṃ agnayo na svavidyutaḥ pra syandrāso dhunīnām ||प्र । ये । दि॒वः । बृ॒ह॒तः । शृ॒ण्वि॒रे । गि॒रा । सु॒ऽशुक्वा॑नः । सु॒ऽभ्वः॑ । ए॒व॒याम॑रुत् ।
न । येषा॑म् । इरी॑ । स॒धऽस्थे॑ । ईष्टे॑ । आ । अ॒ग्नयः॑ । न । स्वऽवि॑द्युतः । प्र । स्य॒न्द्रासः॑ । धुनी॑नाम् ॥प्र । ये । दिवः । बृहतः । शृण्विरे । गिरा । सुऽशुक्वानः । सुऽभ्वः । एवयामरुत् ।
न । येषाम् । इरी । सधऽस्थे । ईष्टे । आ । अग्नयः । न । स्वऽविद्युतः । प्र । स्यन्द्रासः । धुनीनाम् ॥prá ǀ yé ǀ diváḥ ǀ bṛhatáḥ ǀ śṛṇviré ǀ girā́ ǀ su-śúkvānaḥ ǀ su-bhváḥ ǀ evayā́marut ǀ
ná ǀ yéṣām ǀ írī ǀ sadhá-sthe ǀ ī́ṣṭe ǀ ā́ ǀ agnáyaḥ ǀ ná ǀ svá-vidyutaḥ ǀ prá ǀ syandrā́saḥ ǀ dhúnīnām ǁpra ǀ ye ǀ divaḥ ǀ bṛhataḥ ǀ śṛṇvire ǀ girā ǀ su-śukvānaḥ ǀ su-bhvaḥ ǀ evayāmarut ǀ
na ǀ yeṣām ǀ irī ǀ sadha-sthe ǀ īṣṭe ǀ ā ǀ agnayaḥ ǀ na ǀ sva-vidyutaḥ ǀ pra ǀ syandrāsaḥ ǀ dhunīnām ǁ5.87.3 Aṣṭaka 4.4.33.3Anuvāka 5.6.108
-
Ṛk 4
स च॑क्रमे मह॒तो निरु॑रुक्र॒मः स॑मा॒नस्मा॒त्सद॑स एव॒याम॑रुत् ।
य॒दायु॑क्त॒ त्मना॒ स्वादधि॒ ष्णुभि॒र्विष्प॑र्धसो॒ विम॑हसो॒ जिगा॑ति॒ शेवृ॑धो॒ नृभिः॑ ॥स चक्रमे महतो निर् उरुक्रमः समानस्मात् सदस एवयामरुत् |
यदायुक्त त्मना स्वाद् अधि ष्णुभिर् विष्पर्धसो विमहसो जिगाति शेवृधो नृभिः ||sá cakrame maható nírurukramáḥ samānásmātsádasa evayā́marut ǀ
yadā́yukta tmánā svā́dádhi ṣṇúbhirvíṣpardhaso vímahaso jígāti śévṛdho nṛ́bhiḥ ǁsa cakrame mahato nir urukramaḥ samānasmāt sadasa evayāmarut |
yadāyukta tmanā svād adhi ṣṇubhir viṣpardhaso vimahaso jigāti śevṛdho nṛbhiḥ ||सः । च॒क्र॒मे॒ । म॒ह॒तः । निः । उ॒रु॒ऽक्र॒मः । स॒मा॒नस्मा॑त् । सद॑सः । ए॒व॒याम॑रुत् ।
य॒दा । अयु॑क्त । त्मना॑ । स्वात् । अधि॑ । स्नुऽभिः॑ । विऽस्प॑र्धसः । विऽम॑हसः । जिगा॑ति । शेऽवृ॑धः । नृऽभिः॑ ॥सः । चक्रमे । महतः । निः । उरुऽक्रमः । समानस्मात् । सदसः । एवयामरुत् ।
यदा । अयुक्त । त्मना । स्वात् । अधि । स्नुऽभिः । विऽस्पर्धसः । विऽमहसः । जिगाति । शेऽवृधः । नृऽभिः ॥sáḥ ǀ cakrame ǀ mahatáḥ ǀ níḥ ǀ uru-kramáḥ ǀ samānásmāt ǀ sádasaḥ ǀ evayā́marut ǀ
yadā́ ǀ áyukta ǀ tmánā ǀ svā́t ǀ ádhi ǀ snú-bhiḥ ǀ ví-spardhasaḥ ǀ ví-mahasaḥ ǀ jígāti ǀ śé-vṛdhaḥ ǀ nṛ́-bhiḥ ǁsaḥ ǀ cakrame ǀ mahataḥ ǀ niḥ ǀ uru-kramaḥ ǀ samānasmāt ǀ sadasaḥ ǀ evayāmarut ǀ
yadā ǀ ayukta ǀ tmanā ǀ svāt ǀ adhi ǀ snu-bhiḥ ǀ vi-spardhasaḥ ǀ vi-mahasaḥ ǀ jigāti ǀ śe-vṛdhaḥ ǀ nṛ-bhiḥ ǁ5.87.4 Aṣṭaka 4.4.33.4Anuvāka 5.6.109
-
Ṛk 5
स्व॒नो न वोऽम॑वान्रेजय॒द्वृषा॑ त्वे॒षो य॒यिस्त॑वि॒ष ए॑व॒याम॑रुत् ।
येना॒ सहं॑त ऋं॒जत॒ स्वरो॑चिषः॒ स्थार॑श्मानो हिर॒ण्ययाः॑ स्वायु॒धास॑ इ॒ष्मिणः॑ ॥स्वनो न वो ऽमवान् रेजयद् वृषा त्वेषो ययिस् तविष एवयामरुत् |
येना सहन्त ऋञ्जत स्वरोचिष स्थारश्मानो हिरण्ययाः स्वायुधास इष्मिणः ||svanó ná vó’mavānrejayadvṛ́ṣā tveṣó yayístaviṣá evayā́marut ǀ
yénā sáhanta ṛñjáta svárociṣaḥ sthā́raśmāno hiraṇyáyāḥ svāyudhā́sa iṣmíṇaḥ ǁsvano na vo 'mavān rejayad vṛṣā tveṣo yayis taviṣa evayāmarut |
yenā sahanta ṛñjata svarociṣa sthāraśmāno hiraṇyayāḥ svāyudhāsa iṣmiṇaḥ ||स्व॒नः । न । वः॒ । अम॑ऽवान् । रे॒ज॒य॒त् । वृषा॑ । त्वे॒षः । य॒यिः । त॒वि॒षः । ए॒व॒याम॑रुत् ।
येन॑ । सह॑न्तः । ऋ॒ञ्जत॑ । स्वऽरो॑चिषः । स्थाःऽर॑श्मानः । हि॒र॒ण्ययाः॑ । सु॒ऽआ॒यु॒धासः॑ । इ॒ष्मिणः॑ ॥स्वनः । न । वः । अमऽवान् । रेजयत् । वृषा । त्वेषः । ययिः । तविषः । एवयामरुत् ।
येन । सहन्तः । ऋञ्जत । स्वऽरोचिषः । स्थाःऽरश्मानः । हिरण्ययाः । सुऽआयुधासः । इष्मिणः ॥svanáḥ ǀ ná ǀ vaḥ ǀ áma-vān ǀ rejayat ǀ vṛ́ṣā ǀ tveṣáḥ ǀ yayíḥ ǀ taviṣáḥ ǀ evayā́marut ǀ
yéna ǀ sáhantaḥ ǀ ṛñjáta ǀ svá-rociṣaḥ ǀ sthā́ḥ-raśmānaḥ ǀ hiraṇyáyāḥ ǀ su-āyudhā́saḥ ǀ iṣmíṇaḥ ǁsvanaḥ ǀ na ǀ vaḥ ǀ ama-vān ǀ rejayat ǀ vṛṣā ǀ tveṣaḥ ǀ yayiḥ ǀ taviṣaḥ ǀ evayāmarut ǀ
yena ǀ sahantaḥ ǀ ṛñjata ǀ sva-rociṣaḥ ǀ sthāḥ-raśmānaḥ ǀ hiraṇyayāḥ ǀ su-āyudhāsaḥ ǀ iṣmiṇaḥ ǁ5.87.5 Aṣṭaka 4.4.33.5Anuvāka 5.6.110
-
Ṛk 6
अ॒पा॒रो वो॑ महि॒मा वृ॑द्धशवसस्त्वे॒षं शवो॑ऽवत्वेव॒याम॑रुत् ।
स्थाता॑रो॒ हि प्रसि॑तौ सं॒दृशि॒ स्थन॒ ते न॑ उरुष्यता नि॒दः शु॑शु॒क्वांसो॒ नाग्नयः॑ ॥अपारो वो महिमा वृद्धशवसस् त्वेषं शवो ऽवत्व् एवयामरुत् |
स्थातारो हि प्रसितौ संदृशि स्थन ते न उरुष्यता निदः शुशुक्वांसो नाग्नयः ||apāró vo mahimā́ vṛddhaśavasastveṣám śávo’vatvevayā́marut ǀ
sthā́tāro hí prásitau saṃdṛ́śi sthána té na uruṣyatā nidáḥ śuśukvā́ṃso nā́gnáyaḥ ǁapāro vo mahimā vṛddhaśavasas tveṣaṃ śavo 'vatv evayāmarut |
sthātāro hi prasitau saṃdṛśi sthana te na uruṣyatā nidaḥ śuśukvāṃso nāgnayaḥ ||अ॒पा॒रः । वः॒ । म॒हि॒मा । वृ॒द्ध॒ऽश॒व॒सः॒ । त्वे॒षम् । शवः॑ । अ॒व॒तु॒ । ए॒व॒याम॑रुत् ।
स्थाता॑रः । हि । प्रऽसि॑तौ । स॒म्ऽदृशि॑ । स्थन॑ । ते । नः॒ । उ॒रु॒ष्य॒त॒ । नि॒दः । शु॒शु॒क्वांसः॑ । न । अ॒ग्नयः॑ ॥अपारः । वः । महिमा । वृद्धऽशवसः । त्वेषम् । शवः । अवतु । एवयामरुत् ।
स्थातारः । हि । प्रऽसितौ । सम्ऽदृशि । स्थन । ते । नः । उरुष्यत । निदः । शुशुक्वांसः । न । अग्नयः ॥apāráḥ ǀ vaḥ ǀ mahimā́ ǀ vṛddha-śavasaḥ ǀ tveṣám ǀ śávaḥ ǀ avatu ǀ evayā́marut ǀ
sthā́tāraḥ ǀ hí ǀ prá-sitau ǀ sam-dṛ́śi ǀ sthána ǀ té ǀ naḥ ǀ uruṣyata ǀ nidáḥ ǀ śuśukvā́ṃsaḥ ǀ ná ǀ agnáyaḥ ǁapāraḥ ǀ vaḥ ǀ mahimā ǀ vṛddha-śavasaḥ ǀ tveṣam ǀ śavaḥ ǀ avatu ǀ evayāmarut ǀ
sthātāraḥ ǀ hi ǀ pra-sitau ǀ sam-dṛśi ǀ sthana ǀ te ǀ naḥ ǀ uruṣyata ǀ nidaḥ ǀ śuśukvāṃsaḥ ǀ na ǀ agnayaḥ ǁ5.87.6 Aṣṭaka 4.4.34.1Anuvāka 5.6.111
-
Ṛk 7
ते रु॒द्रासः॒ सुम॑खा अ॒ग्नयो॑ यथा तुविद्यु॒म्ना अ॑वंत्वेव॒याम॑रुत् ।
दी॒र्घं पृ॒थु प॑प्रथे॒ सद्म॒ पार्थि॑वं॒ येषा॒मज्मे॒ष्वा म॒हः शर्धां॒स्यद्भु॑तैनसां ॥ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्व् एवयामरुत् |
दीर्घम् पृथु पप्रथे सद्म पार्थिवं येषाम् अज्मेष्व् आ महः शर्धांस्य् अद्भुतैनसाम् ||té rudrā́saḥ súmakhā agnáyo yathā tuvidyumnā́ avantvevayā́marut ǀ
dīrghám pṛthú paprathe sádma pā́rthivam yéṣāmájmeṣvā́ maháḥ śárdhāṃsyádbhutainasām ǁte rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantv evayāmarut |
dīrgham pṛthu paprathe sadma pārthivaṃ yeṣām ajmeṣv ā mahaḥ śardhāṃsy adbhutainasām ||ते । रु॒द्रासः॑ । सुऽम॑खाः । अ॒ग्नयः॑ । य॒था॒ । तु॒वि॒ऽद्यु॒म्नाः । अ॒व॒न्तु॒ । ए॒व॒याम॑रुत् ।
दी॒र्घम् । पृ॒थु । प॒प्र॒थे॒ । सद्म॑ । पार्थि॑वम् । येषा॑म् । अज्मे॑षु । आ । म॒हः । शर्धां॑सि । अद्भु॑तऽएनसाम् ॥ते । रुद्रासः । सुऽमखाः । अग्नयः । यथा । तुविऽद्युम्नाः । अवन्तु । एवयामरुत् ।
दीर्घम् । पृथु । पप्रथे । सद्म । पार्थिवम् । येषाम् । अज्मेषु । आ । महः । शर्धांसि । अद्भुतऽएनसाम् ॥té ǀ rudrā́saḥ ǀ sú-makhāḥ ǀ agnáyaḥ ǀ yathā ǀ tuvi-dyumnā́ḥ ǀ avantu ǀ evayā́marut ǀ
dīrghám ǀ pṛthú ǀ paprathe ǀ sádma ǀ pā́rthivam ǀ yéṣām ǀ ájmeṣu ǀ ā́ ǀ maháḥ ǀ śárdhāṃsi ǀ ádbhuta-enasām ǁte ǀ rudrāsaḥ ǀ su-makhāḥ ǀ agnayaḥ ǀ yathā ǀ tuvi-dyumnāḥ ǀ avantu ǀ evayāmarut ǀ
dīrgham ǀ pṛthu ǀ paprathe ǀ sadma ǀ pārthivam ǀ yeṣām ǀ ajmeṣu ǀ ā ǀ mahaḥ ǀ śardhāṃsi ǀ adbhuta-enasām ǁ5.87.7 Aṣṭaka 4.4.34.2Anuvāka 5.6.112
-
Ṛk 8
अ॒द्वे॒षो नो॑ मरुतो गा॒तुमेत॑न॒ श्रोता॒ हवं॑ जरि॒तुरे॑व॒याम॑रुत् ।
विष्णो॑र्म॒हः स॑मन्यवो युयोतन॒ स्मद्र॒थ्यो॒३॒॑ न दं॒सनाप॒ द्वेषां॑सि सनु॒तः ॥अद्वेषो नो मरुतो गातुम् एतन श्रोता हवं जरितुर् एवयामरुत् |
विष्णोर् महः समन्यवो युयोतन स्मद् रथ्यो न दंसनाप द्वेषांसि सनुतः ||adveṣó no maruto gātúmétana śrótā hávam jaritúrevayā́marut ǀ
víṣṇormaháḥ samanyavo yuyotana smádrathyó ná daṃsánā́pa dvéṣāṃsi sanutáḥ ǁadveṣo no maruto gātum etana śrotā havaṃ jaritur evayāmarut |
viṣṇor mahaḥ samanyavo yuyotana smad rathyo na daṃsanāpa dveṣāṃsi sanutaḥ ||अ॒द्वे॒षः । नः॒ । म॒रु॒तः॒ । गा॒तुम् । आ । इ॒त॒न॒ । श्रोत॑ । हव॑म् । ज॒रि॒तुः । ए॒व॒याम॑रुत् ।
विष्णोः॑ । म॒हः । स॒ऽम॒न्य॒वः॒ । यु॒यो॒त॒न॒ । स्मत् । र॒थ्यः॑ । न । दं॒सना॑ । अप॑ । द्वेषां॑सि । स॒नु॒तरिति॑ ॥अद्वेषः । नः । मरुतः । गातुम् । आ । इतन । श्रोत । हवम् । जरितुः । एवयामरुत् ।
विष्णोः । महः । सऽमन्यवः । युयोतन । स्मत् । रथ्यः । न । दंसना । अप । द्वेषांसि । सनुतरिति ॥adveṣáḥ ǀ naḥ ǀ marutaḥ ǀ gātúm ǀ ā́ ǀ itana ǀ śróta ǀ hávam ǀ jaritúḥ ǀ evayā́marut ǀ
víṣṇoḥ ǀ maháḥ ǀ sa-manyavaḥ ǀ yuyotana ǀ smát ǀ rathyáḥ ǀ ná ǀ daṃsánā ǀ ápa ǀ dvéṣāṃsi ǀ sanutáríti ǁadveṣaḥ ǀ naḥ ǀ marutaḥ ǀ gātum ǀ ā ǀ itana ǀ śrota ǀ havam ǀ jarituḥ ǀ evayāmarut ǀ
viṣṇoḥ ǀ mahaḥ ǀ sa-manyavaḥ ǀ yuyotana ǀ smat ǀ rathyaḥ ǀ na ǀ daṃsanā ǀ apa ǀ dveṣāṃsi ǀ sanutariti ǁ5.87.8 Aṣṭaka 4.4.34.3Anuvāka 5.6.113
-
Ṛk 9
गंता॑ नो य॒ज्ञं य॑ज्ञियाः सु॒शमि॒ श्रोता॒ हव॑मर॒क्ष ए॑व॒याम॑रुत् ।
ज्येष्ठा॑सो॒ न पर्व॑तासो॒ व्यो॑मनि यू॒यं तस्य॑ प्रचेतसः॒ स्यात॑ दु॒र्धर्त॑वो नि॒दः ॥गन्ता नो यज्ञं यज्ञियाः सुशमि श्रोता हवम् अरक्ष एवयामरुत् |
ज्येष्ठासो न पर्वतासो व्योमनि यूयं तस्य प्रचेतसः स्यात दुर्धर्तवो निदः ||gántā no yajñám yajñiyāḥ suśámi śrótā hávamarakṣá evayā́marut ǀ
jyéṣṭhāso ná párvatāso vyómani yūyám tásya pracetasaḥ syā́ta durdhártavo nidáḥ ǁgantā no yajñaṃ yajñiyāḥ suśami śrotā havam arakṣa evayāmarut |
jyeṣṭhāso na parvatāso vyomani yūyaṃ tasya pracetasaḥ syāta durdhartavo nidaḥ ||गन्त॑ । नः॒ । य॒ज्ञम् । य॒ज्ञि॒याः॒ । सु॒ऽशमि॑ । श्रोत॑ । हव॑म् । अ॒र॒क्षः । ए॒व॒याम॑रुत् ।
ज्येष्ठा॑सः । न । पर्व॑तासः । विऽओ॑मनि । यू॒यम् । तस्य॑ । प्र॒ऽचे॒त॒सः॒ । स्यात॑ । दुः॒ऽधर्त॑वः । नि॒दः ॥गन्त । नः । यज्ञम् । यज्ञियाः । सुऽशमि । श्रोत । हवम् । अरक्षः । एवयामरुत् ।
ज्येष्ठासः । न । पर्वतासः । विऽओमनि । यूयम् । तस्य । प्रऽचेतसः । स्यात । दुःऽधर्तवः । निदः ॥gánta ǀ naḥ ǀ yajñám ǀ yajñiyāḥ ǀ su-śámi ǀ śróta ǀ hávam ǀ arakṣáḥ ǀ evayā́marut ǀ
jyéṣṭhāsaḥ ǀ ná ǀ párvatāsaḥ ǀ ví-omani ǀ yūyám ǀ tásya ǀ pra-cetasaḥ ǀ syā́ta ǀ duḥ-dhártavaḥ ǀ nidáḥ ǁganta ǀ naḥ ǀ yajñam ǀ yajñiyāḥ ǀ su-śami ǀ śrota ǀ havam ǀ arakṣaḥ ǀ evayāmarut ǀ
jyeṣṭhāsaḥ ǀ na ǀ parvatāsaḥ ǀ vi-omani ǀ yūyam ǀ tasya ǀ pra-cetasaḥ ǀ syāta ǀ duḥ-dhartavaḥ ǀ nidaḥ ǁ5.87.9 Aṣṭaka 4.4.34.4Anuvāka 5.6.114
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.