Ṛk 5.87.7
Saṃhitā
ते रु॒द्रासः॒ सुम॑खा अ॒ग्नयो॑ यथा तुविद्यु॒म्ना अ॑वंत्वेव॒याम॑रुत् ।
दी॒र्घं पृ॒थु प॑प्रथे॒ सद्म॒ पार्थि॑वं॒ येषा॒मज्मे॒ष्वा म॒हः शर्धां॒स्यद्भु॑तैनसां ॥
ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्व् एवयामरुत् |
दीर्घम् पृथु पप्रथे सद्म पार्थिवं येषाम् अज्मेष्व् आ महः शर्धांस्य् अद्भुतैनसाम् ||
té rudrā́saḥ súmakhā agnáyo yathā tuvidyumnā́ avantvevayā́marut ǀ
dīrghám pṛthú paprathe sádma pā́rthivam yéṣāmájmeṣvā́ maháḥ śárdhāṃsyádbhutainasām ǁ
te rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantv evayāmarut |
dīrgham pṛthu paprathe sadma pārthivaṃ yeṣām ajmeṣv ā mahaḥ śardhāṃsy adbhutainasām ||
Padapāṭha
ते । रु॒द्रासः॑ । सुऽम॑खाः । अ॒ग्नयः॑ । य॒था॒ । तु॒वि॒ऽद्यु॒म्नाः । अ॒व॒न्तु॒ । ए॒व॒याम॑रुत् ।
दी॒र्घम् । पृ॒थु । प॒प्र॒थे॒ । सद्म॑ । पार्थि॑वम् । येषा॑म् । अज्मे॑षु । आ । म॒हः । शर्धां॑सि । अद्भु॑तऽएनसाम् ॥
ते । रुद्रासः । सुऽमखाः । अग्नयः । यथा । तुविऽद्युम्नाः । अवन्तु । एवयामरुत् ।
दीर्घम् । पृथु । पप्रथे । सद्म । पार्थिवम् । येषाम् । अज्मेषु । आ । महः । शर्धांसि । अद्भुतऽएनसाम् ॥
té ǀ rudrā́saḥ ǀ sú-makhāḥ ǀ agnáyaḥ ǀ yathā ǀ tuvi-dyumnā́ḥ ǀ avantu ǀ evayā́marut ǀ
dīrghám ǀ pṛthú ǀ paprathe ǀ sádma ǀ pā́rthivam ǀ yéṣām ǀ ájmeṣu ǀ ā́ ǀ maháḥ ǀ śárdhāṃsi ǀ ádbhuta-enasām ǁ
te ǀ rudrāsaḥ ǀ su-makhāḥ ǀ agnayaḥ ǀ yathā ǀ tuvi-dyumnāḥ ǀ avantu ǀ evayāmarut ǀ
dīrgham ǀ pṛthu ǀ paprathe ǀ sadma ǀ pārthivam ǀ yeṣām ǀ ajmeṣu ǀ ā ǀ mahaḥ ǀ śardhāṃsi ǀ adbhuta-enasām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.087.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.34.02
- Maṇḍala · Anuvāka · Ṛk
- 05.06.112
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Evayāmarut Ātreya
- Chandas छन्दस्
- Atijagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.