Ṛk 5.87.2
Saṃhitā
प्र ये जा॒ता म॑हि॒ना ये च॒ नु स्व॒यं प्र वि॒द्मना॑ ब्रु॒वत॑ एव॒याम॑रुत् ।
क्रत्वा॒ तद्वो॑ मरुतो॒ नाधृषे॒ शवो॑ दा॒ना म॒ह्ना तदे॑षा॒मधृ॑ष्टासो॒ नाद्र॑यः ॥
प्र ये जाता महिना ये च नु स्वयम् प्र विद्मना ब्रुवत एवयामरुत् |
क्रत्वा तद् वो मरुतो नाधृषे शवो दाना मह्ना तद् एषाम् अधृष्टासो नाद्रयः ||
prá yé jātā́ mahinā́ yé ca nú svayám prá vidmánā bruváta evayā́marut ǀ
krátvā tádvo maruto nā́dhṛ́ṣe śávo dānā́ mahnā́ tádeṣāmádhṛṣṭāso nā́drayaḥ ǁ
pra ye jātā mahinā ye ca nu svayam pra vidmanā bruvata evayāmarut |
kratvā tad vo maruto nādhṛṣe śavo dānā mahnā tad eṣām adhṛṣṭāso nādrayaḥ ||
Padapāṭha
प्र । ये । जा॒ताः । म॒हि॒ना । ये । च॒ । नु । स्व॒यम् । प्र । वि॒द्मना॑ । ब्रु॒वते॑ । ए॒व॒याम॑रुत् ।
क्रत्वा॑ । तत् । वः॒ । म॒रु॒तः॒ । न । आ॒ऽधृषे॑ । शवः॑ । दा॒ना । म॒ह्ना । तत् । ए॒षा॒म् । अधृ॑ष्टासः । न । अद्र॑यः ॥
प्र । ये । जाताः । महिना । ये । च । नु । स्वयम् । प्र । विद्मना । ब्रुवते । एवयामरुत् ।
क्रत्वा । तत् । वः । मरुतः । न । आऽधृषे । शवः । दाना । मह्ना । तत् । एषाम् । अधृष्टासः । न । अद्रयः ॥
prá ǀ yé ǀ jātā́ḥ ǀ mahinā́ ǀ yé ǀ ca ǀ nú ǀ svayám ǀ prá ǀ vidmánā ǀ bruváte ǀ evayā́marut ǀ
krátvā ǀ tát ǀ vaḥ ǀ marutaḥ ǀ ná ǀ ā-dhṛ́ṣe ǀ śávaḥ ǀ dānā́ ǀ mahnā́ ǀ tát ǀ eṣām ǀ ádhṛṣṭāsaḥ ǀ ná ǀ ádrayaḥ ǁ
pra ǀ ye ǀ jātāḥ ǀ mahinā ǀ ye ǀ ca ǀ nu ǀ svayam ǀ pra ǀ vidmanā ǀ bruvate ǀ evayāmarut ǀ
kratvā ǀ tat ǀ vaḥ ǀ marutaḥ ǀ na ǀ ā-dhṛṣe ǀ śavaḥ ǀ dānā ǀ mahnā ǀ tat ǀ eṣām ǀ adhṛṣṭāsaḥ ǀ na ǀ adrayaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.087.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.33.02
- Maṇḍala · Anuvāka · Ṛk
- 05.06.107
- Devatā देवता
- Maruts
- Ṛṣi ऋषि
- Evayāmarut Ātreya
- Chandas छन्दस्
- Atijagatī
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.