Sūkta 74
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Paura Ātreya
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles virāḍanuṣṭup (1, 2, 10); nicṛdanuṣṭup (4-6); anuṣṭup (3); virāḍuṣnik (7); nicṛduṣṇik (8); nicrṛdanuṣṭup (9)
2nd set of styles anuṣṭubh
-
Ṛk 1
कूष्ठो॑ देवावश्विना॒द्या दि॒वो म॑नावसू ।
तच्छ्र॑वथो वृषण्वसू॒ अत्रि॑र्वा॒मा वि॑वासति ॥कूष्ठो देवाव् अश्विनाद्या दिवो मनावसू |
तच् छ्रवथो वृषण्वसू अत्रिर् वाम् आ विवासति ||kū́ṣṭho devāvaśvinādyā́ divó manāvasū ǀ
tácchravatho vṛṣaṇvasū átrirvāmā́ vivāsati ǁkūṣṭho devāv aśvinādyā divo manāvasū |
tac chravatho vṛṣaṇvasū atrir vām ā vivāsati ||कूऽस्थः॑ । दे॒वौ॒ । अ॒श्वि॒ना॒ । अ॒द्य । दि॒वः । म॒ना॒व॒सू॒ इति॑ ।
तत् । श्र॒व॒थः॒ । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । अत्रिः॑ । वा॒म् । आ । वि॒वा॒स॒ति॒ ॥कूऽस्थः । देवौ । अश्विना । अद्य । दिवः । मनावसू इति ।
तत् । श्रवथः । वृषण्वसू इति वृषण्ऽवसू । अत्रिः । वाम् । आ । विवासति ॥kū́-sthaḥ ǀ devau ǀ aśvinā ǀ adyá ǀ diváḥ ǀ manāvasū íti ǀ
tát ǀ śravathaḥ ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ átriḥ ǀ vām ǀ ā́ ǀ vivāsati ǁkū-sthaḥ ǀ devau ǀ aśvinā ǀ adya ǀ divaḥ ǀ manāvasū iti ǀ
tat ǀ śravathaḥ ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ atriḥ ǀ vām ǀ ā ǀ vivāsati ǁ5.74.1 Aṣṭaka 4.4.13.1Anuvāka 5.6.11
-
Ṛk 2
कुह॒ त्या कुह॒ नु श्रु॒ता दि॒वि दे॒वा नास॑त्या ।
कस्मि॒न्ना य॑तथो॒ जने॒ को वां॑ न॒दीनां॒ सचा॑ ॥कुह त्या कुह नु श्रुता दिवि देवा नासत्या |
कस्मिन्न् आ यतथो जने को वां नदीनां सचा ||kúha tyā́ kúha nú śrutā́ diví devā́ nā́satyā ǀ
kásminnā́ yatatho jáne kó vām nadī́nām sácā ǁkuha tyā kuha nu śrutā divi devā nāsatyā |
kasminn ā yatatho jane ko vāṃ nadīnāṃ sacā ||कुह॑ । त्या । कुह॑ । नु । श्रु॒ता । दि॒वि । दे॒वा । नास॑त्या ।
कस्मि॑न् । आ । य॒त॒थः॒ । जने॑ । कः । वा॒म् । न॒दीना॑म् । सचा॑ ॥कुह । त्या । कुह । नु । श्रुता । दिवि । देवा । नासत्या ।
कस्मिन् । आ । यतथः । जने । कः । वाम् । नदीनाम् । सचा ॥kúha ǀ tyā́ ǀ kúha ǀ nú ǀ śrutā́ ǀ diví ǀ devā́ ǀ nā́satyā ǀ
kásmin ǀ ā́ ǀ yatathaḥ ǀ jáne ǀ káḥ ǀ vām ǀ nadī́nām ǀ sácā ǁkuha ǀ tyā ǀ kuha ǀ nu ǀ śrutā ǀ divi ǀ devā ǀ nāsatyā ǀ
kasmin ǀ ā ǀ yatathaḥ ǀ jane ǀ kaḥ ǀ vām ǀ nadīnām ǀ sacā ǁ5.74.2 Aṣṭaka 4.4.13.2Anuvāka 5.6.12
-
Ṛk 3
कं या॑थः॒ कं ह॑ गच्छथः॒ कमच्छा॑ युंजाथे॒ रथं॑ ।
कस्य॒ ब्रह्मा॑णि रण्यथो व॒यं वा॑मुश्मसी॒ष्टये॑ ॥कं याथः कं ह गच्छथः कम् अच्छा युञ्जाथे रथम् |
कस्य ब्रह्माणि रण्यथो वयं वाम् उश्मसीष्टये ||kám yāthaḥ kám ha gacchathaḥ kámácchā yuñjāthe rátham ǀ
kásya bráhmāṇi raṇyatho vayám vāmuśmasīṣṭáye ǁkaṃ yāthaḥ kaṃ ha gacchathaḥ kam acchā yuñjāthe ratham |
kasya brahmāṇi raṇyatho vayaṃ vām uśmasīṣṭaye ||कम् । या॒थः॒ । कम् । ह॒ । ग॒च्छ॒थः॒ । कम् । अच्छ॑ । यु॒ञ्जा॒थे॒ इति॑ । रथ॑म् ।
कस्य॑ । ब्रह्मा॑णि । र॒ण्य॒थः॒ । व॒यम् । वा॒म् । उ॒श्म॒सि॒ । इ॒ष्टये॑ ॥कम् । याथः । कम् । ह । गच्छथः । कम् । अच्छ । युञ्जाथे इति । रथम् ।
कस्य । ब्रह्माणि । रण्यथः । वयम् । वाम् । उश्मसि । इष्टये ॥kám ǀ yāthaḥ ǀ kám ǀ ha ǀ gacchathaḥ ǀ kám ǀ áccha ǀ yuñjāthe íti ǀ rátham ǀ
kásya ǀ bráhmāṇi ǀ raṇyathaḥ ǀ vayám ǀ vām ǀ uśmasi ǀ iṣṭáye ǁkam ǀ yāthaḥ ǀ kam ǀ ha ǀ gacchathaḥ ǀ kam ǀ accha ǀ yuñjāthe iti ǀ ratham ǀ
kasya ǀ brahmāṇi ǀ raṇyathaḥ ǀ vayam ǀ vām ǀ uśmasi ǀ iṣṭaye ǁ5.74.3 Aṣṭaka 4.4.13.3Anuvāka 5.6.13
-
Ṛk 4
पौ॒रं चि॒द्ध्यु॑द॒प्रुतं॒ पौर॑ पौ॒राय॒ जिन्व॑थः ।
यदीं॑ गृभी॒तता॑तये सिं॒हमि॑व द्रु॒हस्प॒दे ॥पौरं चिद् ध्य् उदप्रुतम् पौर पौराय जिन्वथः |
यद् ईं गृभीततातये सिंहम् इव द्रुहस् पदे ||paurám ciddhyúdaprútam páura paurā́ya jínvathaḥ ǀ
yádīm gṛbhītátātaye siṃhámiva druháspadé ǁpauraṃ cid dhy udaprutam paura paurāya jinvathaḥ |
yad īṃ gṛbhītatātaye siṃham iva druhas pade ||पौ॒रम् । चि॒त् । हि । उ॒द॒ऽप्रुत॑म् । पौर॑ । पौ॒राय॑ । जिन्व॑थः ।
यत् । ई॒म् । गृ॒भी॒तऽता॑तये । सिं॒हम्ऽइ॑व । द्रु॒हः । प॒दे ॥पौरम् । चित् । हि । उदऽप्रुतम् । पौर । पौराय । जिन्वथः ।
यत् । ईम् । गृभीतऽतातये । सिंहम्ऽइव । द्रुहः । पदे ॥paurám ǀ cit ǀ hí ǀ uda-prútam ǀ páura ǀ paurā́ya ǀ jínvathaḥ ǀ
yát ǀ īm ǀ gṛbhītá-tātaye ǀ siṃhám-iva ǀ druháḥ ǀ padé ǁpauram ǀ cit ǀ hi ǀ uda-prutam ǀ paura ǀ paurāya ǀ jinvathaḥ ǀ
yat ǀ īm ǀ gṛbhīta-tātaye ǀ siṃham-iva ǀ druhaḥ ǀ pade ǁ5.74.4 Aṣṭaka 4.4.13.4Anuvāka 5.6.14
-
Ṛk 5
प्र च्यवा॑नाज्जुजु॒रुषो॑ व॒व्रिमत्कं॒ न मुं॑चथः ।
युवा॒ यदी॑ कृ॒थः पुन॒रा काम॑मृण्वे व॒ध्वः॑ ॥प्र च्यवानाज् जुजुरुषो वव्रिम् अत्कं न मुञ्चथः |
युवा यदी कृथः पुनर् आ कामम् ऋण्वे वध्वः ||prá cyávānājjujurúṣo vavrímátkam ná muñcathaḥ ǀ
yúvā yádī kṛtháḥ púnarā́ kā́mamṛṇve vadhváḥ ǁpra cyavānāj jujuruṣo vavrim atkaṃ na muñcathaḥ |
yuvā yadī kṛthaḥ punar ā kāmam ṛṇve vadhvaḥ ||प्र । च्यवा॑नात् । जु॒जु॒रुषः॑ । व॒व्रिम् । अत्क॑म् । न । मु॒ञ्च॒थः॒ ।
युवा॑ । यदि॑ । कृ॒थः । पुनः॑ । आ । काम॑म् । ऋ॒ण्वे॒ । व॒ध्वः॑ ॥प्र । च्यवानात् । जुजुरुषः । वव्रिम् । अत्कम् । न । मुञ्चथः ।
युवा । यदि । कृथः । पुनः । आ । कामम् । ऋण्वे । वध्वः ॥prá ǀ cyávānāt ǀ jujurúṣaḥ ǀ vavrím ǀ átkam ǀ ná ǀ muñcathaḥ ǀ
yúvā ǀ yádi ǀ kṛtháḥ ǀ púnaḥ ǀ ā́ ǀ kā́mam ǀ ṛṇve ǀ vadhváḥ ǁpra ǀ cyavānāt ǀ jujuruṣaḥ ǀ vavrim ǀ atkam ǀ na ǀ muñcathaḥ ǀ
yuvā ǀ yadi ǀ kṛthaḥ ǀ punaḥ ǀ ā ǀ kāmam ǀ ṛṇve ǀ vadhvaḥ ǁ5.74.5 Aṣṭaka 4.4.13.5Anuvāka 5.6.15
-
Ṛk 6
अस्ति॒ हि वा॑मि॒ह स्तो॒ता स्मसि॑ वां सं॒दृशि॑ श्रि॒ये ।
नू श्रु॒तं म॒ आ ग॑त॒मवो॑भिर्वाजिनीवसू ॥अस्ति हि वाम् इह स्तोता स्मसि वां संदृशि श्रिये |
नू श्रुतम् म आ गतम् अवोभिर् वाजिनीवसू ||ásti hí vāmihá stotā́ smási vām saṃdṛ́śi śriyé ǀ
nū́ śrutám ma ā́ gatamávobhirvājinīvasū ǁasti hi vām iha stotā smasi vāṃ saṃdṛśi śriye |
nū śrutam ma ā gatam avobhir vājinīvasū ||अस्ति॑ । हि । वा॒म् । इ॒ह । स्तो॒ता । स्मसि॑ । वा॒म् । स॒म्ऽदृशि॑ । श्रि॒ये ।
नु । श्रु॒तम् । मे॒ । आ । ग॒त॒म् । अवः॑ऽभिः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥अस्ति । हि । वाम् । इह । स्तोता । स्मसि । वाम् । सम्ऽदृशि । श्रिये ।
नु । श्रुतम् । मे । आ । गतम् । अवःऽभिः । वाजिनीवसू इति वाजिनीऽवसू ॥ásti ǀ hí ǀ vām ǀ ihá ǀ stotā́ ǀ smási ǀ vām ǀ sam-dṛ́śi ǀ śriyé ǀ
nú ǀ śrutám ǀ me ǀ ā́ ǀ gatam ǀ ávaḥ-bhiḥ ǀ vājinīvasū íti vājinī-vasū ǁasti ǀ hi ǀ vām ǀ iha ǀ stotā ǀ smasi ǀ vām ǀ sam-dṛśi ǀ śriye ǀ
nu ǀ śrutam ǀ me ǀ ā ǀ gatam ǀ avaḥ-bhiḥ ǀ vājinīvasū iti vājinī-vasū ǁ5.74.6 Aṣṭaka 4.4.14.1Anuvāka 5.6.16
-
Ṛk 7
को वा॑म॒द्य पु॑रू॒णामा व॑व्ने॒ मर्त्या॑नां ।
को विप्रो॑ विप्रवाहसा॒ को य॒ज्ञैर्वा॑जिनीवसू ॥को वाम् अद्य पुरूणाम् आ वव्ने मर्त्यानाम् |
को विप्रो विप्रवाहसा को यज्ञैर् वाजिनीवसू ||kó vāmadyá purūṇā́mā́ vavne mártyānām ǀ
kó vípro vipravāhasā kó yajñáirvājinīvasū ǁko vām adya purūṇām ā vavne martyānām |
ko vipro vipravāhasā ko yajñair vājinīvasū ||कः । वा॒म् । अ॒द्य । पु॒रू॒णाम् । आ । व॒व्ने॒ । मर्त्या॑नाम् ।
कः । विप्रः॑ । वि॒प्र॒ऽवा॒ह॒सा॒ । कः । य॒ज्ञैः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥कः । वाम् । अद्य । पुरूणाम् । आ । वव्ने । मर्त्यानाम् ।
कः । विप्रः । विप्रऽवाहसा । कः । यज्ञैः । वाजिनीवसू इति वाजिनीऽवसू ॥káḥ ǀ vām ǀ adyá ǀ purūṇā́m ǀ ā́ ǀ vavne ǀ mártyānām ǀ
káḥ ǀ vípraḥ ǀ vipra-vāhasā ǀ káḥ ǀ yajñáiḥ ǀ vājinīvasū íti vājinī-vasū ǁkaḥ ǀ vām ǀ adya ǀ purūṇām ǀ ā ǀ vavne ǀ martyānām ǀ
kaḥ ǀ vipraḥ ǀ vipra-vāhasā ǀ kaḥ ǀ yajñaiḥ ǀ vājinīvasū iti vājinī-vasū ǁ5.74.7 Aṣṭaka 4.4.14.2Anuvāka 5.6.17
-
Ṛk 8
आ वां॒ रथो॒ रथा॑नां॒ येष्ठो॑ यात्वश्विना ।
पु॒रू चि॑दस्म॒युस्ति॒र आं॑गू॒षो मर्त्ये॒ष्वा ॥आ वां रथो रथानां येष्ठो यात्व् अश्विना |
पुरू चिद् अस्मयुस् तिर आङ्गूषो मर्त्येष्व् आ ||ā́ vām rátho ráthānām yéṣṭho yātvaśvinā ǀ
purū́ cidasmayústirá āṅgūṣó mártyeṣvā́ ǁā vāṃ ratho rathānāṃ yeṣṭho yātv aśvinā |
purū cid asmayus tira āṅgūṣo martyeṣv ā ||आ । वा॒म् । रथः॑ । रथा॑नाम् । येष्ठः॑ । या॒तु॒ । अ॒श्वि॒ना॒ ।
पु॒रु । चि॒त् । अ॒स्म॒ऽयुः । ति॒रः । आ॒ङ्गू॒षः । मर्त्ये॑षु । आ ॥आ । वाम् । रथः । रथानाम् । येष्ठः । यातु । अश्विना ।
पुरु । चित् । अस्मऽयुः । तिरः । आङ्गूषः । मर्त्येषु । आ ॥ā́ ǀ vām ǀ ráthaḥ ǀ ráthānām ǀ yéṣṭhaḥ ǀ yātu ǀ aśvinā ǀ
purú ǀ cit ǀ asma-yúḥ ǀ tiráḥ ǀ āṅgūṣáḥ ǀ mártyeṣu ǀ ā́ ǁā ǀ vām ǀ rathaḥ ǀ rathānām ǀ yeṣṭhaḥ ǀ yātu ǀ aśvinā ǀ
puru ǀ cit ǀ asma-yuḥ ǀ tiraḥ ǀ āṅgūṣaḥ ǀ martyeṣu ǀ ā ǁ5.74.8 Aṣṭaka 4.4.14.3Anuvāka 5.6.18
-
Ṛk 9
शमू॒ षु वां॑ मधूयुवा॒स्माक॑मस्तु चर्कृ॒तिः ।
अ॒र्वा॒ची॒ना वि॑चेतसा॒ विभिः॑ श्ये॒नेव॑ दीयतं ॥शम् ऊ षु वाम् मधूयुवास्माकम् अस्तु चर्कृतिः |
अर्वाचीना विचेतसा विभिः श्येनेव दीयतम् ||śámū ṣú vām madhūyuvāsmā́kamastu carkṛtíḥ ǀ
arvācīnā́ vicetasā víbhiḥ śyenéva dīyatam ǁśam ū ṣu vām madhūyuvāsmākam astu carkṛtiḥ |
arvācīnā vicetasā vibhiḥ śyeneva dīyatam ||शम् । ऊं॒ इति॑ । सु । वा॒म् । म॒धु॒ऽयु॒वा॒ । अ॒स्माक॑म् । अ॒स्तु॒ । च॒र्कृ॒तिः ।
अ॒र्वा॒ची॒ना । वि॒ऽचे॒त॒सा॒ । विऽभिः॑ । श्ये॒नाऽइ॑व । दी॒य॒त॒म् ॥शम् । ऊं इति । सु । वाम् । मधुऽयुवा । अस्माकम् । अस्तु । चर्कृतिः ।
अर्वाचीना । विऽचेतसा । विऽभिः । श्येनाऽइव । दीयतम् ॥śám ǀ ūṃ íti ǀ sú ǀ vām ǀ madhu-yuvā ǀ asmā́kam ǀ astu ǀ carkṛtíḥ ǀ
arvācīnā́ ǀ vi-cetasā ǀ ví-bhiḥ ǀ śyenā́-iva ǀ dīyatam ǁśam ǀ ūṃ iti ǀ su ǀ vām ǀ madhu-yuvā ǀ asmākam ǀ astu ǀ carkṛtiḥ ǀ
arvācīnā ǀ vi-cetasā ǀ vi-bhiḥ ǀ śyenā-iva ǀ dīyatam ǁ5.74.9 Aṣṭaka 4.4.14.4Anuvāka 5.6.19
-
Ṛk 10
अश्वि॑ना॒ यद्ध॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हवं॑ ।
वस्वी॑रू॒ षु वां॒ भुजः॑ पृं॒चंति॒ सु वां॒ पृचः॑ ॥अश्विना यद् ध कर्हि चिच् छुश्रूयातम् इमं हवम् |
वस्वीर् ऊ षु वाम् भुजः पृञ्चन्ति सु वाम् पृचः ||áśvinā yáddha kárhi cicchuśrūyā́tamimám hávam ǀ
vásvīrū ṣú vām bhújaḥ pṛñcánti sú vām pṛ́caḥ ǁaśvinā yad dha karhi cic chuśrūyātam imaṃ havam |
vasvīr ū ṣu vām bhujaḥ pṛñcanti su vām pṛcaḥ ||अश्वि॑ना । यत् । ह॒ । कर्हि॑ । चि॒त् । शु॒श्रु॒यात॑म् । इ॒मम् । हव॑म् ।
वस्वीः॑ । ऊं॒ इति॑ । सु । वा॒म् । भुजः॑ । पृ॒ञ्चन्ति॑ । सु । वा॒म् । पृचः॑ ॥अश्विना । यत् । ह । कर्हि । चित् । शुश्रुयातम् । इमम् । हवम् ।
वस्वीः । ऊं इति । सु । वाम् । भुजः । पृञ्चन्ति । सु । वाम् । पृचः ॥áśvinā ǀ yát ǀ ha ǀ kárhi ǀ cit ǀ śuśruyā́tam ǀ imám ǀ hávam ǀ
vásvīḥ ǀ ūṃ íti ǀ sú ǀ vām ǀ bhújaḥ ǀ pṛñcánti ǀ sú ǀ vām ǀ pṛ́caḥ ǁaśvinā ǀ yat ǀ ha ǀ karhi ǀ cit ǀ śuśruyātam ǀ imam ǀ havam ǀ
vasvīḥ ǀ ūṃ iti ǀ su ǀ vām ǀ bhujaḥ ǀ pṛñcanti ǀ su ǀ vām ǀ pṛcaḥ ǁ5.74.10 Aṣṭaka 4.4.14.5Anuvāka 5.6.20
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.