Sūkta 65
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Rātahavya Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
Metres by ṛk
1st set of styles anuṣṭup (1, 4); nicṛdanuṣṭup (2); svarāḍuṣnik (3); bhuriguṣṇik (5); virāṭpaṅkti (6)
2nd set of styles anuṣṭubh (1-5); paṅkti (6)
-
Ṛk 1
यश्चि॒केत॒ स सु॒क्रतु॑र्देव॒त्रा स ब्र॑वीतु नः ।
वरु॑णो॒ यस्य॑ दर्श॒तो मि॒त्रो वा॒ वन॑ते॒ गिरः॑ ॥यश् चिकेत स सुक्रतुर् देवत्रा स ब्रवीतु नः |
वरुणो यस्य दर्शतो मित्रो वा वनते गिरः ||yáścikéta sá sukráturdevatrā́ sá bravītu naḥ ǀ
váruṇo yásya darśató mitró vā vánate gíraḥ ǁyaś ciketa sa sukratur devatrā sa bravītu naḥ |
varuṇo yasya darśato mitro vā vanate giraḥ ||यः । चि॒केत॑ । सः । सु॒ऽक्रतुः॑ । दे॒व॒ऽत्रा । सः । ब्र॒वी॒तु॒ । नः॒ ।
वरु॑णः । यस्य॑ । द॒र्श॒तः । मि॒त्रः । वा॒ । वन॑ते । गिरः॑ ॥यः । चिकेत । सः । सुऽक्रतुः । देवऽत्रा । सः । ब्रवीतु । नः ।
वरुणः । यस्य । दर्शतः । मित्रः । वा । वनते । गिरः ॥yáḥ ǀ cikéta ǀ sáḥ ǀ su-krátuḥ ǀ deva-trā́ ǀ sáḥ ǀ bravītu ǀ naḥ ǀ
váruṇaḥ ǀ yásya ǀ darśatáḥ ǀ mitráḥ ǀ vā ǀ vánate ǀ gíraḥ ǁyaḥ ǀ ciketa ǀ saḥ ǀ su-kratuḥ ǀ deva-trā ǀ saḥ ǀ bravītu ǀ naḥ ǀ
varuṇaḥ ǀ yasya ǀ darśataḥ ǀ mitraḥ ǀ vā ǀ vanate ǀ giraḥ ǁ5.65.1 Aṣṭaka 4.4.3.1Anuvāka 5.5.75
-
Ṛk 2
ता हि श्रेष्ठ॑वर्चसा॒ राजा॑ना दीर्घ॒श्रुत्त॑मा ।
ता सत्प॑ती ऋता॒वृध॑ ऋ॒तावा॑ना॒ जने॑जने ॥ता हि श्रेष्ठवर्चसा राजाना दीर्घश्रुत्तमा |
ता सत्पती ऋतावृध ऋतावाना जने-जने ||tā́ hí śréṣṭhavarcasā rā́jānā dīrghaśrúttamā ǀ
tā́ sátpatī ṛtāvṛ́dha ṛtā́vānā jánejane ǁtā hi śreṣṭhavarcasā rājānā dīrghaśruttamā |
tā satpatī ṛtāvṛdha ṛtāvānā jane-jane ||ता । हि । श्रेष्ठ॑ऽवर्चसा । राजा॑ना । दी॒र्घ॒श्रुत्ऽत॑मा ।
ता । सत्प॑ती॒ इति॒ सत्ऽप॑ती । ऋ॒त॒ऽवृधा॑ । ऋ॒तऽवा॑ना । जने॑ऽजने ॥ता । हि । श्रेष्ठऽवर्चसा । राजाना । दीर्घश्रुत्ऽतमा ।
ता । सत्पती इति सत्ऽपती । ऋतऽवृधा । ऋतऽवाना । जनेऽजने ॥tā́ ǀ hí ǀ śréṣṭha-varcasā ǀ rā́jānā ǀ dīrghaśrút-tamā ǀ
tā́ ǀ sátpatī íti sát-patī ǀ ṛta-vṛ́dhā ǀ ṛtá-vānā ǀ jáne-jane ǁtā ǀ hi ǀ śreṣṭha-varcasā ǀ rājānā ǀ dīrghaśrut-tamā ǀ
tā ǀ satpatī iti sat-patī ǀ ṛta-vṛdhā ǀ ṛta-vānā ǀ jane-jane ǁ5.65.2 Aṣṭaka 4.4.3.2Anuvāka 5.5.76
-
Ṛk 3
ता वा॑मिया॒नोऽव॑से॒ पूर्वा॒ उप॑ ब्रुवे॒ सचा॑ ।
स्वश्वा॑सः॒ सु चे॒तुना॒ वाजाँ॑ अ॒भि प्र दा॒वने॑ ॥ता वाम् इयानो ऽवसे पूर्वा उप ब्रुवे सचा |
स्वश्वासः सु चेतुना वाजां अभि प्र दावने ||tā́ vāmiyānó’vase pū́rvā úpa bruve sácā ǀ
sváśvāsaḥ sú cetúnā vā́jām̐ abhí prá dāváne ǁtā vām iyāno 'vase pūrvā upa bruve sacā |
svaśvāsaḥ su cetunā vājāṃ abhi pra dāvane ||ता । वा॒म् । इ॒या॒नः । अव॑से । पूर्वौ॑ । उप॑ । ब्रु॒वे॒ । सचा॑ ।
सु॒ऽअश्वा॑सः । सु । चे॒तुना॑ । वाजा॑न् । अ॒भि । प्र । दा॒वने॑ ॥ता । वाम् । इयानः । अवसे । पूर्वौ । उप । ब्रुवे । सचा ।
सुऽअश्वासः । सु । चेतुना । वाजान् । अभि । प्र । दावने ॥tā́ ǀ vām ǀ iyānáḥ ǀ ávase ǀ pū́rvau ǀ úpa ǀ bruve ǀ sácā ǀ
su-áśvāsaḥ ǀ sú ǀ cetúnā ǀ vā́jān ǀ abhí ǀ prá ǀ dāváne ǁtā ǀ vām ǀ iyānaḥ ǀ avase ǀ pūrvau ǀ upa ǀ bruve ǀ sacā ǀ
su-aśvāsaḥ ǀ su ǀ cetunā ǀ vājān ǀ abhi ǀ pra ǀ dāvane ǁ5.65.3 Aṣṭaka 4.4.3.3Anuvāka 5.5.77
-
Ṛk 4
मि॒त्रो अं॒होश्चि॒दादु॒रु क्षया॑य गा॒तुं व॑नते ।
मि॒त्रस्य॒ हि प्र॒तूर्व॑तः सुम॒तिरस्ति॑ विध॒तः ॥मित्रो अंहोश् चिद् आद् उरु क्षयाय गातुं वनते |
मित्रस्य हि प्रतूर्वतः सुमतिर् अस्ति विधतः ||mitró aṃhóścidā́durú kṣáyāya gātúm vanate ǀ
mitrásya hí pratū́rvataḥ sumatírásti vidhatáḥ ǁmitro aṃhoś cid ād uru kṣayāya gātuṃ vanate |
mitrasya hi pratūrvataḥ sumatir asti vidhataḥ ||मि॒त्रः । अं॒होः । चि॒त् । आत् । उ॒रु । क्षया॑य । गा॒तुम् । व॒न॒ते॒ ।
मि॒त्रस्य॑ । हि । प्र॒ऽतूर्व॑तः । सु॒ऽम॒तिः । अस्ति॑ । वि॒ध॒तः ॥मित्रः । अंहोः । चित् । आत् । उरु । क्षयाय । गातुम् । वनते ।
मित्रस्य । हि । प्रऽतूर्वतः । सुऽमतिः । अस्ति । विधतः ॥mitráḥ ǀ aṃhóḥ ǀ cit ǀ ā́t ǀ urú ǀ kṣáyāya ǀ gātúm ǀ vanate ǀ
mitrásya ǀ hí ǀ pra-tū́rvataḥ ǀ su-matíḥ ǀ ásti ǀ vidhatáḥ ǁmitraḥ ǀ aṃhoḥ ǀ cit ǀ āt ǀ uru ǀ kṣayāya ǀ gātum ǀ vanate ǀ
mitrasya ǀ hi ǀ pra-tūrvataḥ ǀ su-matiḥ ǀ asti ǀ vidhataḥ ǁ5.65.4 Aṣṭaka 4.4.3.4Anuvāka 5.5.78
-
Ṛk 5
व॒यं मि॒त्रस्याव॑सि॒ स्याम॑ स॒प्रथ॑स्तमे ।
अ॒ने॒हस॒स्त्वोत॑यः स॒त्रा वरु॑णशेषसः ॥वयम् मित्रस्यावसि स्याम सप्रथस्तमे |
अनेहसस् त्वोतयः सत्रा वरुणशेषसः ||vayám mitrásyā́vasi syā́ma sapráthastame ǀ
anehásastvótayaḥ satrā́ váruṇaśeṣasaḥ ǁvayam mitrasyāvasi syāma saprathastame |
anehasas tvotayaḥ satrā varuṇaśeṣasaḥ ||व॒यम् । मि॒त्रस्य॑ । अव॑सि । स्याम॑ । स॒प्रथः॑ऽतमे ।
अ॒ने॒हसः॑ । त्वाऽऊ॑तयः । स॒त्रा । वरु॑णऽशेषसः ॥वयम् । मित्रस्य । अवसि । स्याम । सप्रथःऽतमे ।
अनेहसः । त्वाऽऊतयः । सत्रा । वरुणऽशेषसः ॥vayám ǀ mitrásya ǀ ávasi ǀ syā́ma ǀ sapráthaḥ-tame ǀ
anehásaḥ ǀ tvā́-ūtayaḥ ǀ satrā́ ǀ váruṇa-śeṣasaḥ ǁvayam ǀ mitrasya ǀ avasi ǀ syāma ǀ saprathaḥ-tame ǀ
anehasaḥ ǀ tvā-ūtayaḥ ǀ satrā ǀ varuṇa-śeṣasaḥ ǁ5.65.5 Aṣṭaka 4.4.3.5Anuvāka 5.5.79
-
Ṛk 6
यु॒वं मि॑त्रे॒मं जनं॒ यत॑थः॒ सं च॑ नयथः ।
मा म॒घोनः॒ परि॑ ख्यतं॒ मो अ॒स्माक॒मृषी॑णां गोपी॒थे न॑ उरुष्यतं ॥युवम् मित्रेमं जनं यतथः सं च नयथः |
मा मघोनः परि ख्यतम् मो अस्माकम् ऋषीणां गोपीथे न उरुष्यतम् ||yuvám mitremám jánam yátathaḥ sám ca nayathaḥ ǀ
mā́ maghónaḥ pári khyatam mó asmā́kamṛ́ṣīṇām gopīthé na uruṣyatam ǁyuvam mitremaṃ janaṃ yatathaḥ saṃ ca nayathaḥ |
mā maghonaḥ pari khyatam mo asmākam ṛṣīṇāṃ gopīthe na uruṣyatam ||यु॒वम् । मि॒त्रा॒ । इ॒मम् । जन॑म् । यत॑थः । सम् । च॒ । न॒य॒थः॒ ।
मा । म॒घोनः॑ । परि॑ । ख्य॒त॒म् । मो इति॑ । अ॒स्माक॑म् । ऋषी॑णाम् । गो॒ऽपी॒थे । नः॒ । उ॒रु॒ष्य॒त॒म् ॥युवम् । मित्रा । इमम् । जनम् । यतथः । सम् । च । नयथः ।
मा । मघोनः । परि । ख्यतम् । मो इति । अस्माकम् । ऋषीणाम् । गोऽपीथे । नः । उरुष्यतम् ॥yuvám ǀ mitrā ǀ imám ǀ jánam ǀ yátathaḥ ǀ sám ǀ ca ǀ nayathaḥ ǀ
mā́ ǀ maghónaḥ ǀ pári ǀ khyatam ǀ mó íti ǀ asmā́kam ǀ ṛ́ṣīṇām ǀ go-pīthé ǀ naḥ ǀ uruṣyatam ǁyuvam ǀ mitrā ǀ imam ǀ janam ǀ yatathaḥ ǀ sam ǀ ca ǀ nayathaḥ ǀ
mā ǀ maghonaḥ ǀ pari ǀ khyatam ǀ mo iti ǀ asmākam ǀ ṛṣīṇām ǀ go-pīthe ǀ naḥ ǀ uruṣyatam ǁ5.65.6 Aṣṭaka 4.4.3.6Anuvāka 5.5.80
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.