Ṛk 5.65.1
Saṃhitā
यश्चि॒केत॒ स सु॒क्रतु॑र्देव॒त्रा स ब्र॑वीतु नः ।
वरु॑णो॒ यस्य॑ दर्श॒तो मि॒त्रो वा॒ वन॑ते॒ गिरः॑ ॥
यश् चिकेत स सुक्रतुर् देवत्रा स ब्रवीतु नः |
वरुणो यस्य दर्शतो मित्रो वा वनते गिरः ||
yáścikéta sá sukráturdevatrā́ sá bravītu naḥ ǀ
váruṇo yásya darśató mitró vā vánate gíraḥ ǁ
yaś ciketa sa sukratur devatrā sa bravītu naḥ |
varuṇo yasya darśato mitro vā vanate giraḥ ||
Padapāṭha
यः । चि॒केत॑ । सः । सु॒ऽक्रतुः॑ । दे॒व॒ऽत्रा । सः । ब्र॒वी॒तु॒ । नः॒ ।
वरु॑णः । यस्य॑ । द॒र्श॒तः । मि॒त्रः । वा॒ । वन॑ते । गिरः॑ ॥
यः । चिकेत । सः । सुऽक्रतुः । देवऽत्रा । सः । ब्रवीतु । नः ।
वरुणः । यस्य । दर्शतः । मित्रः । वा । वनते । गिरः ॥
yáḥ ǀ cikéta ǀ sáḥ ǀ su-krátuḥ ǀ deva-trā́ ǀ sáḥ ǀ bravītu ǀ naḥ ǀ
váruṇaḥ ǀ yásya ǀ darśatáḥ ǀ mitráḥ ǀ vā ǀ vánate ǀ gíraḥ ǁ
yaḥ ǀ ciketa ǀ saḥ ǀ su-kratuḥ ǀ deva-trā ǀ saḥ ǀ bravītu ǀ naḥ ǀ
varuṇaḥ ǀ yasya ǀ darśataḥ ǀ mitraḥ ǀ vā ǀ vanate ǀ giraḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.065.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.03.01
- Maṇḍala · Anuvāka · Ṛk
- 05.05.075
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Rātahavya Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.