Ṛk 5.65.6
Saṃhitā
यु॒वं मि॑त्रे॒मं जनं॒ यत॑थः॒ सं च॑ नयथः ।
मा म॒घोनः॒ परि॑ ख्यतं॒ मो अ॒स्माक॒मृषी॑णां गोपी॒थे न॑ उरुष्यतं ॥
युवम् मित्रेमं जनं यतथः सं च नयथः |
मा मघोनः परि ख्यतम् मो अस्माकम् ऋषीणां गोपीथे न उरुष्यतम् ||
yuvám mitremám jánam yátathaḥ sám ca nayathaḥ ǀ
mā́ maghónaḥ pári khyatam mó asmā́kamṛ́ṣīṇām gopīthé na uruṣyatam ǁ
yuvam mitremaṃ janaṃ yatathaḥ saṃ ca nayathaḥ |
mā maghonaḥ pari khyatam mo asmākam ṛṣīṇāṃ gopīthe na uruṣyatam ||
Padapāṭha
यु॒वम् । मि॒त्रा॒ । इ॒मम् । जन॑म् । यत॑थः । सम् । च॒ । न॒य॒थः॒ ।
मा । म॒घोनः॑ । परि॑ । ख्य॒त॒म् । मो इति॑ । अ॒स्माक॑म् । ऋषी॑णाम् । गो॒ऽपी॒थे । नः॒ । उ॒रु॒ष्य॒त॒म् ॥
युवम् । मित्रा । इमम् । जनम् । यतथः । सम् । च । नयथः ।
मा । मघोनः । परि । ख्यतम् । मो इति । अस्माकम् । ऋषीणाम् । गोऽपीथे । नः । उरुष्यतम् ॥
yuvám ǀ mitrā ǀ imám ǀ jánam ǀ yátathaḥ ǀ sám ǀ ca ǀ nayathaḥ ǀ
mā́ ǀ maghónaḥ ǀ pári ǀ khyatam ǀ mó íti ǀ asmā́kam ǀ ṛ́ṣīṇām ǀ go-pīthé ǀ naḥ ǀ uruṣyatam ǁ
yuvam ǀ mitrā ǀ imam ǀ janam ǀ yatathaḥ ǀ sam ǀ ca ǀ nayathaḥ ǀ
mā ǀ maghonaḥ ǀ pari ǀ khyatam ǀ mo iti ǀ asmākam ǀ ṛṣīṇām ǀ go-pīthe ǀ naḥ ǀ uruṣyatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.065.06
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.03.06
- Maṇḍala · Anuvāka · Ṛk
- 05.05.080
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Rātahavya Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.