Sūkta 35
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Prabhūvasu Āṅgirasa
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
Metres by ṛk
1st set of styles svarāḍuṣnik (4-6); nicṛdanuṣṭup (1); bhuriguṣṇik (2); bhuriganuṣṭup (3); anuṣṭup (7); bhurigbṛhatī (8)
2nd set of styles anuṣṭubh (1-7); paṅkti (8)
-
Ṛk 1
यस्ते॒ साधि॒ष्ठोऽव॑स॒ इंद्र॒ क्रतु॒ष्टमा भ॑र ।
अ॒स्मभ्यं॑ चर्षणी॒सहं॒ सस्निं॒ वाजे॑षु दु॒ष्टरं॑ ॥यस् ते साधिष्ठो ऽवस इन्द्र क्रतुष् टम् आ भर |
अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम् ||yáste sā́dhiṣṭhó’vasa índra krátuṣṭámā́ bhara ǀ
asmábhyam carṣaṇīsáham sásnim vā́jeṣu duṣṭáram ǁyas te sādhiṣṭho 'vasa indra kratuṣ ṭam ā bhara |
asmabhyaṃ carṣaṇīsahaṃ sasniṃ vājeṣu duṣṭaram ||यः । ते॒ । साधि॑ष्ठः । अव॑से । इन्द्र॑ । क्रतुः॑ । तम् । आ । भ॒र॒ ।
अ॒स्मभ्य॑म् । च॒र्ष॒णि॒ऽसह॑म् । सस्नि॑म् । वाजे॑षु । दु॒स्तर॑म् ॥यः । ते । साधिष्ठः । अवसे । इन्द्र । क्रतुः । तम् । आ । भर ।
अस्मभ्यम् । चर्षणिऽसहम् । सस्निम् । वाजेषु । दुस्तरम् ॥yáḥ ǀ te ǀ sā́dhiṣṭhaḥ ǀ ávase ǀ índra ǀ krátuḥ ǀ tám ǀ ā́ ǀ bhara ǀ
asmábhyam ǀ carṣaṇi-sáham ǀ sásnim ǀ vā́jeṣu ǀ dustáram ǁyaḥ ǀ te ǀ sādhiṣṭhaḥ ǀ avase ǀ indra ǀ kratuḥ ǀ tam ǀ ā ǀ bhara ǀ
asmabhyam ǀ carṣaṇi-saham ǀ sasnim ǀ vājeṣu ǀ dustaram ǁ5.35.1 Aṣṭaka 4.2.5.1Anuvāka 5.3.20
-
Ṛk 2
यदिं॑द्र ते॒ चत॑स्रो॒ यच्छू॑र॒ संति॑ ति॒स्रः ।
यद्वा॒ पंच॑ क्षिती॒नामव॒स्तत्सु न॒ आ भ॑र ॥यद् इन्द्र ते चतस्रो यच् छूर सन्ति तिस्रः |
यद् वा पञ्च क्षितीनाम् अवस् तत् सु न आ भर ||yádindra te cátasro yácchūra sánti tisráḥ ǀ
yádvā páñca kṣitīnā́mávastátsú na ā́ bhara ǁyad indra te catasro yac chūra santi tisraḥ |
yad vā pañca kṣitīnām avas tat su na ā bhara ||यत् । इ॒न्द्र॒ । ते॒ । चत॑स्रः । यत् । शू॒र॒ । सन्ति॑ । ति॒स्रः ।
यत् । वा॒ । पञ्च॑ । क्षि॒ती॒नाम् । अवः॑ । तत् । सु । नः॒ । आ । भ॒र॒ ॥यत् । इन्द्र । ते । चतस्रः । यत् । शूर । सन्ति । तिस्रः ।
यत् । वा । पञ्च । क्षितीनाम् । अवः । तत् । सु । नः । आ । भर ॥yát ǀ indra ǀ te ǀ cátasraḥ ǀ yát ǀ śūra ǀ sánti ǀ tisráḥ ǀ
yát ǀ vā ǀ páñca ǀ kṣitīnā́m ǀ ávaḥ ǀ tát ǀ sú ǀ naḥ ǀ ā́ ǀ bhara ǁyat ǀ indra ǀ te ǀ catasraḥ ǀ yat ǀ śūra ǀ santi ǀ tisraḥ ǀ
yat ǀ vā ǀ pañca ǀ kṣitīnām ǀ avaḥ ǀ tat ǀ su ǀ naḥ ǀ ā ǀ bhara ǁ5.35.2 Aṣṭaka 4.2.5.2Anuvāka 5.3.21
-
Ṛk 3
आ तेऽवो॒ वरे॑ण्यं॒ वृषं॑तमस्य हूमहे ।
वृष॑जूति॒र्हि ज॑ज्ञि॒ष आ॒भूभि॑रिंद्र तु॒र्वणिः॑ ॥आ ते ऽवो वरेण्यं वृषन्तमस्य हूमहे |
वृषजूतिर् हि जज्ञिष आभूभिर् इन्द्र तुर्वणिः ||ā́ té’vo váreṇyam vṛ́ṣantamasya hūmahe ǀ
vṛ́ṣajūtirhí jajñiṣá ābhū́bhirindra turváṇiḥ ǁā te 'vo vareṇyaṃ vṛṣantamasya hūmahe |
vṛṣajūtir hi jajñiṣa ābhūbhir indra turvaṇiḥ ||आ । ते॒ । अवः॑ । वरे॑ण्यम् । वृष॑न्ऽतमस्य । हू॒म॒हे॒ ।
वृष॑ऽजूतिः । हि । ज॒ज्ञि॒षे । आ॒ऽभूभिः॑ । इ॒न्द्र॒ । तु॒र्वणिः॑ ॥आ । ते । अवः । वरेण्यम् । वृषन्ऽतमस्य । हूमहे ।
वृषऽजूतिः । हि । जज्ञिषे । आऽभूभिः । इन्द्र । तुर्वणिः ॥ā́ ǀ te ǀ ávaḥ ǀ váreṇyam ǀ vṛ́ṣan-tamasya ǀ hūmahe ǀ
vṛ́ṣa-jūtiḥ ǀ hí ǀ jajñiṣé ǀ ā-bhū́bhiḥ ǀ indra ǀ turváṇiḥ ǁā ǀ te ǀ avaḥ ǀ vareṇyam ǀ vṛṣan-tamasya ǀ hūmahe ǀ
vṛṣa-jūtiḥ ǀ hi ǀ jajñiṣe ǀ ā-bhūbhiḥ ǀ indra ǀ turvaṇiḥ ǁ5.35.3 Aṣṭaka 4.2.5.3Anuvāka 5.3.22
-
Ṛk 4
वृषा॒ ह्यसि॒ राध॑से जज्ञि॒षे वृष्णि॑ ते॒ शवः॑ ।
स्वक्ष॑त्रं ते धृ॒षन्मनः॑ सत्रा॒हमिं॑द्र॒ पौंस्यं॑ ॥वृषा ह्य् असि राधसे जज्ञिषे वृष्णि ते शवः |
स्वक्षत्रं ते धृषन् मनः सत्राहम् इन्द्र पौंस्यम् ||vṛ́ṣā hyási rā́dhase jajñiṣé vṛ́ṣṇi te śávaḥ ǀ
svákṣatram te dhṛṣánmánaḥ satrāhámindra páuṃsyam ǁvṛṣā hy asi rādhase jajñiṣe vṛṣṇi te śavaḥ |
svakṣatraṃ te dhṛṣan manaḥ satrāham indra pauṃsyam ||वृषा॑ । हि । असि॑ । राध॑से । ज॒ज्ञि॒षे । वृष्णि॑ । ते॒ । शवः॑ ।
स्वऽक्ष॑त्रम् । ते॒ । धृ॒षत् । मनः॑ । स॒त्रा॒ऽहम् । इ॒न्द्र॒ । पौंस्य॑म् ॥वृषा । हि । असि । राधसे । जज्ञिषे । वृष्णि । ते । शवः ।
स्वऽक्षत्रम् । ते । धृषत् । मनः । सत्राऽहम् । इन्द्र । पौंस्यम् ॥vṛ́ṣā ǀ hí ǀ ási ǀ rā́dhase ǀ jajñiṣé ǀ vṛ́ṣṇi ǀ te ǀ śávaḥ ǀ
svá-kṣatram ǀ te ǀ dhṛṣát ǀ mánaḥ ǀ satrā-hám ǀ indra ǀ páuṃsyam ǁvṛṣā ǀ hi ǀ asi ǀ rādhase ǀ jajñiṣe ǀ vṛṣṇi ǀ te ǀ śavaḥ ǀ
sva-kṣatram ǀ te ǀ dhṛṣat ǀ manaḥ ǀ satrā-ham ǀ indra ǀ pauṃsyam ǁ5.35.4 Aṣṭaka 4.2.5.4Anuvāka 5.3.23
-
Ṛk 5
त्वं तमिं॑द्र॒ मर्त्य॑ममित्र॒यंत॑मद्रिवः ।
स॒र्व॒र॒था श॑तक्रतो॒ नि या॑हि शवसस्पते ॥त्वं तम् इन्द्र मर्त्यम् अमित्रयन्तम् अद्रिवः |
सर्वरथा शतक्रतो नि याहि शवसस् पते ||tvám támindra mártyamamitrayántamadrivaḥ ǀ
sarvarathā́ śatakrato ní yāhi śavasaspate ǁtvaṃ tam indra martyam amitrayantam adrivaḥ |
sarvarathā śatakrato ni yāhi śavasas pate ||त्वम् । तम् । इ॒न्द्र॒ । मर्त्य॑म् । अ॒मि॒त्र॒ऽयन्त॑म् । अ॒द्रि॒ऽवः॒ ।
स॒र्व॒ऽर॒था । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । नि । या॒हि॒ । श॒व॒सः॒ । प॒ते॒ ॥त्वम् । तम् । इन्द्र । मर्त्यम् । अमित्रऽयन्तम् । अद्रिऽवः ।
सर्वऽरथा । शतक्रतो इति शतऽक्रतो । नि । याहि । शवसः । पते ॥tvám ǀ tám ǀ indra ǀ mártyam ǀ amitra-yántam ǀ adri-vaḥ ǀ
sarva-rathā́ ǀ śatakrato íti śata-krato ǀ ní ǀ yāhi ǀ śavasaḥ ǀ pate ǁtvam ǀ tam ǀ indra ǀ martyam ǀ amitra-yantam ǀ adri-vaḥ ǀ
sarva-rathā ǀ śatakrato iti śata-krato ǀ ni ǀ yāhi ǀ śavasaḥ ǀ pate ǁ5.35.5 Aṣṭaka 4.2.5.5Anuvāka 5.3.24
-
Ṛk 6
त्वामिद्वृ॑त्रहंतम॒ जना॑सो वृ॒क्तब॑र्हिषः ।
उ॒ग्रं पू॒र्वीषु॑ पू॒र्व्यं हवं॑ते॒ वाज॑सातये ॥त्वाम् इद् वृत्रहन्तम जनासो वृक्तबर्हिषः |
उग्रम् पूर्वीषु पूर्व्यं हवन्ते वाजसातये ||tvā́mídvṛtrahantama jánāso vṛktábarhiṣaḥ ǀ
ugrám pūrvī́ṣu pūrvyám hávante vā́jasātaye ǁtvām id vṛtrahantama janāso vṛktabarhiṣaḥ |
ugram pūrvīṣu pūrvyaṃ havante vājasātaye ||त्वाम् । इत् । वृ॒त्र॒ह॒न्ऽत॒म॒ । जना॑सः । वृ॒क्तऽब॑र्हिषः ।
उ॒ग्रम् । पू॒र्वीषु॑ । पू॒र्व्यम् । हव॑न्ते । वाज॑ऽसातये ॥त्वाम् । इत् । वृत्रहन्ऽतम । जनासः । वृक्तऽबर्हिषः ।
उग्रम् । पूर्वीषु । पूर्व्यम् । हवन्ते । वाजऽसातये ॥tvā́m ǀ ít ǀ vṛtrahan-tama ǀ jánāsaḥ ǀ vṛktá-barhiṣaḥ ǀ
ugrám ǀ pūrvī́ṣu ǀ pūrvyám ǀ hávante ǀ vā́ja-sātaye ǁtvām ǀ it ǀ vṛtrahan-tama ǀ janāsaḥ ǀ vṛkta-barhiṣaḥ ǀ
ugram ǀ pūrvīṣu ǀ pūrvyam ǀ havante ǀ vāja-sātaye ǁ5.35.6 Aṣṭaka 4.2.6.1Anuvāka 5.3.25
-
Ṛk 7
अ॒स्माक॑मिंद्र दु॒ष्टरं॑ पुरो॒यावा॑नमा॒जिषु॑ ।
स॒यावा॑नं॒ धने॑धने वाज॒यंत॑मवा॒ रथं॑ ॥अस्माकम् इन्द्र दुष्टरम् पुरोयावानम् आजिषु |
सयावानं धने-धने वाजयन्तम् अवा रथम् ||asmā́kamindra duṣṭáram puroyā́vānamājíṣu ǀ
sayā́vānam dhánedhane vājayántamavā rátham ǁasmākam indra duṣṭaram puroyāvānam ājiṣu |
sayāvānaṃ dhane-dhane vājayantam avā ratham ||अ॒स्माक॑म् । इ॒न्द्र॒ । दु॒स्तर॑म् । पु॒रः॒ऽयावा॑नम् । आ॒जिषु॑ ।
स॒ऽयावा॑नम् । धने॑ऽधने । वा॒ज॒ऽयन्त॑म् । अ॒व॒ । रथ॑म् ॥अस्माकम् । इन्द्र । दुस्तरम् । पुरःऽयावानम् । आजिषु ।
सऽयावानम् । धनेऽधने । वाजऽयन्तम् । अव । रथम् ॥asmā́kam ǀ indra ǀ dustáram ǀ puraḥ-yā́vānam ǀ ājíṣu ǀ
sa-yā́vānam ǀ dháne-dhane ǀ vāja-yántam ǀ ava ǀ rátham ǁasmākam ǀ indra ǀ dustaram ǀ puraḥ-yāvānam ǀ ājiṣu ǀ
sa-yāvānam ǀ dhane-dhane ǀ vāja-yantam ǀ ava ǀ ratham ǁ5.35.7 Aṣṭaka 4.2.6.2Anuvāka 5.3.26
-
Ṛk 8
अ॒स्माक॑मिं॒द्रेहि॑ नो॒ रथ॑मवा॒ पुरं॑ध्या ।
व॒यं श॑विष्ठ॒ वार्यं॑ दि॒वि श्रवो॑ दधीमहि दि॒वि स्तोमं॑ मनामहे ॥अस्माकम् इन्द्रेहि नो रथम् अवा पुरन्ध्या |
वयं शविष्ठ वार्यं दिवि श्रवो दधीमहि दिवि स्तोमम् मनामहे ||asmā́kamindréhi no ráthamavā púraṃdhyā ǀ
vayám śaviṣṭha vā́ryam diví śrávo dadhīmahi diví stómam manāmahe ǁasmākam indrehi no ratham avā purandhyā |
vayaṃ śaviṣṭha vāryaṃ divi śravo dadhīmahi divi stomam manāmahe ||अ॒स्माक॑म् । इ॒न्द्र॒ । आ । इ॒हि॒ । नः॒ । रथ॑म् । अ॒व॒ । पुर॑म्ऽध्या ।
व॒यम् । श॒वि॒ष्ठ॒ । वार्य॑म् । दि॒वि । श्रवः॑ । द॒धी॒म॒हि॒ । दि॒वि । स्तोम॑म् । म॒ना॒म॒हे॒ ॥अस्माकम् । इन्द्र । आ । इहि । नः । रथम् । अव । पुरम्ऽध्या ।
वयम् । शविष्ठ । वार्यम् । दिवि । श्रवः । दधीमहि । दिवि । स्तोमम् । मनामहे ॥asmā́kam ǀ indra ǀ ā́ ǀ ihi ǀ naḥ ǀ rátham ǀ ava ǀ púram-dhyā ǀ
vayám ǀ śaviṣṭha ǀ vā́ryam ǀ diví ǀ śrávaḥ ǀ dadhīmahi ǀ diví ǀ stómam ǀ manāmahe ǁasmākam ǀ indra ǀ ā ǀ ihi ǀ naḥ ǀ ratham ǀ ava ǀ puram-dhyā ǀ
vayam ǀ śaviṣṭha ǀ vāryam ǀ divi ǀ śravaḥ ǀ dadhīmahi ǀ divi ǀ stomam ǀ manāmahe ǁ5.35.8 Aṣṭaka 4.2.6.3Anuvāka 5.3.27
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.