Ṛk 5.35.2
Saṃhitā
यदिं॑द्र ते॒ चत॑स्रो॒ यच्छू॑र॒ संति॑ ति॒स्रः ।
यद्वा॒ पंच॑ क्षिती॒नामव॒स्तत्सु न॒ आ भ॑र ॥
यद् इन्द्र ते चतस्रो यच् छूर सन्ति तिस्रः |
यद् वा पञ्च क्षितीनाम् अवस् तत् सु न आ भर ||
yádindra te cátasro yácchūra sánti tisráḥ ǀ
yádvā páñca kṣitīnā́mávastátsú na ā́ bhara ǁ
yad indra te catasro yac chūra santi tisraḥ |
yad vā pañca kṣitīnām avas tat su na ā bhara ||
Padapāṭha
यत् । इ॒न्द्र॒ । ते॒ । चत॑स्रः । यत् । शू॒र॒ । सन्ति॑ । ति॒स्रः ।
यत् । वा॒ । पञ्च॑ । क्षि॒ती॒नाम् । अवः॑ । तत् । सु । नः॒ । आ । भ॒र॒ ॥
यत् । इन्द्र । ते । चतस्रः । यत् । शूर । सन्ति । तिस्रः ।
यत् । वा । पञ्च । क्षितीनाम् । अवः । तत् । सु । नः । आ । भर ॥
yát ǀ indra ǀ te ǀ cátasraḥ ǀ yát ǀ śūra ǀ sánti ǀ tisráḥ ǀ
yát ǀ vā ǀ páñca ǀ kṣitīnā́m ǀ ávaḥ ǀ tát ǀ sú ǀ naḥ ǀ ā́ ǀ bhara ǁ
yat ǀ indra ǀ te ǀ catasraḥ ǀ yat ǀ śūra ǀ santi ǀ tisraḥ ǀ
yat ǀ vā ǀ pañca ǀ kṣitīnām ǀ avaḥ ǀ tat ǀ su ǀ naḥ ǀ ā ǀ bhara ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.035.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.05.02
- Maṇḍala · Anuvāka · Ṛk
- 05.03.021
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Prabhūvasu Āṅgirasa
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.