Sūkta 62
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Śrutavid Ātreya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (3-6); virāṭtrisṭup (7-9); triṣṭup (1, 2)
2nd set of styles triṣṭubh
-
Ṛk 1
ऋ॒तेन॑ ऋ॒तमपि॑हितं ध्रु॒वं वां॒ सूर्य॑स्य॒ यत्र॑ विमु॒चंत्यश्वा॑न् ।
दश॑ श॒ता स॒ह त॑स्थु॒स्तदेकं॑ दे॒वानां॒ श्रेष्ठं॒ वपु॑षामपश्यं ॥ऋतेन ऋतम् अपिहितं ध्रुवं वां सूर्यस्य यत्र विमुचन्त्य् अश्वान् |
दश शता सह तस्थुस् तद् एकं देवानां श्रेष्ठं वपुषाम् अपश्यम् ||ṛténa ṛtámápihitam dhruvám vām sū́ryasya yátra vimucántyáśvān ǀ
dáśa śatā́ sahá tasthustádékam devā́nām śréṣṭham vápuṣāmapaśyam ǁṛtena ṛtam apihitaṃ dhruvaṃ vāṃ sūryasya yatra vimucanty aśvān |
daśa śatā saha tasthus tad ekaṃ devānāṃ śreṣṭhaṃ vapuṣām apaśyam ||ऋ॒तेन॑ । ऋ॒तम् । अपि॑ऽहितम् । ध्रु॒वम् । वा॒म् । सूर्य॑स्य । यत्र॑ । वि॒ऽमु॒चन्ति॑ । अश्वा॑न् ।
दश॑ । श॒ता । स॒ह । त॒स्थुः॒ । तत् । एक॑म् । दे॒वाना॑म् । श्रेष्ठ॑म् । वपु॑षाम् । अ॒प॒श्य॒म् ॥ऋतेन । ऋतम् । अपिऽहितम् । ध्रुवम् । वाम् । सूर्यस्य । यत्र । विऽमुचन्ति । अश्वान् ।
दश । शता । सह । तस्थुः । तत् । एकम् । देवानाम् । श्रेष्ठम् । वपुषाम् । अपश्यम् ॥ṛténa ǀ ṛtám ǀ ápi-hitam ǀ dhruvám ǀ vām ǀ sū́ryasya ǀ yátra ǀ vi-mucánti ǀ áśvān ǀ
dáśa ǀ śatā́ ǀ sahá ǀ tasthuḥ ǀ tát ǀ ékam ǀ devā́nām ǀ śréṣṭham ǀ vápuṣām ǀ apaśyam ǁṛtena ǀ ṛtam ǀ api-hitam ǀ dhruvam ǀ vām ǀ sūryasya ǀ yatra ǀ vi-mucanti ǀ aśvān ǀ
daśa ǀ śatā ǀ saha ǀ tasthuḥ ǀ tat ǀ ekam ǀ devānām ǀ śreṣṭham ǀ vapuṣām ǀ apaśyam ǁ5.62.1 Aṣṭaka 4.3.30.1Anuvāka 5.5.52
-
Ṛk 2
तत्सु वां॑ मित्रावरुणा महि॒त्वमी॒र्मा त॒स्थुषी॒रह॑भिर्दुदुह्रे ।
विश्वाः॑ पिन्वथः॒ स्वस॑रस्य॒ धेना॒ अनु॑ वा॒मेकः॑ प॒विरा व॑वर्त ॥तत् सु वाम् मित्रावरुणा महित्वम् ईर्मा तस्थुषीर् अहभिर् दुदुह्रे |
विश्वाः पिन्वथः स्वसरस्य धेना अनु वाम् एकः पविर् आ ववर्त ||tátsú vām mitrāvaruṇā mahitvámīrmā́ tasthúṣīráhabhirduduhre ǀ
víśvāḥ pinvathaḥ svásarasya dhénā ánu vāmékaḥ pavírā́ vavarta ǁtat su vām mitrāvaruṇā mahitvam īrmā tasthuṣīr ahabhir duduhre |
viśvāḥ pinvathaḥ svasarasya dhenā anu vām ekaḥ pavir ā vavarta ||तत् । सु । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । म॒हि॒ऽत्वम् । ई॒र्मा । त॒स्थुषीः॑ । अह॑ऽभिः । दु॒दु॒ह्रे॒ ।
विश्वाः॑ । पि॒न्व॒थः॒ । स्वस॑रस्य । धेनाः॑ । अनु॑ । वा॒म् । एकः॑ । प॒विः । आ । व॒व॒र्त॒ ॥तत् । सु । वाम् । मित्रावरुणा । महिऽत्वम् । ईर्मा । तस्थुषीः । अहऽभिः । दुदुह्रे ।
विश्वाः । पिन्वथः । स्वसरस्य । धेनाः । अनु । वाम् । एकः । पविः । आ । ववर्त ॥tát ǀ sú ǀ vām ǀ mitrāvaruṇā ǀ mahi-tvám ǀ īrmā́ ǀ tasthúṣīḥ ǀ áha-bhiḥ ǀ duduhre ǀ
víśvāḥ ǀ pinvathaḥ ǀ svásarasya ǀ dhénāḥ ǀ ánu ǀ vām ǀ ékaḥ ǀ pavíḥ ǀ ā́ ǀ vavarta ǁtat ǀ su ǀ vām ǀ mitrāvaruṇā ǀ mahi-tvam ǀ īrmā ǀ tasthuṣīḥ ǀ aha-bhiḥ ǀ duduhre ǀ
viśvāḥ ǀ pinvathaḥ ǀ svasarasya ǀ dhenāḥ ǀ anu ǀ vām ǀ ekaḥ ǀ paviḥ ǀ ā ǀ vavarta ǁ5.62.2 Aṣṭaka 4.3.30.2Anuvāka 5.5.53
-
Ṛk 3
अधा॑रयतं पृथि॒वीमु॒त द्यां मित्र॑राजाना वरुणा॒ महो॑भिः ।
व॒र्धय॑त॒मोष॑धीः॒ पिन्व॑तं॒ गा अव॑ वृ॒ष्टिं सृ॑जतं जीरदानू ॥अधारयतम् पृथिवीम् उत द्याम् मित्रराजाना वरुणा महोभिः |
वर्धयतम् ओषधीः पिन्वतं गा अव वृष्टिं सृजतं जीरदानू ||ádhārayatam pṛthivī́mutá dyā́m mítrarājānā varuṇā máhobhiḥ ǀ
vardháyatamóṣadhīḥ pínvatam gā́ áva vṛṣṭím sṛjatam jīradānū ǁadhārayatam pṛthivīm uta dyām mitrarājānā varuṇā mahobhiḥ |
vardhayatam oṣadhīḥ pinvataṃ gā ava vṛṣṭiṃ sṛjataṃ jīradānū ||अधा॑रयतम् । पृ॒थि॒वीम् । उ॒त । द्याम् । मित्र॑ऽराजाना । व॒रु॒णा॒ । महः॑ऽभिः ।
व॒र्धय॑तम् । ओष॑धीः । पिन्व॑तम् । गाः । अव॑ । वृ॒ष्टिम् । सृ॒ज॒त॒म् । जी॒र॒दा॒नू॒ इति॑ जीरऽदानू ॥अधारयतम् । पृथिवीम् । उत । द्याम् । मित्रऽराजाना । वरुणा । महःऽभिः ।
वर्धयतम् । ओषधीः । पिन्वतम् । गाः । अव । वृष्टिम् । सृजतम् । जीरदानू इति जीरऽदानू ॥ádhārayatam ǀ pṛthivī́m ǀ utá ǀ dyā́m ǀ mítra-rājānā ǀ varuṇā ǀ máhaḥ-bhiḥ ǀ
vardháyatam ǀ óṣadhīḥ ǀ pínvatam ǀ gā́ḥ ǀ áva ǀ vṛṣṭím ǀ sṛjatam ǀ jīradānū íti jīra-dānū ǁadhārayatam ǀ pṛthivīm ǀ uta ǀ dyām ǀ mitra-rājānā ǀ varuṇā ǀ mahaḥ-bhiḥ ǀ
vardhayatam ǀ oṣadhīḥ ǀ pinvatam ǀ gāḥ ǀ ava ǀ vṛṣṭim ǀ sṛjatam ǀ jīradānū iti jīra-dānū ǁ5.62.3 Aṣṭaka 4.3.30.3Anuvāka 5.5.54
-
Ṛk 4
आ वा॒मश्वा॑सः सु॒युजो॑ वहंतु य॒तर॑श्मय॒ उप॑ यंत्व॒र्वाक् ।
घृ॒तस्य॑ नि॒र्णिगनु॑ वर्तते वा॒मुप॒ सिंध॑वः प्र॒दिवि॑ क्षरंति ॥आ वाम् अश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्व् अर्वाक् |
घृतस्य निर्णिग् अनु वर्तते वाम् उप सिन्धवः प्रदिवि क्षरन्ति ||ā́ vāmáśvāsaḥ suyújo vahantu yatáraśmaya úpa yantvarvā́k ǀ
ghṛtásya nirṇígánu vartate vāmúpa síndhavaḥ pradívi kṣaranti ǁā vām aśvāsaḥ suyujo vahantu yataraśmaya upa yantv arvāk |
ghṛtasya nirṇig anu vartate vām upa sindhavaḥ pradivi kṣaranti ||आ । वा॒म् । अश्वा॑सः । सु॒ऽयुजः॑ । व॒ह॒न्तु॒ । य॒तऽर॑श्मयः । उप॑ । य॒न्तु॒ । अ॒र्वाक् ।
घृ॒तस्य॑ । निः॒ऽनिक् । अनु॑ । व॒र्त॒ते॒ । वा॒म् । उप॑ । सिन्ध॑वः । प्र॒ऽदिवि॑ । क्ष॒र॒न्ति॒ ॥आ । वाम् । अश्वासः । सुऽयुजः । वहन्तु । यतऽरश्मयः । उप । यन्तु । अर्वाक् ।
घृतस्य । निःऽनिक् । अनु । वर्तते । वाम् । उप । सिन्धवः । प्रऽदिवि । क्षरन्ति ॥ā́ ǀ vām ǀ áśvāsaḥ ǀ su-yújaḥ ǀ vahantu ǀ yatá-raśmayaḥ ǀ úpa ǀ yantu ǀ arvā́k ǀ
ghṛtásya ǀ niḥ-ník ǀ ánu ǀ vartate ǀ vām ǀ úpa ǀ síndhavaḥ ǀ pra-dívi ǀ kṣaranti ǁā ǀ vām ǀ aśvāsaḥ ǀ su-yujaḥ ǀ vahantu ǀ yata-raśmayaḥ ǀ upa ǀ yantu ǀ arvāk ǀ
ghṛtasya ǀ niḥ-nik ǀ anu ǀ vartate ǀ vām ǀ upa ǀ sindhavaḥ ǀ pra-divi ǀ kṣaranti ǁ5.62.4 Aṣṭaka 4.3.30.4Anuvāka 5.5.55
-
Ṛk 5
अनु॑ श्रु॒ताम॒मतिं॒ वर्ध॑दु॒र्वीं ब॒र्हिरि॑व॒ यजु॑षा॒ रक्ष॑माणा ।
नम॑स्वंता धृतद॒क्षाधि॒ गर्ते॒ मित्रासा॑थे वरु॒णेळा॑स्वं॒तः ॥अनु श्रुताम् अमतिं वर्धद् उर्वीम् बर्हिर् इव यजुषा रक्षमाणा |
नमस्वन्ता धृतदक्षाधि गर्ते मित्रासाथे वरुणेऌआस्व् अन्तः ||ánu śrutā́mamátim várdhadurvī́m barhíriva yájuṣā rákṣamāṇā ǀ
námasvantā dhṛtadakṣā́dhi gárte mítrā́sāthe varuṇéḷāsvantáḥ ǁanu śrutām amatiṃ vardhad urvīm barhir iva yajuṣā rakṣamāṇā |
namasvantā dhṛtadakṣādhi garte mitrāsāthe varuṇeḷāsv antaḥ ||अनु॑ । श्रु॒ताम् । अ॒मति॑म् । वर्ध॑त् । उ॒र्वीम् । ब॒र्हिःऽइ॑व । यजु॑षा । रक्ष॑माणा ।
नम॑स्वन्ता । धृ॒त॒ऽद॒क्षा॒ । अधि॑ । गर्ते॑ । मित्र॑ । आसा॑थे॒ इति॑ । व॒रु॒ण॒ । इळा॑सु । अ॒न्तरिति॑ ॥अनु । श्रुताम् । अमतिम् । वर्धत् । उर्वीम् । बर्हिःऽइव । यजुषा । रक्षमाणा ।
नमस्वन्ता । धृतऽदक्षा । अधि । गर्ते । मित्र । आसाथे इति । वरुण । इळासु । अन्तरिति ॥ánu ǀ śrutā́m ǀ amátim ǀ várdhat ǀ urvī́m ǀ barhíḥ-iva ǀ yájuṣā ǀ rákṣamāṇā ǀ
námasvantā ǀ dhṛta-dakṣā ǀ ádhi ǀ gárte ǀ mítra ǀ ā́sāthe íti ǀ varuṇa ǀ íḷāsu ǀ antáríti ǁanu ǀ śrutām ǀ amatim ǀ vardhat ǀ urvīm ǀ barhiḥ-iva ǀ yajuṣā ǀ rakṣamāṇā ǀ
namasvantā ǀ dhṛta-dakṣā ǀ adhi ǀ garte ǀ mitra ǀ āsāthe iti ǀ varuṇa ǀ iḷāsu ǀ antariti ǁ5.62.5 Aṣṭaka 4.3.30.5Anuvāka 5.5.56
-
Ṛk 6
अक्र॑विहस्ता सु॒कृते॑ पर॒स्पा यं त्रासा॑थे वरु॒णेळा॑स्वं॒तः ।
राजा॑ना क्ष॒त्रमहृ॑णीयमाना स॒हस्र॑स्थूणं बिभृथः स॒ह द्वौ ॥अक्रविहस्ता सुकृते परस्पा यं त्रासाथे वरुणेऌआस्व् अन्तः |
राजाना क्षत्रम् अहृणीयमाना सहस्रस्थूणम् बिभृथः सह द्वौ ||ákravihastā sukṛ́te paraspā́ yám trā́sāthe varuṇéḷāsvantáḥ ǀ
rā́jānā kṣatrámáhṛṇīyamānā sahásrasthūṇam bibhṛthaḥ sahá dváu ǁakravihastā sukṛte paraspā yaṃ trāsāthe varuṇeḷāsv antaḥ |
rājānā kṣatram ahṛṇīyamānā sahasrasthūṇam bibhṛthaḥ saha dvau ||अक्र॑विऽहस्ता । सु॒ऽकृते॑ । प॒रः॒ऽपा । यम् । त्रासा॑थे इति॑ । व॒रु॒णा॒ । इळा॑सु । अ॒न्तरिति॑ ।
राजा॑ना । क्ष॒त्रम् । अहृ॑णीयमाना । स॒हस्र॑ऽस्थूणम् । बि॒भृ॒थः॒ । स॒ह । द्वौ ॥अक्रविऽहस्ता । सुऽकृते । परःऽपा । यम् । त्रासाथे इति । वरुणा । इळासु । अन्तरिति ।
राजाना । क्षत्रम् । अहृणीयमाना । सहस्रऽस्थूणम् । बिभृथः । सह । द्वौ ॥ákravi-hastā ǀ su-kṛ́te ǀ paraḥ-pā́ ǀ yám ǀ trā́sāthe íti ǀ varuṇā ǀ íḷāsu ǀ antáríti ǀ
rā́jānā ǀ kṣatrám ǀ áhṛṇīyamānā ǀ sahásra-sthūṇam ǀ bibhṛthaḥ ǀ sahá ǀ dváu ǁakravi-hastā ǀ su-kṛte ǀ paraḥ-pā ǀ yam ǀ trāsāthe iti ǀ varuṇā ǀ iḷāsu ǀ antariti ǀ
rājānā ǀ kṣatram ǀ ahṛṇīyamānā ǀ sahasra-sthūṇam ǀ bibhṛthaḥ ǀ saha ǀ dvau ǁ5.62.6 Aṣṭaka 4.3.31.1Anuvāka 5.5.57
-
Ṛk 7
हिर॑ण्यनिर्णि॒गयो॑ अस्य॒ स्थूणा॒ वि भ्रा॑जते दि॒व्य१॒॑श्वाज॑नीव ।
भ॒द्रे क्षेत्रे॒ निमि॑ता॒ तिल्वि॑ले वा स॒नेम॒ मध्वो॒ अधि॑गर्त्यस्य ॥हिरण्यनिर्णिग् अयो अस्य स्थूणा वि भ्राजते दिव्य् अश्वाजनीव |
भद्रे क्षेत्रे निमिता तिल्विले वा सनेम मध्वो अधिगर्त्यस्य ||híraṇyanirṇigáyo asya sthū́ṇā ví bhrājate divyáśvā́janīva ǀ
bhadré kṣétre nímitā tílvile vā sanéma mádhvo ádhigartyasya ǁhiraṇyanirṇig ayo asya sthūṇā vi bhrājate divy aśvājanīva |
bhadre kṣetre nimitā tilvile vā sanema madhvo adhigartyasya ||हिर॑ण्यऽनिर्निक् । अयः॑ । अ॒स्य॒ । स्थूणा॑ । वि । भ्रा॒ज॒ते॒ । दि॒वि । अ॒श्वाज॑नीऽइव ।
भ॒द्रे । क्षेत्रे॑ । निऽमि॑ता । तिल्वि॑ले । वा॒ । स॒नेम॑ । मध्वः॑ । अधि॑ऽगर्त्यस्य ॥हिरण्यऽनिर्निक् । अयः । अस्य । स्थूणा । वि । भ्राजते । दिवि । अश्वाजनीऽइव ।
भद्रे । क्षेत्रे । निऽमिता । तिल्विले । वा । सनेम । मध्वः । अधिऽगर्त्यस्य ॥híraṇya-nirnik ǀ áyaḥ ǀ asya ǀ sthū́ṇā ǀ ví ǀ bhrājate ǀ diví ǀ aśvā́janī-iva ǀ
bhadré ǀ kṣétre ǀ ní-mitā ǀ tílvile ǀ vā ǀ sanéma ǀ mádhvaḥ ǀ ádhi-gartyasya ǁhiraṇya-nirnik ǀ ayaḥ ǀ asya ǀ sthūṇā ǀ vi ǀ bhrājate ǀ divi ǀ aśvājanī-iva ǀ
bhadre ǀ kṣetre ǀ ni-mitā ǀ tilvile ǀ vā ǀ sanema ǀ madhvaḥ ǀ adhi-gartyasya ǁ5.62.7 Aṣṭaka 4.3.31.2Anuvāka 5.5.58
-
Ṛk 8
हिर॑ण्यरूपमु॒षसो॒ व्यु॑ष्टा॒वयः॑स्थूण॒मुदि॑ता॒ सूर्य॑स्य ।
आ रो॑हथो वरुण मित्र॒ गर्त॒मत॑श्चक्षाथे॒ अदि॑तिं॒ दितिं॑ च ॥हिरण्यरूपम् उषसो व्युष्टाव् अयस्थूणम् उदिता सूर्यस्य |
आ रोहथो वरुण मित्र गर्तम् अतश् चक्षाथे अदितिं दितिं च ||híraṇyarūpamuṣáso vyúṣṭāváyaḥsthūṇamúditā sū́ryasya ǀ
ā́ rohatho varuṇa mitra gártamátaścakṣāthe áditim dítim ca ǁhiraṇyarūpam uṣaso vyuṣṭāv ayasthūṇam uditā sūryasya |
ā rohatho varuṇa mitra gartam ataś cakṣāthe aditiṃ ditiṃ ca ||हिर॑ण्यऽरूपम् । उ॒षसः॑ । विऽउ॑ष्टौ । अयः॑ऽस्थूणम् । उत्ऽइ॑ता । सूर्य॑स्य ।
आ । रो॒ह॒थः॒ । व॒रु॒ण॒ । मि॒त्र॒ । गर्त॑म् । अतः॑ । च॒क्षा॒थे॒ इति॑ । अदि॑तिम् । दिति॑म् । च॒ ॥हिरण्यऽरूपम् । उषसः । विऽउष्टौ । अयःऽस्थूणम् । उत्ऽइता । सूर्यस्य ।
आ । रोहथः । वरुण । मित्र । गर्तम् । अतः । चक्षाथे इति । अदितिम् । दितिम् । च ॥híraṇya-rūpam ǀ uṣásaḥ ǀ ví-uṣṭau ǀ áyaḥ-sthūṇam ǀ út-itā ǀ sū́ryasya ǀ
ā́ ǀ rohathaḥ ǀ varuṇa ǀ mitra ǀ gártam ǀ átaḥ ǀ cakṣāthe íti ǀ áditim ǀ dítim ǀ ca ǁhiraṇya-rūpam ǀ uṣasaḥ ǀ vi-uṣṭau ǀ ayaḥ-sthūṇam ǀ ut-itā ǀ sūryasya ǀ
ā ǀ rohathaḥ ǀ varuṇa ǀ mitra ǀ gartam ǀ ataḥ ǀ cakṣāthe iti ǀ aditim ǀ ditim ǀ ca ǁ5.62.8 Aṣṭaka 4.3.31.3Anuvāka 5.5.59
-
Ṛk 9
यद्बंहि॑ष्ठं॒ नाति॒विधे॑ सुदानू॒ अच्छि॑द्रं॒ शर्म॑ भुवनस्य गोपा ।
तेन॑ नो मित्रावरुणावविष्टं॒ सिषा॑संतो जिगी॒वांसः॑ स्याम ॥यद् बंहिष्ठं नातिविधे सुदानू अच्छिद्रं शर्म भुवनस्य गोपा |
तेन नो मित्रावरुणाव् अविष्टं सिषासन्तो जिगीवांसः स्याम ||yádbáṃhiṣṭham nā́tivídhe sudānū ácchidram śárma bhuvanasya gopā ǀ
téna no mitrāvaruṇāvaviṣṭam síṣāsanto jigīvā́ṃsaḥ syāma ǁyad baṃhiṣṭhaṃ nātividhe sudānū acchidraṃ śarma bhuvanasya gopā |
tena no mitrāvaruṇāv aviṣṭaṃ siṣāsanto jigīvāṃsaḥ syāma ||यत् । बंहि॑ष्ठम् । न । अ॒ति॒ऽविधे॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । अच्छि॑द्रम् । शर्म॑ । भु॒व॒न॒स्य॒ । गो॒पा॒ ।
तेन॑ । नः॒ । मि॒त्रा॒व॒रु॒णौ॒ । अ॒वि॒ष्ट॒म् । सिसा॑सन्तः । जि॒गी॒वांसः॑ । स्या॒म॒ ॥यत् । बंहिष्ठम् । न । अतिऽविधे । सुदानू इति सुऽदानू । अच्छिद्रम् । शर्म । भुवनस्य । गोपा ।
तेन । नः । मित्रावरुणौ । अविष्टम् । सिसासन्तः । जिगीवांसः । स्याम ॥yát ǀ báṃhiṣṭham ǀ ná ǀ ati-vídhe ǀ sudānū íti su-dānū ǀ ácchidram ǀ śárma ǀ bhuvanasya ǀ gopā ǀ
téna ǀ naḥ ǀ mitrāvaruṇau ǀ aviṣṭam ǀ sísāsantaḥ ǀ jigīvā́ṃsaḥ ǀ syāma ǁyat ǀ baṃhiṣṭham ǀ na ǀ ati-vidhe ǀ sudānū iti su-dānū ǀ acchidram ǀ śarma ǀ bhuvanasya ǀ gopā ǀ
tena ǀ naḥ ǀ mitrāvaruṇau ǀ aviṣṭam ǀ sisāsantaḥ ǀ jigīvāṃsaḥ ǀ syāma ǁ5.62.9 Aṣṭaka 4.3.31.4Anuvāka 5.5.60
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.