Ṛgveda · Maṇḍala 5

Sūkta 6

Agni · Vasuśruta Ātreya · 10 ṛks

Link
Devatā देवता
Agni
Ṛṣi ऋषि
Vasuśruta Ātreya
Chandas छन्दस्
Paṅkti
Metres by ṛk

1st set of styles nicṛtpaṅkti (1, 8, 9); paṅktiḥ (2, 5); svarāṭbṛhatī (3, 4); bhurigbṛhatī (6, 10); virāṭpaṅkti (7)

2nd set of styles paṅkti

  1. Ṛk 1

    अ॒ग्निं तं म॑न्ये॒ यो वसु॒रस्तं॒ यं यंति॑ धे॒नवः॑ ।
    अस्त॒मर्वं॑त आ॒शवोऽस्तं॒ नित्या॑सो वा॒जिन॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

    अग्निं तम् मन्ये यो वसुर् अस्तं यं यन्ति धेनवः |
    अस्तम् अर्वन्त आशवो ऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ||

    agním tám manye yó vásurástam yám yánti dhenávaḥ ǀ
    ástamárvanta āśávó’stam nítyāso vājína íṣam stotṛ́bhya ā́ bhara ǁ

    agniṃ tam manye yo vasur astaṃ yaṃ yanti dhenavaḥ |
    astam arvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara ||

    अ॒ग्निम् । तम् । म॒न्ये॒ । यः । वसुः॑ । अस्त॑म् । यम् । यन्ति॑ । धे॒नवः॑ ।
    अस्त॑म् । अर्व॑न्तः । आ॒शवः॑ । अस्त॑म् । नित्या॑सः । वा॒जिनः॑ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

    अग्निम् । तम् । मन्ये । यः । वसुः । अस्तम् । यम् । यन्ति । धेनवः ।
    अस्तम् । अर्वन्तः । आशवः । अस्तम् । नित्यासः । वाजिनः । इषम् । स्तोतृऽभ्यः । आ । भर ॥

    agním ǀ tám ǀ manye ǀ yáḥ ǀ vásuḥ ǀ ástam ǀ yám ǀ yánti ǀ dhenávaḥ ǀ
    ástam ǀ árvantaḥ ǀ āśávaḥ ǀ ástam ǀ nítyāsaḥ ǀ vājínaḥ ǀ íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

    agnim ǀ tam ǀ manye ǀ yaḥ ǀ vasuḥ ǀ astam ǀ yam ǀ yanti ǀ dhenavaḥ ǀ
    astam ǀ arvantaḥ ǀ āśavaḥ ǀ astam ǀ nityāsaḥ ǀ vājinaḥ ǀ iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ

    5.6.1 Aṣṭaka 3.8.22.1Anuvāka 5.1.59

  2. Ṛk 2

    सो अ॒ग्निर्यो वसु॑र्गृ॒णे सं यमा॒यंति॑ धे॒नवः॑ ।
    समर्वं॑तो रघु॒द्रुवः॒ सं सु॑जा॒तासः॑ सू॒रय॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

    सो अग्निर् यो वसुर् गृणे सं यम् आयन्ति धेनवः |
    सम् अर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर ||

    só agníryó vásurgṛṇé sám yámāyánti dhenávaḥ ǀ
    sámárvanto raghudrúvaḥ sám sujātā́saḥ sūráya íṣam stotṛ́bhya ā́ bhara ǁ

    so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ |
    sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūraya iṣaṃ stotṛbhya ā bhara ||

    सः । अ॒ग्निः । यः । वसुः॑ । गृ॒णे । सम् । यम् । आ॒ऽयन्ति॑ । धे॒नवः॑ ।
    सम् । अर्व॑न्तः । र॒घु॒ऽद्रुवः॑ । सम् । सु॒ऽजा॒तासः॑ । सू॒रयः॑ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

    सः । अग्निः । यः । वसुः । गृणे । सम् । यम् । आऽयन्ति । धेनवः ।
    सम् । अर्वन्तः । रघुऽद्रुवः । सम् । सुऽजातासः । सूरयः । इषम् । स्तोतृऽभ्यः । आ । भर ॥

    sáḥ ǀ agníḥ ǀ yáḥ ǀ vásuḥ ǀ gṛṇé ǀ sám ǀ yám ǀ ā-yánti ǀ dhenávaḥ ǀ
    sám ǀ árvantaḥ ǀ raghu-drúvaḥ ǀ sám ǀ su-jātā́saḥ ǀ sūráyaḥ ǀ íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

    saḥ ǀ agniḥ ǀ yaḥ ǀ vasuḥ ǀ gṛṇe ǀ sam ǀ yam ǀ ā-yanti ǀ dhenavaḥ ǀ
    sam ǀ arvantaḥ ǀ raghu-druvaḥ ǀ sam ǀ su-jātāsaḥ ǀ sūrayaḥ ǀ iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ

    5.6.2 Aṣṭaka 3.8.22.2Anuvāka 5.1.60

  3. Ṛk 3

    अ॒ग्निर्हि वा॒जिनं॑ वि॒शे ददा॑ति वि॒श्वच॑र्षणिः ।
    अ॒ग्नी रा॒ये स्वा॒भुवं॒ स प्री॒तो या॑ति॒ वार्य॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

    अग्निर् हि वाजिनं विशे ददाति विश्वचर्षणिः |
    अग्नी राये स्वाभुवं स प्रीतो याति वार्यम् इषं स्तोतृभ्य आ भर ||

    agnírhí vājínam viśé dádāti viśvácarṣaṇiḥ ǀ
    agnī́ rāyé svābhúvam sá prītó yāti vā́ryamíṣam stotṛ́bhya ā́ bhara ǁ

    agnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ |
    agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bhara ||

    अ॒ग्निः । हि । वा॒जिन॑म् । वि॒शे । ददा॑ति । वि॒श्वऽच॑र्षणिः ।
    अ॒ग्निः । रा॒ये । सु॒ऽआ॒भुव॑म् । सः । प्री॒तः । या॒ति॒ । वार्य॑म् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

    अग्निः । हि । वाजिनम् । विशे । ददाति । विश्वऽचर्षणिः ।
    अग्निः । राये । सुऽआभुवम् । सः । प्रीतः । याति । वार्यम् । इषम् । स्तोतृऽभ्यः । आ । भर ॥

    agníḥ ǀ hí ǀ vājínam ǀ viśé ǀ dádāti ǀ viśvá-carṣaṇiḥ ǀ
    agníḥ ǀ rāyé ǀ su-ābhúvam ǀ sáḥ ǀ prītáḥ ǀ yāti ǀ vā́ryam ǀ íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

    agniḥ ǀ hi ǀ vājinam ǀ viśe ǀ dadāti ǀ viśva-carṣaṇiḥ ǀ
    agniḥ ǀ rāye ǀ su-ābhuvam ǀ saḥ ǀ prītaḥ ǀ yāti ǀ vāryam ǀ iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ

    5.6.3 Aṣṭaka 3.8.22.3Anuvāka 5.1.61

  4. Ṛk 4

    आ ते॑ अग्न इधीमहि द्यु॒मंतं॑ देवा॒जरं॑ ।
    यद्ध॒ स्या ते॒ पनी॑यसी स॒मिद्दी॒दय॑ति॒ द्यवीषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

    आ ते अग्न इधीमहि द्युमन्तं देवाजरम् |
    यद् ध स्या ते पनीयसी समिद् दीदयति द्यवीषं स्तोतृभ्य आ भर ||

    ā́ te agna idhīmahi dyumántam devājáram ǀ
    yáddha syā́ te pánīyasī samíddīdáyati dyávī́ṣam stotṛ́bhya ā́ bhara ǁ

    ā te agna idhīmahi dyumantaṃ devājaram |
    yad dha syā te panīyasī samid dīdayati dyavīṣaṃ stotṛbhya ā bhara ||

    आ । ते॒ । अ॒ग्ने॒ । इ॒धी॒म॒हि॒ । द्यु॒ऽमन्त॑म् । दे॒व॒ । अ॒जर॑म् ।
    यत् । ह॒ । स्या । ते॒ । पनी॑यसी । स॒म्ऽइत् । दी॒दय॑ति । द्यवि॑ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

    आ । ते । अग्ने । इधीमहि । द्युऽमन्तम् । देव । अजरम् ।
    यत् । ह । स्या । ते । पनीयसी । सम्ऽइत् । दीदयति । द्यवि । इषम् । स्तोतृऽभ्यः । आ । भर ॥

    ā́ ǀ te ǀ agne ǀ idhīmahi ǀ dyu-mántam ǀ deva ǀ ajáram ǀ
    yát ǀ ha ǀ syā́ ǀ te ǀ pánīyasī ǀ sam-ít ǀ dīdáyati ǀ dyávi ǀ íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

    ā ǀ te ǀ agne ǀ idhīmahi ǀ dyu-mantam ǀ deva ǀ ajaram ǀ
    yat ǀ ha ǀ syā ǀ te ǀ panīyasī ǀ sam-it ǀ dīdayati ǀ dyavi ǀ iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ

    5.6.4 Aṣṭaka 3.8.22.4Anuvāka 5.1.62

  5. Ṛk 5

    आ ते॑ अग्न ऋ॒चा ह॒विः शुक्र॑स्य शोचिषस्पते ।
    सुश्चं॑द्र॒ दस्म॒ विश्प॑ते॒ हव्य॑वा॒ट् तुभ्यं॑ हूयत॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

    आ ते अग्न ऋचा हविः शुक्रस्य शोचिषस् पते |
    सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्यं हूयत इषं स्तोतृभ्य आ भर ||

    ā́ te agna ṛcā́ havíḥ śúkrasya śociṣaspate ǀ
    súścandra dásma víśpate hávyavāṭ túbhyam hūyata íṣam stotṛ́bhya ā́ bhara ǁ

    ā te agna ṛcā haviḥ śukrasya śociṣas pate |
    suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara ||

    आ । ते॒ । अ॒ग्ने॒ । ऋ॒चा । ह॒विः । शुक्र॑स्य । शो॒चि॒षः॒ । प॒ते॒ ।
    सुऽच॑न्द्र । दस्म॑ । विश्प॑ते । हव्य॑ऽवाट् । तुभ्य॑म् । हू॒य॒ते॒ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

    आ । ते । अग्ने । ऋचा । हविः । शुक्रस्य । शोचिषः । पते ।
    सुऽचन्द्र । दस्म । विश्पते । हव्यऽवाट् । तुभ्यम् । हूयते । इषम् । स्तोतृऽभ्यः । आ । भर ॥

    ā́ ǀ te ǀ agne ǀ ṛcā́ ǀ havíḥ ǀ śúkrasya ǀ śociṣaḥ ǀ pate ǀ
    sú-candra ǀ dásma ǀ víśpate ǀ hávya-vāṭ ǀ túbhyam ǀ hūyate ǀ íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

    ā ǀ te ǀ agne ǀ ṛcā ǀ haviḥ ǀ śukrasya ǀ śociṣaḥ ǀ pate ǀ
    su-candra ǀ dasma ǀ viśpate ǀ havya-vāṭ ǀ tubhyam ǀ hūyate ǀ iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ

    5.6.5 Aṣṭaka 3.8.22.5Anuvāka 5.1.63

  6. Ṛk 6

    प्रो त्ये अ॒ग्नयो॒ऽग्निषु॒ विश्वं॑ पुष्यंति॒ वार्यं॑ ।
    ते हि॑न्विरे॒ त इ॑न्विरे॒ त इ॑षण्यंत्यानु॒षगिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

    प्रो त्ये अग्नयो ऽग्निषु विश्वम् पुष्यन्ति वार्यम् |
    ते हिन्विरे त इन्विरे त इषण्यन्त्य् आनुषग् इषं स्तोतृभ्य आ भर ||

    pró tyé agnáyo’gníṣu víśvam puṣyanti vā́ryam ǀ
    té hinvire tá invire tá iṣaṇyantyānuṣágíṣam stotṛ́bhya ā́ bhara ǁ

    pro tye agnayo 'gniṣu viśvam puṣyanti vāryam |
    te hinvire ta invire ta iṣaṇyanty ānuṣag iṣaṃ stotṛbhya ā bhara ||

    प्रो इति॑ । त्ये । अ॒ग्नयः॑ । अ॒ग्निषु॑ । विश्व॑म् । पु॒ष्य॒न्ति॒ । वार्य॑म् ।
    ते । हि॒न्वि॒रे॒ । ते । इ॒न्वि॒रे॒ । ते । इ॒ष॒ण्य॒न्ति॒ । आ॒नु॒षक् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

    प्रो इति । त्ये । अग्नयः । अग्निषु । विश्वम् । पुष्यन्ति । वार्यम् ।
    ते । हिन्विरे । ते । इन्विरे । ते । इषण्यन्ति । आनुषक् । इषम् । स्तोतृऽभ्यः । आ । भर ॥

    pró íti ǀ tyé ǀ agnáyaḥ ǀ agníṣu ǀ víśvam ǀ puṣyanti ǀ vā́ryam ǀ
    té ǀ hinvire ǀ té ǀ invire ǀ té ǀ iṣaṇyanti ǀ ānuṣák ǀ íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

    pro iti ǀ tye ǀ agnayaḥ ǀ agniṣu ǀ viśvam ǀ puṣyanti ǀ vāryam ǀ
    te ǀ hinvire ǀ te ǀ invire ǀ te ǀ iṣaṇyanti ǀ ānuṣak ǀ iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ

    5.6.6 Aṣṭaka 3.8.23.1Anuvāka 5.1.64

  7. Ṛk 7

    तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ महि॑ व्राधंत वा॒जिनः॑ ।
    ये पत्व॑भिः श॒फानां॑ व्र॒जा भु॒रंत॒ गोना॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

    तव त्ये अग्ने अर्चयो महि व्राधन्त वाजिनः |
    ये पत्वभिः शफानां व्रजा भुरन्त गोनाम् इषं स्तोतृभ्य आ भर ||

    táva tyé agne arcáyo máhi vrādhanta vājínaḥ ǀ
    yé pátvabhiḥ śaphā́nām vrajā́ bhuránta gónāmíṣam stotṛ́bhya ā́ bhara ǁ

    tava tye agne arcayo mahi vrādhanta vājinaḥ |
    ye patvabhiḥ śaphānāṃ vrajā bhuranta gonām iṣaṃ stotṛbhya ā bhara ||

    तव॑ । त्ये । अ॒ग्ने॒ । अ॒र्चयः॑ । महि॑ । व्रा॒ध॒न्त॒ । वा॒जिनः॑ ।
    ये । पत्व॑ऽभिः । श॒फाना॑म् । व्र॒जा । भु॒रन्त॑ । गोना॑म् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

    तव । त्ये । अग्ने । अर्चयः । महि । व्राधन्त । वाजिनः ।
    ये । पत्वऽभिः । शफानाम् । व्रजा । भुरन्त । गोनाम् । इषम् । स्तोतृऽभ्यः । आ । भर ॥

    táva ǀ tyé ǀ agne ǀ arcáyaḥ ǀ máhi ǀ vrādhanta ǀ vājínaḥ ǀ
    yé ǀ pátva-bhiḥ ǀ śaphā́nām ǀ vrajā́ ǀ bhuránta ǀ gónām ǀ íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

    tava ǀ tye ǀ agne ǀ arcayaḥ ǀ mahi ǀ vrādhanta ǀ vājinaḥ ǀ
    ye ǀ patva-bhiḥ ǀ śaphānām ǀ vrajā ǀ bhuranta ǀ gonām ǀ iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ

    5.6.7 Aṣṭaka 3.8.23.2Anuvāka 5.1.65

  8. Ṛk 8

    नवा॑ नो अग्न॒ आ भ॑र स्तो॒तृभ्यः॑ सुक्षि॒तीरिषः॑ ।
    ते स्या॑म॒ य आ॑नृ॒चुस्त्वादू॑तासो॒ दमे॑दम॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

    नवा नो अग्न आ भर स्तोतृभ्यः सुक्षितीर् इषः |
    ते स्याम य आनृचुस् त्वादूतासो दमे-दम इषं स्तोतृभ्य आ भर ||

    návā no agna ā́ bhara stotṛ́bhyaḥ sukṣitī́ríṣaḥ ǀ
    té syāma yá ānṛcústvā́dūtāso dámedama íṣam stotṛ́bhya ā́ bhara ǁ

    navā no agna ā bhara stotṛbhyaḥ sukṣitīr iṣaḥ |
    te syāma ya ānṛcus tvādūtāso dame-dama iṣaṃ stotṛbhya ā bhara ||

    नवाः॑ । नः॒ । अ॒ग्ने॒ । आ । भ॒र॒ । स्तो॒तृऽभ्यः॑ । सु॒ऽक्षि॒तीः । इषः॑ ।
    ते । स्या॒म॒ । ये । आ॒नृ॒चुः । त्वाऽदू॑तासः । दमे॑ऽदमे । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

    नवाः । नः । अग्ने । आ । भर । स्तोतृऽभ्यः । सुऽक्षितीः । इषः ।
    ते । स्याम । ये । आनृचुः । त्वाऽदूतासः । दमेऽदमे । इषम् । स्तोतृऽभ्यः । आ । भर ॥

    návāḥ ǀ naḥ ǀ agne ǀ ā́ ǀ bhara ǀ stotṛ́-bhyaḥ ǀ su-kṣitī́ḥ ǀ íṣaḥ ǀ
    té ǀ syāma ǀ yé ǀ ānṛcúḥ ǀ tvā́-dūtāsaḥ ǀ dáme-dame ǀ íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

    navāḥ ǀ naḥ ǀ agne ǀ ā ǀ bhara ǀ stotṛ-bhyaḥ ǀ su-kṣitīḥ ǀ iṣaḥ ǀ
    te ǀ syāma ǀ ye ǀ ānṛcuḥ ǀ tvā-dūtāsaḥ ǀ dame-dame ǀ iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ

    5.6.8 Aṣṭaka 3.8.23.3Anuvāka 5.1.66

  9. Ṛk 9

    उ॒भे सु॑श्चंद्र स॒र्पिषो॒ दर्वी॑ श्रीणीष आ॒सनि॑ ।
    उ॒तो न॒ उत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

    उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि |
    उतो न उत् पुपूर्या उक्थेषु शवसस् पत इषं स्तोतृभ्य आ भर ||

    ubhé suścandra sarpíṣo dárvī śrīṇīṣa āsáni ǀ
    utó na útpupūryā ukthéṣu śavasaspata íṣam stotṛ́bhya ā́ bhara ǁ

    ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani |
    uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara ||

    उ॒भे इति॑ । सु॒ऽच॒न्द्र॒ । स॒र्पिषः॑ । दर्वी॒ इति॑ । श्री॒णी॒षे॒ । आ॒सनि॑ ।
    उ॒तो इति॑ । नः॒ । उत् । पु॒पू॒र्याः॒ । उ॒क्थेषु॑ । श॒व॒सः॒ । प॒ते॒ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

    उभे इति । सुऽचन्द्र । सर्पिषः । दर्वी इति । श्रीणीषे । आसनि ।
    उतो इति । नः । उत् । पुपूर्याः । उक्थेषु । शवसः । पते । इषम् । स्तोतृऽभ्यः । आ । भर ॥

    ubhé íti ǀ su-candra ǀ sarpíṣaḥ ǀ dárvī íti ǀ śrīṇīṣe ǀ āsáni ǀ
    utó íti ǀ naḥ ǀ út ǀ pupūryāḥ ǀ ukthéṣu ǀ śavasaḥ ǀ pate ǀ íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

    ubhe iti ǀ su-candra ǀ sarpiṣaḥ ǀ darvī iti ǀ śrīṇīṣe ǀ āsani ǀ
    uto iti ǀ naḥ ǀ ut ǀ pupūryāḥ ǀ uktheṣu ǀ śavasaḥ ǀ pate ǀ iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ

    5.6.9 Aṣṭaka 3.8.23.4Anuvāka 5.1.67

  10. Ṛk 10

    ए॒वाँ अ॒ग्निम॑जुर्यमुर्गी॒र्भिर्य॒ज्ञेभि॑रानु॒षक् ।
    दध॑द॒स्मे सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॒मिषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥

    एवां अग्निम् अजुर्यमुर् गीर्भिर् यज्ञेभिर् आनुषक् |
    दधद् अस्मे सुवीर्यम् उत त्यद् आश्वश्व्यम् इषं स्तोतृभ्य आ भर ||

    evā́m̐ agnímajuryamurgīrbhíryajñébhirānuṣák ǀ
    dádhadasmé suvī́ryamutá tyádāśváśvyamíṣam stotṛ́bhya ā́ bhara ǁ

    evāṃ agnim ajuryamur gīrbhir yajñebhir ānuṣak |
    dadhad asme suvīryam uta tyad āśvaśvyam iṣaṃ stotṛbhya ā bhara ||

    ए॒व । अ॒ग्निम् । अ॒जु॒र्य॒मुः॒ । गीः॒ऽभिः । य॒ज्ञेभिः॑ । आ॒नु॒षक् ।
    दध॑त् । अ॒स्मे इति॑ । सु॒ऽवीर्य॑म् । उ॒त । त्यत् । आ॒शु॒ऽअश्व्य॑म् । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

    एव । अग्निम् । अजुर्यमुः । गीःऽभिः । यज्ञेभिः । आनुषक् ।
    दधत् । अस्मे इति । सुऽवीर्यम् । उत । त्यत् । आशुऽअश्व्यम् । इषम् । स्तोतृऽभ्यः । आ । भर ॥

    evá ǀ agním ǀ ajuryamuḥ ǀ gīḥ-bhíḥ ǀ yajñébhiḥ ǀ ānuṣák ǀ
    dádhat ǀ asmé íti ǀ su-vī́ryam ǀ utá ǀ tyát ǀ āśu-áśvyam ǀ íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ

    eva ǀ agnim ǀ ajuryamuḥ ǀ gīḥ-bhiḥ ǀ yajñebhiḥ ǀ ānuṣak ǀ
    dadhat ǀ asme iti ǀ su-vīryam ǀ uta ǀ tyat ǀ āśu-aśvyam ǀ iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ

    5.6.10 Aṣṭaka 3.8.23.5Anuvāka 5.1.68

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 5.6 · Agni

Interpretations

Sri Aurobindo

Ṛk 1

I meditate on the Fire who is the dweller in things,9 to whom the milch-cows go as to their home, to their home the swift war-horses, to their home the eternal steeds of swiftness.10 Bring to those who laud thee the force of thy impulse. (265)

Ṛk 2

This is the Fire who is the dweller in things voiced by me, in whom meet the milch-cows, and in him the swift galloping war-horses and in him the illuminates who have come to the perfect birth. Bring to those who laud thee the force of thy impulse. (265)

Ṛk 3

The all-seeing Fire gives the steed of the plenitude to man, Fire the horse that comes swiftly to him for the riches; when he is pleased he journeys to the desirable good. Bring to those who laud thee the force of thy impulse.(266)

Ṛk 4

O Fire, we kindle thy luminous and ageless flame; when the fuel of thee becomes more effective in its labour, it blazes up in heaven. Bring to those who laud thee the force of thy impulse. (266)

Ṛk 5

O Fire, O Master of the brilliant Light, the offering is cast to thee with the word of illumination, O bearer of the offering, O master of the creature, achiever of works, O delightful flame. Bring to those who laud thee the force of thy impulse. (266)

Ṛk 6

In thy fires those greater fires of thee nurse every desirable good; they, they race, they run, they drive on in their impulse without a break. Bring to those who laud thee the force of thy impulse. (266)

Ṛk 7

O Fire, those rays of thine, thy steeds of plenitude greaten the Vast; they gallop with tramplings of their hooves to the pens of the Ray-Cows. Bring to those who laud thee the force of thy impulse. (266)

Ṛk 8

Bring to us who laud thee, O Fire, new impelling forces that lead to happy worlds; may we be of those who with thee for their messenger sing the hymn of illumination in home and home. Bring to those who laud thee the force of thy impulse. (267)

Ṛk 9

O delightful flame, thou turnest both the ladles of the streaming clarity towards thy mouth; then mayst thou carry us high beyond in the utterances, O master of might. Bring to those who laud thee the force of thy impulse. (267)

Ṛk 10

Thus have they driven and controlled the Fire without a break by their words and their sacrifices; may he found in us the perfect hero-might and the perfect power of the Horse. Bring to those who laud thee the force of thy impulse. (267)