Ṛk 5.6.1
Saṃhitā
अ॒ग्निं तं म॑न्ये॒ यो वसु॒रस्तं॒ यं यंति॑ धे॒नवः॑ ।
अस्त॒मर्वं॑त आ॒शवोऽस्तं॒ नित्या॑सो वा॒जिन॒ इषं॑ स्तो॒तृभ्य॒ आ भ॑र ॥
अग्निं तम् मन्ये यो वसुर् अस्तं यं यन्ति धेनवः |
अस्तम् अर्वन्त आशवो ऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ||
agním tám manye yó vásurástam yám yánti dhenávaḥ ǀ
ástamárvanta āśávó’stam nítyāso vājína íṣam stotṛ́bhya ā́ bhara ǁ
agniṃ tam manye yo vasur astaṃ yaṃ yanti dhenavaḥ |
astam arvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara ||
Padapāṭha
अ॒ग्निम् । तम् । म॒न्ये॒ । यः । वसुः॑ । अस्त॑म् । यम् । यन्ति॑ । धे॒नवः॑ ।
अस्त॑म् । अर्व॑न्तः । आ॒शवः॑ । अस्त॑म् । नित्या॑सः । वा॒जिनः॑ । इष॑म् । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥
अग्निम् । तम् । मन्ये । यः । वसुः । अस्तम् । यम् । यन्ति । धेनवः ।
अस्तम् । अर्वन्तः । आशवः । अस्तम् । नित्यासः । वाजिनः । इषम् । स्तोतृऽभ्यः । आ । भर ॥
agním ǀ tám ǀ manye ǀ yáḥ ǀ vásuḥ ǀ ástam ǀ yám ǀ yánti ǀ dhenávaḥ ǀ
ástam ǀ árvantaḥ ǀ āśávaḥ ǀ ástam ǀ nítyāsaḥ ǀ vājínaḥ ǀ íṣam ǀ stotṛ́-bhyaḥ ǀ ā́ ǀ bhara ǁ
agnim ǀ tam ǀ manye ǀ yaḥ ǀ vasuḥ ǀ astam ǀ yam ǀ yanti ǀ dhenavaḥ ǀ
astam ǀ arvantaḥ ǀ āśavaḥ ǀ astam ǀ nityāsaḥ ǀ vājinaḥ ǀ iṣam ǀ stotṛ-bhyaḥ ǀ ā ǀ bhara ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.006.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 3.8.22.01
- Maṇḍala · Anuvāka · Ṛk
- 05.01.059
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Vasuśruta Ātreya
- Chandas छन्दस्
- Paṅkti
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.