Sūkta 68
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Yajata Ātreya
- Chandas छन्दस्
- Gāyatrī
Metres by ṛk
1st set of styles gāyatrī (1, 2); nicṛdgāyatrī (3, 4); virāḍgāyatrī (5)
2nd set of styles gāyatrī
-
Ṛk 1
प्र वो॑ मि॒त्राय॑ गायत॒ वरु॑णाय वि॒पा गि॒रा ।
महि॑क्षत्रावृ॒तं बृ॒हत् ॥प्र वो मित्राय गायत वरुणाय विपा गिरा |
महिक्षत्राव् ऋतम् बृहत् ||prá vo mitrā́ya gāyata váruṇāya vipā́ girā́ ǀ
máhikṣatrāvṛtám bṛhát ǁpra vo mitrāya gāyata varuṇāya vipā girā |
mahikṣatrāv ṛtam bṛhat ||प्र । वः॒ । मि॒त्राय॑ । गा॒य॒त॒ । वरु॑णाय । वि॒पा । गि॒रा ।
महि॑ऽक्षत्रौ । ऋ॒तम् । बृ॒हत् ॥प्र । वः । मित्राय । गायत । वरुणाय । विपा । गिरा ।
महिऽक्षत्रौ । ऋतम् । बृहत् ॥prá ǀ vaḥ ǀ mitrā́ya ǀ gāyata ǀ váruṇāya ǀ vipā́ ǀ girā́ ǀ
máhi-kṣatrau ǀ ṛtám ǀ bṛhát ǁpra ǀ vaḥ ǀ mitrāya ǀ gāyata ǀ varuṇāya ǀ vipā ǀ girā ǀ
mahi-kṣatrau ǀ ṛtam ǀ bṛhat ǁ5.68.1 Aṣṭaka 4.4.6.1Anuvāka 5.5.92
-
Ṛk 2
स॒म्राजा॒ या घृ॒तयो॑नी मि॒त्रश्चो॒भा वरु॑णश्च ।
दे॒वा दे॒वेषु॑ प्रश॒स्ता ॥सम्राजा या घृतयोनी मित्रश् चोभा वरुणश् च |
देवा देवेषु प्रशस्ता ||samrā́jā yā́ ghṛtáyonī mitráścobhā́ váruṇaśca ǀ
devā́ devéṣu praśastā́ ǁsamrājā yā ghṛtayonī mitraś cobhā varuṇaś ca |
devā deveṣu praśastā ||स॒म्ऽराजा॑ । या । घृ॒तयो॑नी॒ इति॑ घृ॒तऽयो॑नी । मि॒त्रः । च॒ । उ॒भा । वरु॑णः । च॒ ।
दे॒वा । दे॒वेषु॑ । प्र॒ऽश॒स्ता ॥सम्ऽराजा । या । घृतयोनी इति घृतऽयोनी । मित्रः । च । उभा । वरुणः । च ।
देवा । देवेषु । प्रऽशस्ता ॥sam-rā́jā ǀ yā́ ǀ ghṛtáyonī íti ghṛtá-yonī ǀ mitráḥ ǀ ca ǀ ubhā́ ǀ váruṇaḥ ǀ ca ǀ
devā́ ǀ devéṣu ǀ pra-śastā́ ǁsam-rājā ǀ yā ǀ ghṛtayonī iti ghṛta-yonī ǀ mitraḥ ǀ ca ǀ ubhā ǀ varuṇaḥ ǀ ca ǀ
devā ǀ deveṣu ǀ pra-śastā ǁ5.68.2 Aṣṭaka 4.4.6.2Anuvāka 5.5.93
-
Ṛk 3
ता नः॑ शक्तं॒ पार्थि॑वस्य म॒हो रा॒यो दि॒व्यस्य॑ ।
महि॑ वां क्ष॒त्रं दे॒वेषु॑ ॥ता नः शक्तम् पार्थिवस्य महो रायो दिव्यस्य |
महि वां क्षत्रं देवेषु ||tā́ naḥ śaktam pā́rthivasya mahó rāyó divyásya ǀ
máhi vām kṣatrám devéṣu ǁtā naḥ śaktam pārthivasya maho rāyo divyasya |
mahi vāṃ kṣatraṃ deveṣu ||ता । नः॒ । श॒क्त॒म् । पार्थि॑वस्य । म॒हः । रा॒यः । दि॒व्यस्य॑ ।
महि॑ । वा॒म् । क्ष॒त्रम् । दे॒वेषु॑ ॥ता । नः । शक्तम् । पार्थिवस्य । महः । रायः । दिव्यस्य ।
महि । वाम् । क्षत्रम् । देवेषु ॥tā́ ǀ naḥ ǀ śaktam ǀ pā́rthivasya ǀ maháḥ ǀ rāyáḥ ǀ divyásya ǀ
máhi ǀ vām ǀ kṣatrám ǀ devéṣu ǁtā ǀ naḥ ǀ śaktam ǀ pārthivasya ǀ mahaḥ ǀ rāyaḥ ǀ divyasya ǀ
mahi ǀ vām ǀ kṣatram ǀ deveṣu ǁ5.68.3 Aṣṭaka 4.4.6.3Anuvāka 5.5.94
-
Ṛk 4
ऋ॒तमृ॒तेन॒ सपं॑तेषि॒रं दक्ष॑माशाते ।
अ॒द्रुहा॑ दे॒वौ व॑र्धेते ॥ऋतम् ऋतेन सपन्तेषिरं दक्षम् आशाते |
अद्रुहा देवौ वर्धेते ||ṛtámṛténa sápanteṣirám dákṣamāśāte ǀ
adrúhā deváu vardhete ǁṛtam ṛtena sapanteṣiraṃ dakṣam āśāte |
adruhā devau vardhete ||ऋ॒तम् । ऋ॒तेन॑ । सप॑न्ता । इ॒षि॒रम् । दक्ष॑म् । आ॒शा॒ते॒ इति॑ ।
अ॒द्रुहा॑ । दे॒वौ । व॒र्धे॒ते॒ इति॑ ॥ऋतम् । ऋतेन । सपन्ता । इषिरम् । दक्षम् । आशाते इति ।
अद्रुहा । देवौ । वर्धेते इति ॥ṛtám ǀ ṛténa ǀ sápantā ǀ iṣirám ǀ dákṣam ǀ āśāte íti ǀ
adrúhā ǀ deváu ǀ vardhete íti ǁṛtam ǀ ṛtena ǀ sapantā ǀ iṣiram ǀ dakṣam ǀ āśāte iti ǀ
adruhā ǀ devau ǀ vardhete iti ǁ5.68.4 Aṣṭaka 4.4.6.4Anuvāka 5.5.95
-
Ṛk 5
वृ॒ष्टिद्या॑वा री॒त्या॑पे॒षस्पती॒ दानु॑मत्याः ।
बृ॒हंतं॒ गर्त॑माशाते ॥वृष्टिद्यावा रीत्यापेषस् पती दानुमत्याः |
बृहन्तं गर्तम् आशाते ||vṛṣṭídyāvā rītyā́peṣáspátī dā́numatyāḥ ǀ
bṛhántam gártamāśāte ǁvṛṣṭidyāvā rītyāpeṣas patī dānumatyāḥ |
bṛhantaṃ gartam āśāte ||वृ॒ष्टिऽद्या॑वा । री॒तिऽआ॑पा । इ॒षः । पती॒ इति॑ । दानु॑ऽमत्याः ।
बृ॒हन्त॑म् । गर्त॑म् । आ॒शा॒ते॒ इति॑ ॥वृष्टिऽद्यावा । रीतिऽआपा । इषः । पती इति । दानुऽमत्याः ।
बृहन्तम् । गर्तम् । आशाते इति ॥vṛṣṭí-dyāvā ǀ rītí-āpā ǀ iṣáḥ ǀ pátī íti ǀ dā́nu-matyāḥ ǀ
bṛhántam ǀ gártam ǀ āśāte íti ǁvṛṣṭi-dyāvā ǀ rīti-āpā ǀ iṣaḥ ǀ patī iti ǀ dānu-matyāḥ ǀ
bṛhantam ǀ gartam ǀ āśāte iti ǁ5.68.5 Aṣṭaka 4.4.6.5Anuvāka 5.5.96
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.