Sūkta 86
- Devatā देवता
- Agni, Indra
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Anuṣṭubh, Virāṭpūrvā
Metres by ṛk
1st set of styles svarāḍuṣnik (1, 4, 5); virāḍanuṣṭup (2, 3); virāṭpūrvānuṣṭup (6)
2nd set of styles anuṣṭubh (1-5); virāṭpūrvā (6)
-
Ṛk 1
इंद्रा॑ग्नी॒ यमव॑थ उ॒भा वाजे॑षु॒ मर्त्यं॑ ।
दृ॒ळ्हा चि॒त्स प्र भे॑दति द्यु॒म्ना वाणी॑रिव त्रि॒तः ॥इन्द्राग्नी यम् अवथ उभा वाजेषु मर्त्यम् |
दृऌहा चित् स प्र भेदति द्युम्ना वाणीर् इव त्रितः ||índrāgnī yámávatha ubhā́ vā́jeṣu mártyam ǀ
dṛḷhā́ citsá prá bhedati dyumnā́ vā́ṇīriva tritáḥ ǁindrāgnī yam avatha ubhā vājeṣu martyam |
dṛḷhā cit sa pra bhedati dyumnā vāṇīr iva tritaḥ ||इन्द्रा॑ग्नी॒ इति॑ । यम् । अव॑थः । उ॒भा । वाजे॑षु । मर्त्य॑म् ।
दृ॒ळ्हा । चि॒त् । सः । प्र । भे॒द॒ति॒ । द्यु॒म्ना । वाणीः॑ऽइव । त्रि॒तः ॥इन्द्राग्नी इति । यम् । अवथः । उभा । वाजेषु । मर्त्यम् ।
दृळ्हा । चित् । सः । प्र । भेदति । द्युम्ना । वाणीःऽइव । त्रितः ॥índrāgnī íti ǀ yám ǀ ávathaḥ ǀ ubhā́ ǀ vā́jeṣu ǀ mártyam ǀ
dṛḷhā́ ǀ cit ǀ sáḥ ǀ prá ǀ bhedati ǀ dyumnā́ ǀ vā́ṇīḥ-iva ǀ tritáḥ ǁindrāgnī iti ǀ yam ǀ avathaḥ ǀ ubhā ǀ vājeṣu ǀ martyam ǀ
dṛḷhā ǀ cit ǀ saḥ ǀ pra ǀ bhedati ǀ dyumnā ǀ vāṇīḥ-iva ǀ tritaḥ ǁ5.86.1 Aṣṭaka 4.4.32.1Anuvāka 5.6.100
-
Ṛk 2
या पृत॑नासु दु॒ष्टरा॒ या वाजे॑षु श्र॒वाय्या॑ ।
या पंच॑ चर्ष॒णीर॒भीं॑द्रा॒ग्नी ता ह॑वामहे ॥या पृतनासु दुष्टरा या वाजेषु श्रवाय्या |
या पञ्च चर्षणीर् अभीन्द्राग्नी ता हवामहे ||yā́ pṛ́tanāsu duṣṭárā yā́ vā́jeṣu śravā́yyā ǀ
yā́ páñca carṣaṇī́rabhī́ndrāgnī́ tā́ havāmahe ǁyā pṛtanāsu duṣṭarā yā vājeṣu śravāyyā |
yā pañca carṣaṇīr abhīndrāgnī tā havāmahe ||या । पृत॑नासु । दु॒स्तरा॑ । या । वाजे॑षु । श्र॒वाय्या॑ ।
या । पञ्च॑ । च॒र्ष॒णीः । अ॒भि । इ॒न्द्रा॒ग्नी इति॑ । ता । ह॒वा॒म॒हे॒ ॥या । पृतनासु । दुस्तरा । या । वाजेषु । श्रवाय्या ।
या । पञ्च । चर्षणीः । अभि । इन्द्राग्नी इति । ता । हवामहे ॥yā́ ǀ pṛ́tanāsu ǀ dustárā ǀ yā́ ǀ vā́jeṣu ǀ śravā́yyā ǀ
yā́ ǀ páñca ǀ carṣaṇī́ḥ ǀ abhí ǀ indrāgnī́ íti ǀ tā́ ǀ havāmahe ǁyā ǀ pṛtanāsu ǀ dustarā ǀ yā ǀ vājeṣu ǀ śravāyyā ǀ
yā ǀ pañca ǀ carṣaṇīḥ ǀ abhi ǀ indrāgnī iti ǀ tā ǀ havāmahe ǁ5.86.2 Aṣṭaka 4.4.32.2Anuvāka 5.6.101
-
Ṛk 3
तयो॒रिदम॑व॒च्छव॑स्ति॒ग्मा दि॒द्युन्म॒घोनोः॑ ।
प्रति॒ द्रुणा॒ गभ॑स्त्यो॒र्गवां॑ वृत्र॒घ्न एष॑ते ॥तयोर् इद् अमवच् छवस् तिग्मा दिद्युन् मघोनोः |
प्रति द्रुणा गभस्त्योर् गवां वृत्रघ्न एषते ||táyorídámavacchávastigmā́ didyúnmaghónoḥ ǀ
práti drúṇā gábhastyorgávām vṛtraghná éṣate ǁtayor id amavac chavas tigmā didyun maghonoḥ |
prati druṇā gabhastyor gavāṃ vṛtraghna eṣate ||तयोः॑ । इत् । अम॑ऽवत् । शवः॑ । ति॒ग्मा । दि॒द्युत् । म॒घोनोः॑ ।
प्रति॑ । द्रुणा॑ । गभ॑स्त्योः । गवा॑म् । वृ॒त्र॒ऽघ्ने । आ । ई॒ष॒ते॒ ॥तयोः । इत् । अमऽवत् । शवः । तिग्मा । दिद्युत् । मघोनोः ।
प्रति । द्रुणा । गभस्त्योः । गवाम् । वृत्रऽघ्ने । आ । ईषते ॥táyoḥ ǀ ít ǀ áma-vat ǀ śávaḥ ǀ tigmā́ ǀ didyút ǀ maghónoḥ ǀ
práti ǀ drúṇā ǀ gábhastyoḥ ǀ gávām ǀ vṛtra-ghné ǀ ā́ ǀ īṣate ǁtayoḥ ǀ it ǀ ama-vat ǀ śavaḥ ǀ tigmā ǀ didyut ǀ maghonoḥ ǀ
prati ǀ druṇā ǀ gabhastyoḥ ǀ gavām ǀ vṛtra-ghne ǀ ā ǀ īṣate ǁ5.86.3 Aṣṭaka 4.4.32.3Anuvāka 5.6.102
-
Ṛk 4
ता वा॒मेषे॒ रथा॑नामिंद्रा॒ग्नी ह॑वामहे ।
पती॑ तु॒रस्य॒ राध॑सो वि॒द्वांसा॒ गिर्व॑णस्तमा ॥ता वाम् एषे रथानाम् इन्द्राग्नी हवामहे |
पती तुरस्य राधसो विद्वांसा गिर्वणस्तमा ||tā́ vāméṣe ráthānāmindrāgnī́ havāmahe ǀ
pátī turásya rā́dhaso vidvā́ṃsā gírvaṇastamā ǁtā vām eṣe rathānām indrāgnī havāmahe |
patī turasya rādhaso vidvāṃsā girvaṇastamā ||आ । वा॒म् । एषे॑ । रथा॑नाम् । इ॒न्द्रा॒ग्नी इति॑ । ह॒वा॒म॒हे॒ ।
पती॒ इति॑ । तु॒रस्य॑ । राध॑सः । वि॒द्वांसा॑ । गिर्व॑णःऽतमा ॥आ । वाम् । एषे । रथानाम् । इन्द्राग्नी इति । हवामहे ।
पती इति । तुरस्य । राधसः । विद्वांसा । गिर्वणःऽतमा ॥ā́ ǀ vām ǀ éṣe ǀ ráthānām ǀ indrāgnī́ íti ǀ havāmahe ǀ
pátī íti ǀ turásya ǀ rā́dhasaḥ ǀ vidvā́ṃsā ǀ gírvaṇaḥ-tamā ǁā ǀ vām ǀ eṣe ǀ rathānām ǀ indrāgnī iti ǀ havāmahe ǀ
patī iti ǀ turasya ǀ rādhasaḥ ǀ vidvāṃsā ǀ girvaṇaḥ-tamā ǁ5.86.4 Aṣṭaka 4.4.32.4Anuvāka 5.6.103
-
Ṛk 5
ता वृ॒धंता॒वनु॒ द्यून्मर्ता॑य दे॒वाव॒दभा॑ ।
अर्हं॑ता चित्पु॒रो द॒धेऽंशे॑व दे॒वावर्व॑ते ॥ता वृधन्ताव् अनु द्यून् मर्ताय देवाव् अदभा |
अर्हन्ता चित् पुरो दधे ऽंशेव देवाव् अर्वते ||tā́ vṛdhántāvánu dyū́nmártāya devā́vadábhā ǀ
árhantā citpuró dadhé’ṃśeva devā́várvate ǁtā vṛdhantāv anu dyūn martāya devāv adabhā |
arhantā cit puro dadhe 'ṃśeva devāv arvate ||ता । वृ॒धन्तौ॑ । अनु॑ । द्यून् । मर्ता॑य । दे॒वौ । अ॒दभा॑ ।
अर्ह॑न्ता । चि॒त् । पु॒रः । द॒धे॒ । अंशा॑ऽइव । दे॒वौ । अर्व॑ते ॥ता । वृधन्तौ । अनु । द्यून् । मर्ताय । देवौ । अदभा ।
अर्हन्ता । चित् । पुरः । दधे । अंशाऽइव । देवौ । अर्वते ॥tā́ ǀ vṛdhántau ǀ ánu ǀ dyū́n ǀ mártāya ǀ deváu ǀ adábhā ǀ
árhantā ǀ cit ǀ puráḥ ǀ dadhe ǀ áṃśā-iva ǀ deváu ǀ árvate ǁtā ǀ vṛdhantau ǀ anu ǀ dyūn ǀ martāya ǀ devau ǀ adabhā ǀ
arhantā ǀ cit ǀ puraḥ ǀ dadhe ǀ aṃśā-iva ǀ devau ǀ arvate ǁ5.86.5 Aṣṭaka 4.4.32.5Anuvāka 5.6.104
-
Ṛk 6
ए॒वेंद्रा॒ग्निभ्या॒महा॑वि ह॒व्यं शू॒ष्यं॑ घृ॒तं न पू॒तमद्रि॑भिः ।
ता सू॒रिषु॒ श्रवो॑ बृ॒हद्र॒यिं गृ॒णत्सु॑ दिधृत॒मिषं॑ गृ॒णत्सु॑ दिधृतं ॥एवेन्द्राग्निभ्याम् अहावि हव्यं शूष्यं घृतं न पूतम् अद्रिभिः |
ता सूरिषु श्रवो बृहद् रयिं गृणत्सु दिधृतम् इषं गृणत्सु दिधृतम् ||evéndrāgníbhyāmáhāvi havyám śūṣyám ghṛtám ná pūtámádribhiḥ ǀ
tā́ sūríṣu śrávo bṛhádrayím gṛṇátsu didhṛtamíṣam gṛṇátsu didhṛtam ǁevendrāgnibhyām ahāvi havyaṃ śūṣyaṃ ghṛtaṃ na pūtam adribhiḥ |
tā sūriṣu śravo bṛhad rayiṃ gṛṇatsu didhṛtam iṣaṃ gṛṇatsu didhṛtam ||ए॒व । इ॒न्द्रा॒ग्निऽभ्या॑म् । अहा॑वि । ह॒व्यम् । शू॒ष्य॑म् । घृ॒तम् । न । पू॒तम् । अद्रि॑ऽभिः ।
ता । सू॒रिषु॑ । श्रवः॑ । बृ॒हत् । र॒यिम् । गृ॒णत्ऽसु॑ । दि॒धृ॒त॒म् । इष॑म् । गृ॒णत्ऽसु॑ । दि॒धृ॒त॒म् ॥एव । इन्द्राग्निऽभ्याम् । अहावि । हव्यम् । शूष्यम् । घृतम् । न । पूतम् । अद्रिऽभिः ।
ता । सूरिषु । श्रवः । बृहत् । रयिम् । गृणत्ऽसु । दिधृतम् । इषम् । गृणत्ऽसु । दिधृतम् ॥evá ǀ indrāgní-bhyām ǀ áhāvi ǀ havyám ǀ śūṣyám ǀ ghṛtám ǀ ná ǀ pūtám ǀ ádri-bhiḥ ǀ
tā́ ǀ sūríṣu ǀ śrávaḥ ǀ bṛhát ǀ rayím ǀ gṛṇát-su ǀ didhṛtam ǀ íṣam ǀ gṛṇát-su ǀ didhṛtam ǁeva ǀ indrāgni-bhyām ǀ ahāvi ǀ havyam ǀ śūṣyam ǀ ghṛtam ǀ na ǀ pūtam ǀ adri-bhiḥ ǀ
tā ǀ sūriṣu ǀ śravaḥ ǀ bṛhat ǀ rayim ǀ gṛṇat-su ǀ didhṛtam ǀ iṣam ǀ gṛṇat-su ǀ didhṛtam ǁ5.86.6 Aṣṭaka 4.4.32.6Anuvāka 5.6.105
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.