Ṛgveda · Maṇḍala 5

Sūkta 42

Viśvedevās · Atri Bhauma · 18 ṛks

Link
Devatā देवता
Viśvedevās
Ṛṣi ऋषि
Atri Bhauma
Chandas छन्दस्
Triṣṭubh, Ekapadā Virāj
Metres by ṛk

1st set of styles nicṛttriṣṭup (1, 4, 6, 11, 12, 15, 16, 18); triṣṭup (3, 5, 7-9, 13, 14); virāṭtrisṭup (2); bhurikpaṅkti (10); yājuṣīpaṅkti (17)

2nd set of styles triṣṭubh (1-16, 18); ekapadā virāj (17)

  1. Ṛk 1

    प्र शंत॑मा॒ वरु॑णं॒ दीधि॑ती॒ गीर्मि॒त्रं भग॒मदि॑तिं नू॒नम॑श्याः ।
    पृष॑द्योनिः॒ पंच॑होता शृणो॒त्वतू॑र्तपंथा॒ असु॑रो मयो॒भुः ॥

    प्र शन्तमा वरुणं दीधिती गीर् मित्रम् भगम् अदितिं नूनम् अश्याः |
    पृषद्योनिः पञ्चहोता शृणोत्व् अतूर्तपन्था असुरो मयोभुः ||

    prá śáṃtamā váruṇam dī́dhitī gī́rmitrám bhágamáditim nūnámaśyāḥ ǀ
    pṛ́ṣadyoniḥ páñcahotā śṛṇotvátūrtapanthā ásuro mayobhúḥ ǁ

    pra śantamā varuṇaṃ dīdhitī gīr mitram bhagam aditiṃ nūnam aśyāḥ |
    pṛṣadyoniḥ pañcahotā śṛṇotv atūrtapanthā asuro mayobhuḥ ||

    प्र । शम्ऽत॑मा । वरु॑णम् । दीधि॑ती । गीः । मि॒त्रम् । भग॑म् । अदि॑तिम् । नू॒नम् । अ॒श्याः॒ ।
    पृष॑त्ऽयोनिः । पञ्च॑ऽहोता । शृ॒णो॒तु॒ । अतू॑र्तऽपन्थाः । असु॑रः । म॒यः॒ऽभुः ॥

    प्र । शम्ऽतमा । वरुणम् । दीधिती । गीः । मित्रम् । भगम् । अदितिम् । नूनम् । अश्याः ।
    पृषत्ऽयोनिः । पञ्चऽहोता । शृणोतु । अतूर्तऽपन्थाः । असुरः । मयःऽभुः ॥

    prá ǀ śám-tamā ǀ váruṇam ǀ dī́dhitī ǀ gī́ḥ ǀ mitrám ǀ bhágam ǀ áditim ǀ nūnám ǀ aśyāḥ ǀ
    pṛ́ṣat-yoniḥ ǀ páñca-hotā ǀ śṛṇotu ǀ átūrta-panthāḥ ǀ ásuraḥ ǀ mayaḥ-bhúḥ ǁ

    pra ǀ śam-tamā ǀ varuṇam ǀ dīdhitī ǀ gīḥ ǀ mitram ǀ bhagam ǀ aditim ǀ nūnam ǀ aśyāḥ ǀ
    pṛṣat-yoniḥ ǀ pañca-hotā ǀ śṛṇotu ǀ atūrta-panthāḥ ǀ asuraḥ ǀ mayaḥ-bhuḥ ǁ

    5.42.1 Aṣṭaka 4.2.17.1Anuvāka 5.3.78

  2. Ṛk 2

    प्रति॑ मे॒ स्तोम॒मदि॑तिर्जगृभ्यात्सू॒नुं न मा॒ता हृद्यं॑ सु॒शेवं॑ ।
    ब्रह्म॑ प्रि॒यं दे॒वहि॑तं॒ यदस्त्य॒हं मि॒त्रे वरु॑णे॒ यन्म॑यो॒भु ॥

    प्रति मे स्तोमम् अदितिर् जगृभ्यात् सूनुं न माता हृद्यं सुशेवम् |
    ब्रह्म प्रियं देवहितं यद् अस्त्य् अहम् मित्रे वरुणे यन् मयोभु ||

    práti me stómamáditirjagṛbhyātsūnúm ná mātā́ hṛ́dyam suśévam ǀ
    bráhma priyám deváhitam yádástyahám mitré váruṇe yánmayobhú ǁ

    prati me stomam aditir jagṛbhyāt sūnuṃ na mātā hṛdyaṃ suśevam |
    brahma priyaṃ devahitaṃ yad asty aham mitre varuṇe yan mayobhu ||

    प्रति॑ । मे॒ । स्तोम॑म् । अदि॑तिः । ज॒गृ॒भ्या॒त् । सू॒नुम् । न । मा॒ता । हृद्य॑म् । सु॒ऽशेव॑म् ।
    ब्रह्म॑ । प्रि॒यम् । दे॒वऽहि॑तम् । यत् । अस्ति॑ । अ॒हम् । मि॒त्रे । वरु॑णे । यत् । म॒यः॒ऽभुः ॥

    प्रति । मे । स्तोमम् । अदितिः । जगृभ्यात् । सूनुम् । न । माता । हृद्यम् । सुऽशेवम् ।
    ब्रह्म । प्रियम् । देवऽहितम् । यत् । अस्ति । अहम् । मित्रे । वरुणे । यत् । मयःऽभुः ॥

    práti ǀ me ǀ stómam ǀ áditiḥ ǀ jagṛbhyāt ǀ sūnúm ǀ ná ǀ mātā́ ǀ hṛ́dyam ǀ su-śévam ǀ
    bráhma ǀ priyám ǀ devá-hitam ǀ yát ǀ ásti ǀ ahám ǀ mitré ǀ váruṇe ǀ yát ǀ mayaḥ-bhúḥ ǁ

    prati ǀ me ǀ stomam ǀ aditiḥ ǀ jagṛbhyāt ǀ sūnum ǀ na ǀ mātā ǀ hṛdyam ǀ su-śevam ǀ
    brahma ǀ priyam ǀ deva-hitam ǀ yat ǀ asti ǀ aham ǀ mitre ǀ varuṇe ǀ yat ǀ mayaḥ-bhuḥ ǁ

    5.42.2 Aṣṭaka 4.2.17.2Anuvāka 5.3.79

  3. Ṛk 3

    उदी॑रय क॒वित॑मं कवी॒नामु॒नत्तै॑नम॒भि मध्वा॑ घृ॒तेन॑ ।
    स नो॒ वसू॑नि॒ प्रय॑ता हि॒तानि॑ चं॒द्राणि॑ दे॒वः स॑वि॒ता सु॑वाति ॥

    उद् ईरय कवितमं कवीनाम् उनत्तैनम् अभि मध्वा घृतेन |
    स नो वसूनि प्रयता हितानि चन्द्राणि देवः सविता सुवाति ||

    údīraya kavítamam kavīnā́munáttainamabhí mádhvā ghṛténa ǀ
    sá no vásūni práyatā hitā́ni candrā́ṇi deváḥ savitā́ suvāti ǁ

    ud īraya kavitamaṃ kavīnām unattainam abhi madhvā ghṛtena |
    sa no vasūni prayatā hitāni candrāṇi devaḥ savitā suvāti ||

    उत् । ई॒र॒य॒ । क॒विऽत॑मम् । क॒वी॒नाम् । उ॒नत्त॑ । ए॒न॒म् । अ॒भि । मध्वा॑ । घृ॒तेन॑ ।
    सः । नः॒ । वसू॑नि । प्रऽय॑ता । हि॒तानि॑ । च॒न्द्राणि॑ । दे॒वः । स॒वि॒ता । सु॒वा॒ति॒ ॥

    उत् । ईरय । कविऽतमम् । कवीनाम् । उनत्त । एनम् । अभि । मध्वा । घृतेन ।
    सः । नः । वसूनि । प्रऽयता । हितानि । चन्द्राणि । देवः । सविता । सुवाति ॥

    út ǀ īraya ǀ kaví-tamam ǀ kavīnā́m ǀ unátta ǀ enam ǀ abhí ǀ mádhvā ǀ ghṛténa ǀ
    sáḥ ǀ naḥ ǀ vásūni ǀ prá-yatā ǀ hitā́ni ǀ candrā́ṇi ǀ deváḥ ǀ savitā́ ǀ suvāti ǁ

    ut ǀ īraya ǀ kavi-tamam ǀ kavīnām ǀ unatta ǀ enam ǀ abhi ǀ madhvā ǀ ghṛtena ǀ
    saḥ ǀ naḥ ǀ vasūni ǀ pra-yatā ǀ hitāni ǀ candrāṇi ǀ devaḥ ǀ savitā ǀ suvāti ǁ

    5.42.3 Aṣṭaka 4.2.17.3Anuvāka 5.3.80

  4. Ṛk 4

    समिं॑द्र णो॒ मन॑सा नेषि॒ गोभिः॒ सं सू॒रिभि॑र्हरिवः॒ सं स्व॒स्ति ।
    सं ब्रह्म॑णा दे॒वहि॑तं॒ यदस्ति॒ सं दे॒वानां॑ सुम॒त्या य॒ज्ञिया॑नां ॥

    सम् इन्द्र णो मनसा नेषि गोभिः सं सूरिभिर् हरिवः सं स्वस्ति |
    सम् ब्रह्मणा देवहितं यद् अस्ति सं देवानां सुमत्या यज्ञियानाम् ||

    sámindra ṇo mánasā neṣi góbhiḥ sám sūríbhirharivaḥ sám svastí ǀ
    sám bráhmaṇā deváhitam yádásti sám devā́nām sumatyā́ yajñíyānām ǁ

    sam indra ṇo manasā neṣi gobhiḥ saṃ sūribhir harivaḥ saṃ svasti |
    sam brahmaṇā devahitaṃ yad asti saṃ devānāṃ sumatyā yajñiyānām ||

    सम् । इ॒न्द्र॒ । नः॒ । मन॑सा । ने॒षि॒ । गोभिः॑ । सम् । सू॒रिऽभिः॑ । ह॒रि॒ऽवः॒ । सम् । स्व॒स्ति ।
    सम् । ब्रह्म॑णा । दे॒वऽहि॑तम् । यत् । अस्ति॑ । सम् । दे॒वाना॑म् । सु॒ऽम॒त्या । य॒ज्ञिया॑नाम् ॥

    सम् । इन्द्र । नः । मनसा । नेषि । गोभिः । सम् । सूरिऽभिः । हरिऽवः । सम् । स्वस्ति ।
    सम् । ब्रह्मणा । देवऽहितम् । यत् । अस्ति । सम् । देवानाम् । सुऽमत्या । यज्ञियानाम् ॥

    sám ǀ indra ǀ naḥ ǀ mánasā ǀ neṣi ǀ góbhiḥ ǀ sám ǀ sūrí-bhiḥ ǀ hari-vaḥ ǀ sám ǀ svastí ǀ
    sám ǀ bráhmaṇā ǀ devá-hitam ǀ yát ǀ ásti ǀ sám ǀ devā́nām ǀ su-matyā́ ǀ yajñíyānām ǁ

    sam ǀ indra ǀ naḥ ǀ manasā ǀ neṣi ǀ gobhiḥ ǀ sam ǀ sūri-bhiḥ ǀ hari-vaḥ ǀ sam ǀ svasti ǀ
    sam ǀ brahmaṇā ǀ deva-hitam ǀ yat ǀ asti ǀ sam ǀ devānām ǀ su-matyā ǀ yajñiyānām ǁ

    5.42.4 Aṣṭaka 4.2.17.4Anuvāka 5.3.81

  5. Ṛk 5

    दे॒वो भगः॑ सवि॒ता रा॒यो अंश॒ इंद्रो॑ वृ॒त्रस्य॑ सं॒जितो॒ धना॑नां ।
    ऋ॒भु॒क्षा वाज॑ उ॒त वा॒ पुरं॑धि॒रवं॑तु नो अ॒मृता॑सस्तु॒रासः॑ ॥

    देवो भगः सविता रायो अंश इन्द्रो वृत्रस्य संजितो धनानाम् |
    ऋभुक्षा वाज उत वा पुरन्धिर् अवन्तु नो अमृतासस् तुरासः ||

    devó bhágaḥ savitā́ rāyó áṃśa índro vṛtrásya saṃjíto dhánānām ǀ
    ṛbhukṣā́ vā́ja utá vā púraṃdhirávantu no amṛ́tāsasturā́saḥ ǁ

    devo bhagaḥ savitā rāyo aṃśa indro vṛtrasya saṃjito dhanānām |
    ṛbhukṣā vāja uta vā purandhir avantu no amṛtāsas turāsaḥ ||

    दे॒वः । भगः॑ । स॒वि॒ता । रा॒यः । अंशः॑ । इन्द्रः॑ । वृ॒त्रस्य॑ । स॒म्ऽजितः॑ । धना॑नाम् ।
    ऋ॒भु॒क्षाः । वाजः॑ । उ॒त । वा॒ । पुर॑म्ऽधिः । अव॑न्तु । नः॒ । अ॒मृता॑सः । तु॒रासः॑ ॥

    देवः । भगः । सविता । रायः । अंशः । इन्द्रः । वृत्रस्य । सम्ऽजितः । धनानाम् ।
    ऋभुक्षाः । वाजः । उत । वा । पुरम्ऽधिः । अवन्तु । नः । अमृतासः । तुरासः ॥

    deváḥ ǀ bhágaḥ ǀ savitā́ ǀ rāyáḥ ǀ áṃśaḥ ǀ índraḥ ǀ vṛtrásya ǀ sam-jítaḥ ǀ dhánānām ǀ
    ṛbhukṣā́ḥ ǀ vā́jaḥ ǀ utá ǀ vā ǀ púram-dhiḥ ǀ ávantu ǀ naḥ ǀ amṛ́tāsaḥ ǀ turā́saḥ ǁ

    devaḥ ǀ bhagaḥ ǀ savitā ǀ rāyaḥ ǀ aṃśaḥ ǀ indraḥ ǀ vṛtrasya ǀ sam-jitaḥ ǀ dhanānām ǀ
    ṛbhukṣāḥ ǀ vājaḥ ǀ uta ǀ vā ǀ puram-dhiḥ ǀ avantu ǀ naḥ ǀ amṛtāsaḥ ǀ turāsaḥ ǁ

    5.42.5 Aṣṭaka 4.2.17.5Anuvāka 5.3.82

  6. Ṛk 6

    म॒रुत्व॑तो॒ अप्र॑तीतस्य जि॒ष्णोरजू॑र्यतः॒ प्र ब्र॑वामा कृ॒तानि॑ ।
    न ते॒ पूर्वे॑ मघव॒न्नाप॑रासो॒ न वी॒र्यं१॒॑ नूत॑नः॒ कश्च॒नाप॑ ॥

    मरुत्वतो अप्रतीतस्य जिष्णोर् अजूर्यतः प्र ब्रवामा कृतानि |
    न ते पूर्वे मघवन् नापरासो न वीर्यं नूतनः कश् चनाप ||

    marútvato ápratītasya jiṣṇórájūryataḥ prá bravāmā kṛtā́ni ǀ
    ná te pū́rve maghavannā́parāso ná vīryám nū́tanaḥ káścanā́pa ǁ

    marutvato apratītasya jiṣṇor ajūryataḥ pra bravāmā kṛtāni |
    na te pūrve maghavan nāparāso na vīryaṃ nūtanaḥ kaś canāpa ||

    म॒रुत्व॑तः । अप्र॑तिऽइतस्य । जि॒ष्णोः । अजू॑र्यतः । प्र । ब्र॒वा॒म॒ । कृ॒तानि॑ ।
    न । ते॒ । पूर्वे॑ । म॒घ॒ऽव॒न् । न । अप॑रासः । न । वी॒र्य॑म् । नूत॑नः । कः । च॒न । आ॒प॒ ॥

    मरुत्वतः । अप्रतिऽइतस्य । जिष्णोः । अजूर्यतः । प्र । ब्रवाम । कृतानि ।
    न । ते । पूर्वे । मघऽवन् । न । अपरासः । न । वीर्यम् । नूतनः । कः । चन । आप ॥

    marútvataḥ ǀ áprati-itasya ǀ jiṣṇóḥ ǀ ájūryataḥ ǀ prá ǀ bravāma ǀ kṛtā́ni ǀ
    ná ǀ te ǀ pū́rve ǀ magha-van ǀ ná ǀ áparāsaḥ ǀ ná ǀ vīryám ǀ nū́tanaḥ ǀ káḥ ǀ caná ǀ āpa ǁ

    marutvataḥ ǀ aprati-itasya ǀ jiṣṇoḥ ǀ ajūryataḥ ǀ pra ǀ bravāma ǀ kṛtāni ǀ
    na ǀ te ǀ pūrve ǀ magha-van ǀ na ǀ aparāsaḥ ǀ na ǀ vīryam ǀ nūtanaḥ ǀ kaḥ ǀ cana ǀ āpa ǁ

    5.42.6 Aṣṭaka 4.2.18.1Anuvāka 5.3.83

  7. Ṛk 7

    उप॑ स्तुहि प्रथ॒मं र॑त्न॒धेयं॒ बृह॒स्पतिं॑ सनि॒तारं॒ धना॑नां ।
    यः शंस॑ते स्तुव॒ते शंभ॑विष्ठः पुरू॒वसु॑रा॒गम॒ज्जोहु॑वानं ॥

    उप स्तुहि प्रथमं रत्नधेयम् बृहस्पतिं सनितारं धनानाम् |
    यः शंसते स्तुवते शम्भविष्ठः पुरूवसुर् आगमज् जोहुवानम् ||

    úpa stuhi prathamám ratnadhéyam bṛ́haspátim sanitā́ram dhánānām ǀ
    yáḥ śáṃsate stuvaté śámbhaviṣṭhaḥ purūvásurāgámajjóhuvānam ǁ

    upa stuhi prathamaṃ ratnadheyam bṛhaspatiṃ sanitāraṃ dhanānām |
    yaḥ śaṃsate stuvate śambhaviṣṭhaḥ purūvasur āgamaj johuvānam ||

    उप॑ । स्तु॒हि॒ । प्र॒थ॒मम् । र॒त्न॒ऽधेय॑म् । बृह॒स्पति॑म् । स॒नि॒तार॑म् । धना॑नाम् ।
    यः । शंस॑ते । स्तु॒व॒ते । शम्ऽभ॑विष्ठः । पु॒रु॒ऽवसुः॑ । आ॒ऽगम॑त् । जोहु॑वानम् ॥

    उप । स्तुहि । प्रथमम् । रत्नऽधेयम् । बृहस्पतिम् । सनितारम् । धनानाम् ।
    यः । शंसते । स्तुवते । शम्ऽभविष्ठः । पुरुऽवसुः । आऽगमत् । जोहुवानम् ॥

    úpa ǀ stuhi ǀ prathamám ǀ ratna-dhéyam ǀ bṛ́haspátim ǀ sanitā́ram ǀ dhánānām ǀ
    yáḥ ǀ śáṃsate ǀ stuvaté ǀ śám-bhaviṣṭhaḥ ǀ puru-vásuḥ ǀ ā-gámat ǀ jóhuvānam ǁ

    upa ǀ stuhi ǀ prathamam ǀ ratna-dheyam ǀ bṛhaspatim ǀ sanitāram ǀ dhanānām ǀ
    yaḥ ǀ śaṃsate ǀ stuvate ǀ śam-bhaviṣṭhaḥ ǀ puru-vasuḥ ǀ ā-gamat ǀ johuvānam ǁ

    5.42.7 Aṣṭaka 4.2.18.2Anuvāka 5.3.84

  8. Ṛk 8

    तवो॒तिभिः॒ सच॑माना॒ अरि॑ष्टा॒ बृह॑स्पते म॒घवा॑नः सु॒वीराः॑ ।
    ये अ॑श्व॒दा उ॒त वा॒ संति॑ गो॒दा ये व॑स्त्र॒दाः सु॒भगा॒स्तेषु॒ रायः॑ ॥

    तवोतिभिः सचमाना अरिष्टा बृहस्पते मघवानः सुवीराः |
    ये अश्वदा उत वा सन्ति गोदा ये वस्त्रदाः सुभगास् तेषु रायः ||

    távotíbhiḥ sácamānā áriṣṭā bṛ́haspate maghávānaḥ suvī́rāḥ ǀ
    yé aśvadā́ utá vā sánti godā́ yé vastradā́ḥ subhágāstéṣu rā́yaḥ ǁ

    tavotibhiḥ sacamānā ariṣṭā bṛhaspate maghavānaḥ suvīrāḥ |
    ye aśvadā uta vā santi godā ye vastradāḥ subhagās teṣu rāyaḥ ||

    तव॑ । ऊ॒तिऽभिः॑ । सच॑मानाः । अरि॑ष्टाः । बृह॑स्पते । म॒घऽवा॑नः । सु॒ऽवीराः॑ ।
    ये । अ॒श्व॒ऽदाः । उ॒त । वा॒ । सन्ति॑ । गो॒ऽदाः । ये । व॒स्त्र॒ऽदाः । सु॒ऽभगाः॑ । तेषु॑ । रायः॑ ॥

    तव । ऊतिऽभिः । सचमानाः । अरिष्टाः । बृहस्पते । मघऽवानः । सुऽवीराः ।
    ये । अश्वऽदाः । उत । वा । सन्ति । गोऽदाः । ये । वस्त्रऽदाः । सुऽभगाः । तेषु । रायः ॥

    táva ǀ ūtí-bhiḥ ǀ sácamānāḥ ǀ áriṣṭāḥ ǀ bṛ́haspate ǀ maghá-vānaḥ ǀ su-vī́rāḥ ǀ
    yé ǀ aśva-dā́ḥ ǀ utá ǀ vā ǀ sánti ǀ go-dā́ḥ ǀ yé ǀ vastra-dā́ḥ ǀ su-bhágāḥ ǀ téṣu ǀ rā́yaḥ ǁ

    tava ǀ ūti-bhiḥ ǀ sacamānāḥ ǀ ariṣṭāḥ ǀ bṛhaspate ǀ magha-vānaḥ ǀ su-vīrāḥ ǀ
    ye ǀ aśva-dāḥ ǀ uta ǀ vā ǀ santi ǀ go-dāḥ ǀ ye ǀ vastra-dāḥ ǀ su-bhagāḥ ǀ teṣu ǀ rāyaḥ ǁ

    5.42.8 Aṣṭaka 4.2.18.3Anuvāka 5.3.85

  9. Ṛk 9

    वि॒स॒र्माणं॑ कृणुहि वि॒त्तमे॑षां॒ ये भुं॒जते॒ अपृ॑णंतो न उ॒क्थैः ।
    अप॑व्रतान्प्रस॒वे वा॑वृधा॒नान्ब्र॑ह्म॒द्विषः॒ सूर्या॑द्यावयस्व ॥

    विसर्माणं कृणुहि वित्तम् एषां ये भुञ्जते अपृणन्तो न उक्थैः |
    अपव्रतान् प्रसवे वावृधानान् ब्रह्मद्विषः सूर्याद् यावयस्व ||

    visarmā́ṇam kṛṇuhi vittámeṣām yé bhuñjáte ápṛṇanto na uktháiḥ ǀ
    ápavratānprasavé vāvṛdhānā́nbrahmadvíṣaḥ sū́ryādyāvayasva ǁ

    visarmāṇaṃ kṛṇuhi vittam eṣāṃ ye bhuñjate apṛṇanto na ukthaiḥ |
    apavratān prasave vāvṛdhānān brahmadviṣaḥ sūryād yāvayasva ||

    वि॒ऽस॒र्माण॑म् । कृ॒णु॒हि॒ । वि॒त्तम् । ए॒षा॒म् । ये । भु॒ञ्जते॑ । अपृ॑णन्तः । नः॒ । उ॒क्थैः ।
    अप॑ऽव्रतान् । प्र॒ऽस॒वे । व॒वृ॒धा॒नान् । ब्र॒ह्म॒ऽद्विषः॑ । सूर्या॑त् । य॒व॒य॒स्व॒ ॥

    विऽसर्माणम् । कृणुहि । वित्तम् । एषाम् । ये । भुञ्जते । अपृणन्तः । नः । उक्थैः ।
    अपऽव्रतान् । प्रऽसवे । ववृधानान् । ब्रह्मऽद्विषः । सूर्यात् । यवयस्व ॥

    vi-sarmā́ṇam ǀ kṛṇuhi ǀ vittám ǀ eṣām ǀ yé ǀ bhuñjáte ǀ ápṛṇantaḥ ǀ naḥ ǀ uktháiḥ ǀ
    ápa-vratān ǀ pra-savé ǀ vavṛdhānā́n ǀ brahma-dvíṣaḥ ǀ sū́ryāt ǀ yavayasva ǁ

    vi-sarmāṇam ǀ kṛṇuhi ǀ vittam ǀ eṣām ǀ ye ǀ bhuñjate ǀ apṛṇantaḥ ǀ naḥ ǀ ukthaiḥ ǀ
    apa-vratān ǀ pra-save ǀ vavṛdhānān ǀ brahma-dviṣaḥ ǀ sūryāt ǀ yavayasva ǁ

    5.42.9 Aṣṭaka 4.2.18.4Anuvāka 5.3.86

  10. Ṛk 10

    य ओह॑ते र॒क्षसो॑ दे॒ववी॑तावच॒क्रेभि॒स्तं म॑रुतो॒ नि या॑त ।
    यो वः॒ शमीं॑ शशमा॒नस्य॒ निंदा॑त्तु॒च्छ्यान्कामा॑न्करते सिष्विदा॒नः ॥

    य ओहते रक्षसो देववीताव् अचक्रेभिस् तम् मरुतो नि यात |
    यो वः शमीं शशमानस्य निन्दात् तुच्छ्यान् कामान् करते सिष्विदानः ||

    yá óhate rakṣáso devávītāvacakrébhistám maruto ní yāta ǀ
    yó vaḥ śámīm śaśamānásya níndāttucchyā́nkā́mānkarate siṣvidānáḥ ǁ

    ya ohate rakṣaso devavītāv acakrebhis tam maruto ni yāta |
    yo vaḥ śamīṃ śaśamānasya nindāt tucchyān kāmān karate siṣvidānaḥ ||

    यः । ओह॑ते । र॒क्षसः॑ । दे॒वऽवी॑तौ । अ॒च॒क्रेभिः॑ । तम् । म॒रु॒तः॒ । नि । या॒त॒ ।
    यः । वः॒ । शमी॑म् । श॒श॒मा॒नस्य॑ । निन्दा॑त् । तु॒च्छ्यान् । कामा॑न् । क॒र॒ते॒ । सि॒स्वि॒दा॒नः ॥

    यः । ओहते । रक्षसः । देवऽवीतौ । अचक्रेभिः । तम् । मरुतः । नि । यात ।
    यः । वः । शमीम् । शशमानस्य । निन्दात् । तुच्छ्यान् । कामान् । करते । सिस्विदानः ॥

    yáḥ ǀ óhate ǀ rakṣásaḥ ǀ devá-vītau ǀ acakrébhiḥ ǀ tám ǀ marutaḥ ǀ ní ǀ yāta ǀ
    yáḥ ǀ vaḥ ǀ śámīm ǀ śaśamānásya ǀ níndāt ǀ tucchyā́n ǀ kā́mān ǀ karate ǀ sisvidānáḥ ǁ

    yaḥ ǀ ohate ǀ rakṣasaḥ ǀ deva-vītau ǀ acakrebhiḥ ǀ tam ǀ marutaḥ ǀ ni ǀ yāta ǀ
    yaḥ ǀ vaḥ ǀ śamīm ǀ śaśamānasya ǀ nindāt ǀ tucchyān ǀ kāmān ǀ karate ǀ sisvidānaḥ ǁ

    5.42.10 Aṣṭaka 4.2.18.5Anuvāka 5.3.87

  11. Ṛk 11

    तमु॑ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ ।
    यक्ष्वा॑ म॒हे सौ॑मन॒साय॑ रु॒द्रं नमो॑भिर्दे॒वमसु॑रं दुवस्य ॥

    तम् उ ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य |
    यक्ष्वा महे सौमनसाय रुद्रं नमोभिर् देवम् असुरं दुवस्य ||

    támu ṣṭuhi yáḥ sviṣúḥ sudhánvā yó víśvasya kṣáyati bheṣajásya ǀ
    yákṣvā mahé saumanasā́ya rudrám námobhirdevámásuram duvasya ǁ

    tam u ṣṭuhi yaḥ sviṣuḥ sudhanvā yo viśvasya kṣayati bheṣajasya |
    yakṣvā mahe saumanasāya rudraṃ namobhir devam asuraṃ duvasya ||

    तम् । ऊं॒ इति॑ । स्तु॒हि॒ । यः । सु॒ऽइ॒षुः । सु॒ऽधन्वा॑ । यः । विश्व॑स्य । क्षय॑ति । भे॒ष॒जस्य॑ ।
    यक्ष्व॑ । म॒हे । सौ॒म॒न॒साय॑ । रु॒द्रम् । नमः॑ऽभिः । दे॒वम् । असु॑रम् । दु॒व॒स्य॒ ॥

    तम् । ऊं इति । स्तुहि । यः । सुऽइषुः । सुऽधन्वा । यः । विश्वस्य । क्षयति । भेषजस्य ।
    यक्ष्व । महे । सौमनसाय । रुद्रम् । नमःऽभिः । देवम् । असुरम् । दुवस्य ॥

    tám ǀ ūṃ íti ǀ stuhi ǀ yáḥ ǀ su-iṣúḥ ǀ su-dhánvā ǀ yáḥ ǀ víśvasya ǀ kṣáyati ǀ bheṣajásya ǀ
    yákṣva ǀ mahé ǀ saumanasā́ya ǀ rudrám ǀ námaḥ-bhiḥ ǀ devám ǀ ásuram ǀ duvasya ǁ

    tam ǀ ūṃ iti ǀ stuhi ǀ yaḥ ǀ su-iṣuḥ ǀ su-dhanvā ǀ yaḥ ǀ viśvasya ǀ kṣayati ǀ bheṣajasya ǀ
    yakṣva ǀ mahe ǀ saumanasāya ǀ rudram ǀ namaḥ-bhiḥ ǀ devam ǀ asuram ǀ duvasya ǁ

    5.42.11 Aṣṭaka 4.2.19.1Anuvāka 5.3.88

  12. Ṛk 12

    दमू॑नसो अ॒पसो॒ ये सु॒हस्ता॒ वृष्णः॒ पत्नी॑र्न॒द्यो॑ विभ्वत॒ष्टाः ।
    सर॑स्वती बृहद्दि॒वोत रा॒का द॑श॒स्यंती॑र्वरिवस्यंतु शु॒भ्राः ॥

    दमूनसो अपसो ये सुहस्ता वृष्णः पत्नीर् नद्यो विभ्वतष्टाः |
    सरस्वती बृहद्दिवोत राका दशस्यन्तीर् वरिवस्यन्तु शुभ्राः ||

    dámūnaso apáso yé suhástā vṛ́ṣṇaḥ pátnīrnadyó vibhvataṣṭā́ḥ ǀ
    sárasvatī bṛhaddivótá rākā́ daśasyántīrvarivasyantu śubhrā́ḥ ǁ

    damūnaso apaso ye suhastā vṛṣṇaḥ patnīr nadyo vibhvataṣṭāḥ |
    sarasvatī bṛhaddivota rākā daśasyantīr varivasyantu śubhrāḥ ||

    दमू॑नसः । अ॒पसः॑ । ये । सु॒ऽहस्ताः॑ । वृष्णः॑ । पत्नीः॑ । न॒द्यः॑ । वि॒भ्व॒ऽत॒ष्टाः ।
    सर॑स्वती । बृ॒ह॒त्ऽदि॒वा । उ॒त । रा॒का । द॒श॒स्यन्तीः॑ । व॒रि॒व॒स्य॒न्तु॒ । शु॒भ्राः ॥

    दमूनसः । अपसः । ये । सुऽहस्ताः । वृष्णः । पत्नीः । नद्यः । विभ्वऽतष्टाः ।
    सरस्वती । बृहत्ऽदिवा । उत । राका । दशस्यन्तीः । वरिवस्यन्तु । शुभ्राः ॥

    dámūnasaḥ ǀ apásaḥ ǀ yé ǀ su-hástāḥ ǀ vṛ́ṣṇaḥ ǀ pátnīḥ ǀ nadyáḥ ǀ vibhva-taṣṭā́ḥ ǀ
    sárasvatī ǀ bṛhat-divā́ ǀ utá ǀ rākā́ ǀ daśasyántīḥ ǀ varivasyantu ǀ śubhrā́ḥ ǁ

    damūnasaḥ ǀ apasaḥ ǀ ye ǀ su-hastāḥ ǀ vṛṣṇaḥ ǀ patnīḥ ǀ nadyaḥ ǀ vibhva-taṣṭāḥ ǀ
    sarasvatī ǀ bṛhat-divā ǀ uta ǀ rākā ǀ daśasyantīḥ ǀ varivasyantu ǀ śubhrāḥ ǁ

    5.42.12 Aṣṭaka 4.2.19.2Anuvāka 5.3.89

  13. Ṛk 13

    प्र सू म॒हे सु॑शर॒णाय॑ मे॒धां गिरं॑ भरे॒ नव्य॑सीं॒ जाय॑मानां ।
    य आ॑ह॒ना दु॑हि॒तुर्व॒क्षणा॑सु रू॒पा मि॑ना॒नो अकृ॑णोदि॒दं नः॑ ॥

    प्र सू महे सुशरणाय मेधां गिरम् भरे नव्यसीं जायमानाम् |
    य आहना दुहितुर् वक्षणासु रूपा मिनानो अकृणोद् इदं नः ||

    prá sū́ mahé suśaraṇā́ya medhā́m gíram bhare návyasīm jā́yamānām ǀ
    yá āhanā́ duhitúrvakṣáṇāsu rūpā́ minānó ákṛṇodidám naḥ ǁ

    pra sū mahe suśaraṇāya medhāṃ giram bhare navyasīṃ jāyamānām |
    ya āhanā duhitur vakṣaṇāsu rūpā mināno akṛṇod idaṃ naḥ ||

    प्र । सु । म॒हे । सु॒ऽश॒र॒णाय॑ । मे॒धाम् । गिर॑म् । भ॒रे॒ । नव्य॑सीम् । जाय॑मानाम् ।
    यः । आ॒ह॒नाः । दु॒हि॒तुः । व॒क्षणा॑सु । रू॒पा । मि॒ना॒नः । अकृ॑णोत् । इ॒दम् । नः॒ ॥

    प्र । सु । महे । सुऽशरणाय । मेधाम् । गिरम् । भरे । नव्यसीम् । जायमानाम् ।
    यः । आहनाः । दुहितुः । वक्षणासु । रूपा । मिनानः । अकृणोत् । इदम् । नः ॥

    prá ǀ sú ǀ mahé ǀ su-śaraṇā́ya ǀ medhā́m ǀ gíram ǀ bhare ǀ návyasīm ǀ jā́yamānām ǀ
    yáḥ ǀ āhanā́ḥ ǀ duhitúḥ ǀ vakṣáṇāsu ǀ rūpā́ ǀ minānáḥ ǀ ákṛṇot ǀ idám ǀ naḥ ǁ

    pra ǀ su ǀ mahe ǀ su-śaraṇāya ǀ medhām ǀ giram ǀ bhare ǀ navyasīm ǀ jāyamānām ǀ
    yaḥ ǀ āhanāḥ ǀ duhituḥ ǀ vakṣaṇāsu ǀ rūpā ǀ minānaḥ ǀ akṛṇot ǀ idam ǀ naḥ ǁ

    5.42.13 Aṣṭaka 4.2.19.3Anuvāka 5.3.90

  14. Ṛk 14

    प्र सु॑ष्टु॒तिः स्त॒नयं॑तं रु॒वंत॑मि॒ळस्पतिं॑ जरितर्नू॒नम॑श्याः ।
    यो अ॑ब्दि॒माँ उ॑दनि॒माँ इय॑र्ति॒ प्र वि॒द्युता॒ रोद॑सी उ॒क्षमा॑णः ॥

    प्र सुष्टुति स्तनयन्तं रुवन्तम् इऌअस् पतिं जरितर् नूनम् अश्याः |
    यो अब्दिमां उदनिमां इयर्ति प्र विद्युता रोदसी उक्षमाणः ||

    prá suṣṭutíḥ stanáyantam ruvántamiḷáspátim jaritarnūnámaśyāḥ ǀ
    yó abdimā́m̐ udanimā́m̐ íyarti prá vidyútā ródasī ukṣámāṇaḥ ǁ

    pra suṣṭuti stanayantaṃ ruvantam iḷas patiṃ jaritar nūnam aśyāḥ |
    yo abdimāṃ udanimāṃ iyarti pra vidyutā rodasī ukṣamāṇaḥ ||

    प्र । सु॒ऽस्तु॒तिः । स्त॒नय॑न्तम् । रु॒वन्त॑म् । इ॒ळः । पति॑म् । ज॒रि॒तः॒ । नू॒नम् । अ॒श्याः॒ ।
    यः । अ॒ब्दि॒ऽमान् । उ॒द॒नि॒ऽमान् । इय॑र्ति । प्र । वि॒ऽद्युता॑ । रोद॑सी॒ इति॑ । उ॒क्षमा॑णः ॥

    प्र । सुऽस्तुतिः । स्तनयन्तम् । रुवन्तम् । इळः । पतिम् । जरितः । नूनम् । अश्याः ।
    यः । अब्दिऽमान् । उदनिऽमान् । इयर्ति । प्र । विऽद्युता । रोदसी इति । उक्षमाणः ॥

    prá ǀ su-stutíḥ ǀ stanáyantam ǀ ruvántam ǀ iḷáḥ ǀ pátim ǀ jaritaḥ ǀ nūnám ǀ aśyāḥ ǀ
    yáḥ ǀ abdi-mā́n ǀ udani-mā́n ǀ íyarti ǀ prá ǀ vi-dyútā ǀ ródasī íti ǀ ukṣámāṇaḥ ǁ

    pra ǀ su-stutiḥ ǀ stanayantam ǀ ruvantam ǀ iḷaḥ ǀ patim ǀ jaritaḥ ǀ nūnam ǀ aśyāḥ ǀ
    yaḥ ǀ abdi-mān ǀ udani-mān ǀ iyarti ǀ pra ǀ vi-dyutā ǀ rodasī iti ǀ ukṣamāṇaḥ ǁ

    5.42.14 Aṣṭaka 4.2.19.4Anuvāka 5.3.91

  15. Ṛk 15

    ए॒ष स्तोमो॒ मारु॑तं॒ शर्धो॒ अच्छा॑ रु॒द्रस्य॑ सू॒नूँर्यु॑व॒न्यूँरुद॑श्याः ।
    कामो॑ रा॒ये ह॑वते मा स्व॒स्त्युप॑ स्तुहि॒ पृष॑दश्वाँ अ॒यासः॑ ॥

    एष स्तोमो मारुतं शर्धो अच्छा रुद्रस्य सूनूंर् युवन्यूंर् उद् अश्याः |
    कामो राये हवते मा स्वस्त्य् उप स्तुहि पृषदश्वां अयासः ||

    eṣá stómo mā́rutam śárdho ácchā rudrásya sūnū́m̐ryuvanyū́m̐rúdaśyāḥ ǀ
    kā́mo rāyé havate mā svastyúpa stuhi pṛ́ṣadaśvām̐ ayā́saḥ ǁ

    eṣa stomo mārutaṃ śardho acchā rudrasya sūnūṃr yuvanyūṃr ud aśyāḥ |
    kāmo rāye havate mā svasty upa stuhi pṛṣadaśvāṃ ayāsaḥ ||

    ए॒षः । स्तोमः॑ । मारु॑तम् । शर्धः॑ । अच्छ॑ । रु॒द्रस्य॑ । सू॒नून् । यु॒व॒न्यून् । उत् । अ॒श्याः॒ ।
    कामः॑ । रा॒ये । ह॒व॒ते॒ । मा॒ । स्व॒स्ति । उप॑ । स्तु॒हि॒ । पृष॑त्ऽअश्वान् । अ॒यासः॑ ॥

    एषः । स्तोमः । मारुतम् । शर्धः । अच्छ । रुद्रस्य । सूनून् । युवन्यून् । उत् । अश्याः ।
    कामः । राये । हवते । मा । स्वस्ति । उप । स्तुहि । पृषत्ऽअश्वान् । अयासः ॥

    eṣáḥ ǀ stómaḥ ǀ mā́rutam ǀ śárdhaḥ ǀ áccha ǀ rudrásya ǀ sūnū́n ǀ yuvanyū́n ǀ út ǀ aśyāḥ ǀ
    kā́maḥ ǀ rāyé ǀ havate ǀ mā ǀ svastí ǀ úpa ǀ stuhi ǀ pṛ́ṣat-aśvān ǀ ayā́saḥ ǁ

    eṣaḥ ǀ stomaḥ ǀ mārutam ǀ śardhaḥ ǀ accha ǀ rudrasya ǀ sūnūn ǀ yuvanyūn ǀ ut ǀ aśyāḥ ǀ
    kāmaḥ ǀ rāye ǀ havate ǀ mā ǀ svasti ǀ upa ǀ stuhi ǀ pṛṣat-aśvān ǀ ayāsaḥ ǁ

    5.42.15 Aṣṭaka 4.2.19.5Anuvāka 5.3.92

  16. Ṛk 16

    प्रैष स्तोमः॑ पृथि॒वीमं॒तरि॑क्षं॒ वन॒स्पतीँ॒रोष॑धी रा॒ये अ॑श्याः ।
    दे॒वोदे॑वः सु॒हवो॑ भूतु॒ मह्यं॒ मा नो॑ मा॒ता पृ॑थि॒वी दु॑र्म॒तौ धा॑त् ॥

    प्रैष स्तोमः पृथिवीम् अन्तरिक्षं वनस्पतींर् ओषधी राये अश्याः |
    देवो-देवः सुहवो भूतु मह्यम् मा नो माता पृथिवी दुर्मतौ धात् ||

    práiṣá stómaḥ pṛthivī́mantárikṣam vánaspátīm̐róṣadhī rāyé aśyāḥ ǀ
    devódevaḥ suhávo bhūtu máhyam mā́ no mātā́ pṛthivī́ durmatáu dhāt ǁ

    praiṣa stomaḥ pṛthivīm antarikṣaṃ vanaspatīṃr oṣadhī rāye aśyāḥ |
    devo-devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt ||

    प्र । ए॒षः । स्तोमः॑ । पृ॒थि॒वीम् । अ॒न्तरि॑क्षम् । वन॒स्पती॑न् । ओष॑धीः । रा॒ये । अ॒श्याः॒ ।
    दे॒वःऽदे॑वः । सु॒ऽहवः॑ । भू॒तु॒ । मह्य॑म् । मा । नः॒ । मा॒ता । पृ॒थि॒वी । दुः॒ऽम॒तौ । धा॒त् ॥

    प्र । एषः । स्तोमः । पृथिवीम् । अन्तरिक्षम् । वनस्पतीन् । ओषधीः । राये । अश्याः ।
    देवःऽदेवः । सुऽहवः । भूतु । मह्यम् । मा । नः । माता । पृथिवी । दुःऽमतौ । धात् ॥

    prá ǀ eṣáḥ ǀ stómaḥ ǀ pṛthivī́m ǀ antárikṣam ǀ vánaspátīn ǀ óṣadhīḥ ǀ rāyé ǀ aśyāḥ ǀ
    deváḥ-devaḥ ǀ su-hávaḥ ǀ bhūtu ǀ máhyam ǀ mā́ ǀ naḥ ǀ mātā́ ǀ pṛthivī́ ǀ duḥ-matáu ǀ dhāt ǁ

    pra ǀ eṣaḥ ǀ stomaḥ ǀ pṛthivīm ǀ antarikṣam ǀ vanaspatīn ǀ oṣadhīḥ ǀ rāye ǀ aśyāḥ ǀ
    devaḥ-devaḥ ǀ su-havaḥ ǀ bhūtu ǀ mahyam ǀ mā ǀ naḥ ǀ mātā ǀ pṛthivī ǀ duḥ-matau ǀ dhāt ǁ

    5.42.16 Aṣṭaka 4.2.19.6Anuvāka 5.3.93

  17. Ṛk 17

    उ॒रौ दे॑वा अनिबा॒धे स्या॑म ॥

    उरौ देवा अनिबाधे स्याम ||

    uráu devā anibādhé syāma ǁ

    urau devā anibādhe syāma ||

    उ॒रौ । दे॒वाः॒ । अ॒नि॒ऽबा॒धे । स्या॒म॒ ॥

    उरौ । देवाः । अनिऽबाधे । स्याम ॥

    uráu ǀ devāḥ ǀ ani-bādhé ǀ syāma ǁ

    urau ǀ devāḥ ǀ ani-bādhe ǀ syāma ǁ

    5.42.17 Aṣṭaka 4.2.19.7Anuvāka 5.3.94

  18. Ṛk 18

    सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।
    आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥

    सम् अश्विनोर् अवसा नूतनेन मयोभुवा सुप्रणीती गमेम |
    आ नो रयिं वहतम् ओत वीरान् आ विश्वान्य् अमृता सौभगानि ||

    sámaśvínorávasā nū́tanena mayobhúvā supráṇītī gamema ǀ
    ā́ no rayím vahatamótá vīrā́nā́ víśvānyamṛtā sáubhagāni ǁ

    sam aśvinor avasā nūtanena mayobhuvā supraṇītī gamema |
    ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhagāni ||

    सम् । अ॒श्विनोः॑ । अव॑सा । नूत॑नेन । म॒यः॒ऽभुवा॑ । सु॒ऽप्रनी॑ती । ग॒मे॒म॒ ।
    आ । नः॒ । र॒यिम् । व॒ह॒त॒म् । आ । उ॒त । वी॒रान् । आ । विश्वा॑नि । अ॒मृ॒ता॒ । सौभ॑गानि ॥

    सम् । अश्विनोः । अवसा । नूतनेन । मयःऽभुवा । सुऽप्रनीती । गमेम ।
    आ । नः । रयिम् । वहतम् । आ । उत । वीरान् । आ । विश्वानि । अमृता । सौभगानि ॥

    sám ǀ aśvínoḥ ǀ ávasā ǀ nū́tanena ǀ mayaḥ-bhúvā ǀ su-pránītī ǀ gamema ǀ
    ā́ ǀ naḥ ǀ rayím ǀ vahatam ǀ ā́ ǀ utá ǀ vīrā́n ǀ ā́ ǀ víśvāni ǀ amṛtā ǀ sáubhagāni ǁ

    sam ǀ aśvinoḥ ǀ avasā ǀ nūtanena ǀ mayaḥ-bhuvā ǀ su-pranītī ǀ gamema ǀ
    ā ǀ naḥ ǀ rayim ǀ vahatam ǀ ā ǀ uta ǀ vīrān ǀ ā ǀ viśvāni ǀ amṛtā ǀ saubhagāni ǁ

    5.42.18 Aṣṭaka 4.2.19.8Anuvāka 5.3.95

Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 5.42 · Viśvedevās

Interpretations

Sri Aurobindo

Ṛk 1

Let the Word of my thought be full of the peace that it may embrace the godhead as Wideness and as the Harmonies and as the Enjoyment and as the Infinities of being. Yea, let the Master of all Might hear it who is the multicoloured birth of things, the sacrificer on the five planes, whose path none can cleave across, the creator of the Bliss.

Ṛk 2

Let the infinite Consciousness clutch my affirmation to her bosom, as the Mother her child attractive to her heart in the fullness of her bliss; the soul state of love and joy which has its foundation in the Divine that I gain in the godhead of wideness and the godhead of harmony, even that which creates the Bliss.

Ṛk 3

Make to rise up in you that highest Seer of all seers, send over him in a surge the sweetness and the clarity; he is the godhead creative who brings forth into being for us the delightful treasures of our substance and they are brought forward by his working and are firmly established.

Ṛk 4

And thou, O divine Mind, by the mind lead us and by the radiances and by the illumined gods in us to that blissful state and by the soul that is founded in the divine and by the right mind of the godheads that preside in our sacrifice.

Ṛk 5

The divine who enjoys in us and is the creator of bliss and the master of nectar and the divine Mind that conquers all the wealth which the Coverer keeps from us and the Shaper in Knowledge and the Artisan of plenty and the many-thoughted Inhabitant, let all these foster us, immortals who break through for us to our goal.