Ṛk 5.42.2
Saṃhitā
प्रति॑ मे॒ स्तोम॒मदि॑तिर्जगृभ्यात्सू॒नुं न मा॒ता हृद्यं॑ सु॒शेवं॑ ।
ब्रह्म॑ प्रि॒यं दे॒वहि॑तं॒ यदस्त्य॒हं मि॒त्रे वरु॑णे॒ यन्म॑यो॒भु ॥
प्रति मे स्तोमम् अदितिर् जगृभ्यात् सूनुं न माता हृद्यं सुशेवम् |
ब्रह्म प्रियं देवहितं यद् अस्त्य् अहम् मित्रे वरुणे यन् मयोभु ||
práti me stómamáditirjagṛbhyātsūnúm ná mātā́ hṛ́dyam suśévam ǀ
bráhma priyám deváhitam yádástyahám mitré váruṇe yánmayobhú ǁ
prati me stomam aditir jagṛbhyāt sūnuṃ na mātā hṛdyaṃ suśevam |
brahma priyaṃ devahitaṃ yad asty aham mitre varuṇe yan mayobhu ||
Padapāṭha
प्रति॑ । मे॒ । स्तोम॑म् । अदि॑तिः । ज॒गृ॒भ्या॒त् । सू॒नुम् । न । मा॒ता । हृद्य॑म् । सु॒ऽशेव॑म् ।
ब्रह्म॑ । प्रि॒यम् । दे॒वऽहि॑तम् । यत् । अस्ति॑ । अ॒हम् । मि॒त्रे । वरु॑णे । यत् । म॒यः॒ऽभुः ॥
प्रति । मे । स्तोमम् । अदितिः । जगृभ्यात् । सूनुम् । न । माता । हृद्यम् । सुऽशेवम् ।
ब्रह्म । प्रियम् । देवऽहितम् । यत् । अस्ति । अहम् । मित्रे । वरुणे । यत् । मयःऽभुः ॥
práti ǀ me ǀ stómam ǀ áditiḥ ǀ jagṛbhyāt ǀ sūnúm ǀ ná ǀ mātā́ ǀ hṛ́dyam ǀ su-śévam ǀ
bráhma ǀ priyám ǀ devá-hitam ǀ yát ǀ ásti ǀ ahám ǀ mitré ǀ váruṇe ǀ yát ǀ mayaḥ-bhúḥ ǁ
prati ǀ me ǀ stomam ǀ aditiḥ ǀ jagṛbhyāt ǀ sūnum ǀ na ǀ mātā ǀ hṛdyam ǀ su-śevam ǀ
brahma ǀ priyam ǀ deva-hitam ǀ yat ǀ asti ǀ aham ǀ mitre ǀ varuṇe ǀ yat ǀ mayaḥ-bhuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.042.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.2.17.02
- Maṇḍala · Anuvāka · Ṛk
- 05.03.079
- Devatā देवता
- Viśvedevās
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Triṣṭubh, Ekapadā Virāj
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.