Sūkta 22
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Viśvasāman Ātreya
- Chandas छन्दस्
- Anuṣṭubh, Paṅkti
Metres by ṛk
1st set of styles svarāḍuṣnik (2, 3); virāḍanuṣṭup (1); bṛhatī (4)
2nd set of styles anuṣṭubh (1-3); paṅkti (4)
-
Ṛk 1
प्र वि॑श्वसामन्नत्रि॒वदर्चा॑ पाव॒कशो॑चिषे ।
यो अ॑ध्व॒रेष्वीड्यो॒ होता॑ मं॒द्रत॑मो वि॒शि ॥प्र विश्वसामन्न् अत्रिवद् अर्चा पावकशोचिषे |
यो अध्वरेष्व् ईड्यो होता मन्द्रतमो विशि ||prá viśvasāmannatrivádárcā pāvakáśociṣe ǀ
yó adhvaréṣvī́ḍyo hótā mandrátamo viśí ǁpra viśvasāmann atrivad arcā pāvakaśociṣe |
yo adhvareṣv īḍyo hotā mandratamo viśi ||प्र । वि॒श्व॒ऽसा॒म॒न् । अ॒त्रि॒ऽवत् । अर्च॑ । पा॒व॒कऽशो॑चिषे ।
यः । अ॒ध्व॒रेषु॑ । ईड्यः॑ । होता॑ । म॒न्द्रऽत॑मः । वि॒शि ॥प्र । विश्वऽसामन् । अत्रिऽवत् । अर्च । पावकऽशोचिषे ।
यः । अध्वरेषु । ईड्यः । होता । मन्द्रऽतमः । विशि ॥prá ǀ viśva-sāman ǀ atri-vát ǀ árca ǀ pāvaká-śociṣe ǀ
yáḥ ǀ adhvaréṣu ǀ ī́ḍyaḥ ǀ hótā ǀ mandrá-tamaḥ ǀ viśí ǁpra ǀ viśva-sāman ǀ atri-vat ǀ arca ǀ pāvaka-śociṣe ǀ
yaḥ ǀ adhvareṣu ǀ īḍyaḥ ǀ hotā ǀ mandra-tamaḥ ǀ viśi ǁ5.22.1 Aṣṭaka 4.1.14.1Anuvāka 5.2.34
-
Ṛk 2
न्य१॒॑ग्निं जा॒तवे॑दसं॒ दधा॑ता दे॒वमृ॒त्विजं॑ ।
प्र य॒ज्ञ ए॑त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः ॥न्य् अग्निं जातवेदसं दधाता देवम् ऋत्विजम् |
प्र यज्ञ एत्व् आनुषग् अद्या देवव्यचस्तमः ||nyágním jātávedasam dádhātā devámṛtvíjam ǀ
prá yajñá etvānuṣágadyā́ devávyacastamaḥ ǁny agniṃ jātavedasaṃ dadhātā devam ṛtvijam |
pra yajña etv ānuṣag adyā devavyacastamaḥ ||नि । अ॒ग्निम् । जा॒तऽवे॑दसम् । दधा॑त । दे॒वम् । ऋ॒त्विज॑म् ।
प्र । य॒ज्ञः । ए॒तु॒ । आ॒नु॒षक् । अ॒द्य । दे॒वव्य॑चःऽतमः ॥नि । अग्निम् । जातऽवेदसम् । दधात । देवम् । ऋत्विजम् ।
प्र । यज्ञः । एतु । आनुषक् । अद्य । देवव्यचःऽतमः ॥ní ǀ agním ǀ jātá-vedasam ǀ dádhāta ǀ devám ǀ ṛtvíjam ǀ
prá ǀ yajñáḥ ǀ etu ǀ ānuṣák ǀ adyá ǀ devávyacaḥ-tamaḥ ǁni ǀ agnim ǀ jāta-vedasam ǀ dadhāta ǀ devam ǀ ṛtvijam ǀ
pra ǀ yajñaḥ ǀ etu ǀ ānuṣak ǀ adya ǀ devavyacaḥ-tamaḥ ǁ5.22.2 Aṣṭaka 4.1.14.2Anuvāka 5.2.35
-
Ṛk 3
चि॒कि॒त्विन्म॑नसं त्वा दे॒वं मर्ता॑स ऊ॒तये॑ ।
वरे॑ण्यस्य॒ तेऽव॑स इया॒नासो॑ अमन्महि ॥चिकित्विन्मनसं त्वा देवम् मर्तास ऊतये |
वरेण्यस्य ते ऽवस इयानासो अमन्महि ||cikitvínmanasam tvā devám mártāsa ūtáye ǀ
váreṇyasya té’vasa iyānā́so amanmahi ǁcikitvinmanasaṃ tvā devam martāsa ūtaye |
vareṇyasya te 'vasa iyānāso amanmahi ||चि॒कि॒त्वित्ऽम॑नसम् । त्वा॒ । दे॒वम् । मर्ता॑सः । ऊ॒तये॑ ।
वरे॑ण्यस्य । ते॒ । अव॑सः । इ॒या॒नासः॑ । अ॒म॒न्म॒हि॒ ॥चिकित्वित्ऽमनसम् । त्वा । देवम् । मर्तासः । ऊतये ।
वरेण्यस्य । ते । अवसः । इयानासः । अमन्महि ॥cikitvít-manasam ǀ tvā ǀ devám ǀ mártāsaḥ ǀ ūtáye ǀ
váreṇyasya ǀ te ǀ ávasaḥ ǀ iyānā́saḥ ǀ amanmahi ǁcikitvit-manasam ǀ tvā ǀ devam ǀ martāsaḥ ǀ ūtaye ǀ
vareṇyasya ǀ te ǀ avasaḥ ǀ iyānāsaḥ ǀ amanmahi ǁ5.22.3 Aṣṭaka 4.1.14.3Anuvāka 5.2.36
-
Ṛk 4
अग्ने॑ चिकि॒द्ध्य१॒॑स्य न॑ इ॒दं वचः॑ सहस्य ।
तं त्वा॑ सुशिप्र दंपते॒ स्तोमै॑र्वर्धं॒त्यत्र॑यो गी॒र्भिः शुं॑भं॒त्यत्र॑यः ॥अग्ने चिकिद्ध्य् अस्य न इदं वचः सहस्य |
तं त्वा सुशिप्र दम्पते स्तोमैर् वर्धन्त्य् अत्रयो गीर्भिः शुम्भन्त्य् अत्रयः ||ágne cikiddhyásyá na idám vácaḥ sahasya ǀ
tám tvā suśipra dampate stómairvardhantyátrayo gīrbhíḥ śumbhantyátrayaḥ ǁagne cikiddhy asya na idaṃ vacaḥ sahasya |
taṃ tvā suśipra dampate stomair vardhanty atrayo gīrbhiḥ śumbhanty atrayaḥ ||अग्ने॑ । चि॒कि॒द्धि । अ॒स्य । नः॒ । इ॒दम् । वचः॑ । स॒ह॒स्य॒ ।
तम् । त्वा॒ । सु॒ऽशि॒प्र॒ । द॒म्ऽप॒ते॒ । स्तोमैः॑ । व॒र्ध॒न्ति॒ । अत्र॑यः । गीः॒ऽभिः । शु॒म्भ॒न्ति॒ । अत्र॑यः ॥अग्ने । चिकिद्धि । अस्य । नः । इदम् । वचः । सहस्य ।
तम् । त्वा । सुऽशिप्र । दम्ऽपते । स्तोमैः । वर्धन्ति । अत्रयः । गीःऽभिः । शुम्भन्ति । अत्रयः ॥ágne ǀ cikiddhí ǀ asyá ǀ naḥ ǀ idám ǀ vácaḥ ǀ sahasya ǀ
tám ǀ tvā ǀ su-śipra ǀ dam-pate ǀ stómaiḥ ǀ vardhanti ǀ átrayaḥ ǀ gīḥ-bhíḥ ǀ śumbhanti ǀ átrayaḥ ǁagne ǀ cikiddhi ǀ asya ǀ naḥ ǀ idam ǀ vacaḥ ǀ sahasya ǀ
tam ǀ tvā ǀ su-śipra ǀ dam-pate ǀ stomaiḥ ǀ vardhanti ǀ atrayaḥ ǀ gīḥ-bhiḥ ǀ śumbhanti ǀ atrayaḥ ǁ5.22.4 Aṣṭaka 4.1.14.4Anuvāka 5.2.37
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.