Sūkta 32
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gātu Ātreya
- Chandas छन्दस्
- Triṣṭubh
Metres by ṛk
1st set of styles nicṛttriṣṭup (2-4, 10, 12); triṣṭup (1, 7, 9, 11); svarāṭpaṅkti (5, 8); bhurikpaṅkti (6)
2nd set of styles triṣṭubh
-
Ṛk 1
अद॑र्द॒रुत्स॒मसृ॑जो॒ वि खानि॒ त्वम॑र्ण॒वान्ब॑द्बधा॒नाँ अ॑रम्णाः ।
म॒हांत॑मिंद्र॒ पर्व॑तं॒ वि यद्वः सृ॒जो वि धारा॒ अव॑ दान॒वं ह॑न् ॥अदर्दर् उत्सम् असृजो वि खानि त्वम् अर्णवान् बद्बधानां अरम्णाः |
महान्तम् इन्द्र पर्वतं वि यद् वः सृजो वि धारा अव दानवं हन् ||ádardarútsamásṛjo ví khā́ni tvámarṇavā́nbadbadhānā́m̐ aramṇāḥ ǀ
mahā́ntamindra párvatam ví yádváḥ sṛjó ví dhā́rā áva dānavám han ǁadardar utsam asṛjo vi khāni tvam arṇavān badbadhānāṃ aramṇāḥ |
mahāntam indra parvataṃ vi yad vaḥ sṛjo vi dhārā ava dānavaṃ han ||अद॑र्दः । उत्स॑म् । असृ॑जः । वि । खानि॑ । त्वम् । अ॒र्ण॒वान् । ब॒द्ब॒धा॒नान् । अ॒र॒म्णाः॒ ।
म॒हान्त॑म् । इ॒न्द्र॒ । पर्व॑तम् । वि । यत् । वरिति॒ वः । सृ॒जः । वि । धाराः॑ । अव॑ । दा॒न॒वम् । ह॒न्निति॑ हन् ॥अदर्दः । उत्सम् । असृजः । वि । खानि । त्वम् । अर्णवान् । बद्बधानान् । अरम्णाः ।
महान्तम् । इन्द्र । पर्वतम् । वि । यत् । वरिति वः । सृजः । वि । धाराः । अव । दानवम् । हन्निति हन् ॥ádardaḥ ǀ útsam ǀ ásṛjaḥ ǀ ví ǀ khā́ni ǀ tvám ǀ arṇavā́n ǀ badbadhānā́n ǀ aramṇāḥ ǀ
mahā́ntam ǀ indra ǀ párvatam ǀ ví ǀ yát ǀ váríti váḥ ǀ sṛjáḥ ǀ ví ǀ dhā́rāḥ ǀ áva ǀ dānavám ǀ hanníti han ǁadardaḥ ǀ utsam ǀ asṛjaḥ ǀ vi ǀ khāni ǀ tvam ǀ arṇavān ǀ badbadhānān ǀ aramṇāḥ ǀ
mahāntam ǀ indra ǀ parvatam ǀ vi ǀ yat ǀ variti vaḥ ǀ sṛjaḥ ǀ vi ǀ dhārāḥ ǀ ava ǀ dānavam ǀ hanniti han ǁ5.32.1 Aṣṭaka 4.1.32.1Anuvāka 5.2.119
-
Ṛk 2
त्वमुत्साँ॑ ऋ॒तुभि॑र्बद्बधा॒नाँ अरं॑ह॒ ऊधः॒ पर्व॑तस्य वज्रिन् ।
अहिं॑ चिदुग्र॒ प्रयु॑तं॒ शया॑नं जघ॒न्वाँ इं॑द्र॒ तवि॑षीमधत्थाः ॥त्वम् उत्सां ऋतुभिर् बद्बधानां अरंह ऊधः पर्वतस्य वज्रिन् |
अहिं चिद् उग्र प्रयुतं शयानं जघन्वां इन्द्र तविषीम् अधत्थाः ||tvámútsām̐ ṛtúbhirbadbadhānā́m̐ áraṃha ū́dhaḥ párvatasya vajrin ǀ
áhim cidugra práyutam śáyānam jaghanvā́m̐ indra táviṣīmadhatthāḥ ǁtvam utsāṃ ṛtubhir badbadhānāṃ araṃha ūdhaḥ parvatasya vajrin |
ahiṃ cid ugra prayutaṃ śayānaṃ jaghanvāṃ indra taviṣīm adhatthāḥ ||त्वम् । उत्सा॑न् । ऋ॒तुऽभिः॑ । ब॒द्ब॒धा॒नान् । अरं॑हः । ऊधः॑ । पर्व॑तस्य । व॒ज्रि॒न् ।
अहि॑म् । चि॒त् । उ॒ग्र॒ । प्रऽयु॑तम् । शया॑नम् । ज॒घ॒न्वान् । इ॒न्द्र॒ । तवि॑षीम् । अ॒ध॒त्थाः॒ ॥त्वम् । उत्सान् । ऋतुऽभिः । बद्बधानान् । अरंहः । ऊधः । पर्वतस्य । वज्रिन् ।
अहिम् । चित् । उग्र । प्रऽयुतम् । शयानम् । जघन्वान् । इन्द्र । तविषीम् । अधत्थाः ॥tvám ǀ útsān ǀ ṛtú-bhiḥ ǀ badbadhānā́n ǀ áraṃhaḥ ǀ ū́dhaḥ ǀ párvatasya ǀ vajrin ǀ
áhim ǀ cit ǀ ugra ǀ prá-yutam ǀ śáyānam ǀ jaghanvā́n ǀ indra ǀ táviṣīm ǀ adhatthāḥ ǁtvam ǀ utsān ǀ ṛtu-bhiḥ ǀ badbadhānān ǀ araṃhaḥ ǀ ūdhaḥ ǀ parvatasya ǀ vajrin ǀ
ahim ǀ cit ǀ ugra ǀ pra-yutam ǀ śayānam ǀ jaghanvān ǀ indra ǀ taviṣīm ǀ adhatthāḥ ǁ5.32.2 Aṣṭaka 4.1.32.2Anuvāka 5.2.120
-
Ṛk 3
त्यस्य॑ चिन्मह॒तो निर्मृ॒गस्य॒ वध॑र्जघान॒ तवि॑षीभि॒रिंद्रः॑ ।
य एक॒ इद॑प्र॒तिर्मन्य॑मान॒ आद॑स्माद॒न्यो अ॑जनिष्ट॒ तव्या॑न् ॥त्यस्य चिन् महतो निर् मृगस्य वधर् जघान तविषीभिर् इन्द्रः |
य एक इद् अप्रतिर् मन्यमान आद् अस्माद् अन्यो अजनिष्ट तव्यान् ||tyásya cinmaható nírmṛgásya vádharjaghāna táviṣībhiríndraḥ ǀ
yá éka ídapratírmányamāna ā́dasmādanyó ajaniṣṭa távyān ǁtyasya cin mahato nir mṛgasya vadhar jaghāna taviṣībhir indraḥ |
ya eka id apratir manyamāna ād asmād anyo ajaniṣṭa tavyān ||त्यस्य॑ । चि॒त् । म॒ह॒तः । निः । मृ॒गस्य॑ । वधः॑ । ज॒घा॒न॒ । तवि॑षीभिः । इन्द्रः॑ ।
यः । एकः॑ । इत् । अ॒प्र॒तिः । मन्य॑मानः । आत् । अ॒स्मा॒त् । अ॒न्यः । अ॒ज॒नि॒ष्ट॒ । तव्या॑न् ॥त्यस्य । चित् । महतः । निः । मृगस्य । वधः । जघान । तविषीभिः । इन्द्रः ।
यः । एकः । इत् । अप्रतिः । मन्यमानः । आत् । अस्मात् । अन्यः । अजनिष्ट । तव्यान् ॥tyásya ǀ cit ǀ mahatáḥ ǀ níḥ ǀ mṛgásya ǀ vádhaḥ ǀ jaghāna ǀ táviṣībhiḥ ǀ índraḥ ǀ
yáḥ ǀ ékaḥ ǀ ít ǀ apratíḥ ǀ mányamānaḥ ǀ ā́t ǀ asmāt ǀ anyáḥ ǀ ajaniṣṭa ǀ távyān ǁtyasya ǀ cit ǀ mahataḥ ǀ niḥ ǀ mṛgasya ǀ vadhaḥ ǀ jaghāna ǀ taviṣībhiḥ ǀ indraḥ ǀ
yaḥ ǀ ekaḥ ǀ it ǀ apratiḥ ǀ manyamānaḥ ǀ āt ǀ asmāt ǀ anyaḥ ǀ ajaniṣṭa ǀ tavyān ǁ5.32.3 Aṣṭaka 4.1.32.3Anuvāka 5.2.121
-
Ṛk 4
त्यं चि॑देषां स्व॒धया॒ मदं॑तं मि॒हो नपा॑तं सु॒वृधं॑ तमो॒गां ।
वृष॑प्रभर्मा दान॒वस्य॒ भामं॒ वज्रे॑ण व॒ज्री नि ज॑घान॒ शुष्णं॑ ॥त्यं चिद् एषां स्वधया मदन्तम् मिहो नपातं सुवृधं तमोगाम् |
वृषप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम् ||tyám cideṣām svadháyā mádantam mihó nápātam suvṛ́dham tamogā́m ǀ
vṛ́ṣaprabharmā dānavásya bhā́mam vájreṇa vajrī́ ní jaghāna śúṣṇam ǁtyaṃ cid eṣāṃ svadhayā madantam miho napātaṃ suvṛdhaṃ tamogām |
vṛṣaprabharmā dānavasya bhāmaṃ vajreṇa vajrī ni jaghāna śuṣṇam ||त्यम् । चि॒त् । ए॒षा॒म् । स्व॒धया॑ । मद॑न्तम् । मि॒हः । नपा॑तम् । सु॒ऽवृध॑म् । त॒मः॒ऽगाम् ।
वृष॑ऽप्रभर्मा । दा॒न॒वस्य॑ । भाम॑म् । वज्रे॑ण । व॒ज्री । नि । ज॒घा॒न॒ । शुष्ण॑म् ॥त्यम् । चित् । एषाम् । स्वधया । मदन्तम् । मिहः । नपातम् । सुऽवृधम् । तमःऽगाम् ।
वृषऽप्रभर्मा । दानवस्य । भामम् । वज्रेण । वज्री । नि । जघान । शुष्णम् ॥tyám ǀ cit ǀ eṣām ǀ svadháyā ǀ mádantam ǀ miháḥ ǀ nápātam ǀ su-vṛ́dham ǀ tamaḥ-gā́m ǀ
vṛ́ṣa-prabharmā ǀ dānavásya ǀ bhā́mam ǀ vájreṇa ǀ vajrī́ ǀ ní ǀ jaghāna ǀ śúṣṇam ǁtyam ǀ cit ǀ eṣām ǀ svadhayā ǀ madantam ǀ mihaḥ ǀ napātam ǀ su-vṛdham ǀ tamaḥ-gām ǀ
vṛṣa-prabharmā ǀ dānavasya ǀ bhāmam ǀ vajreṇa ǀ vajrī ǀ ni ǀ jaghāna ǀ śuṣṇam ǁ5.32.4 Aṣṭaka 4.1.32.4Anuvāka 5.2.122
-
Ṛk 5
त्यं चि॑दस्य॒ क्रतु॑भि॒र्निष॑त्तमम॒र्मणो॑ वि॒ददिद॑स्य॒ मर्म॑ ।
यदीं॑ सुक्षत्र॒ प्रभृ॑ता॒ मद॑स्य॒ युयु॑त्संतं॒ तम॑सि ह॒र्म्ये धाः ॥त्यं चिद् अस्य क्रतुभिर् निषत्तम् अमर्मणो विदद् इद् अस्य मर्म |
यद् ईं सुक्षत्र प्रभृता मदस्य युयुत्सन्तं तमसि हर्म्ये धाः ||tyám cidasya krátubhirníṣattamamarmáṇo vidádídasya márma ǀ
yádīm sukṣatra prábhṛtā mádasya yúyutsantam támasi harmyé dhā́ḥ ǁtyaṃ cid asya kratubhir niṣattam amarmaṇo vidad id asya marma |
yad īṃ sukṣatra prabhṛtā madasya yuyutsantaṃ tamasi harmye dhāḥ ||त्यम् । चि॒त् । अ॒स्य॒ । क्रतु॑ऽभिः । निऽस॑त्तम् । अ॒म॒र्मणः॑ । वि॒दत् । इत् । अ॒स्य॒ । मर्म॑ ।
यत् । ई॒म् । सु॒ऽक्ष॒त्र॒ । प्रऽभृ॑ता । मद॑स्य । युयु॑त्सन्तम् । तम॑सि । ह॒र्म्ये । धाः ॥त्यम् । चित् । अस्य । क्रतुऽभिः । निऽसत्तम् । अमर्मणः । विदत् । इत् । अस्य । मर्म ।
यत् । ईम् । सुऽक्षत्र । प्रऽभृता । मदस्य । युयुत्सन्तम् । तमसि । हर्म्ये । धाः ॥tyám ǀ cit ǀ asya ǀ krátu-bhiḥ ǀ ní-sattam ǀ amarmáṇaḥ ǀ vidát ǀ ít ǀ asya ǀ márma ǀ
yát ǀ īm ǀ su-kṣatra ǀ prá-bhṛtā ǀ mádasya ǀ yúyutsantam ǀ támasi ǀ harmyé ǀ dhā́ḥ ǁtyam ǀ cit ǀ asya ǀ kratu-bhiḥ ǀ ni-sattam ǀ amarmaṇaḥ ǀ vidat ǀ it ǀ asya ǀ marma ǀ
yat ǀ īm ǀ su-kṣatra ǀ pra-bhṛtā ǀ madasya ǀ yuyutsantam ǀ tamasi ǀ harmye ǀ dhāḥ ǁ5.32.5 Aṣṭaka 4.1.32.5Anuvāka 5.2.123
-
Ṛk 6
त्यं चि॑दि॒त्था क॑त्प॒यं शया॑नमसू॒र्ये तम॑सि वावृधा॒नं ।
तं चि॑न्मंदा॒नो वृ॑ष॒भः सु॒तस्यो॒च्चैरिंद्रो॑ अप॒गूर्या॑ जघान ॥त्यं चिद् इत्था कत्पयं शयानम् असूर्ये तमसि वावृधानम् |
तं चिन् मन्दानो वृषभः सुतस्योच्चैर् इन्द्रो अपगूर्या जघान ||tyám ciditthā́ katpayám śáyānamasūryé támasi vāvṛdhānám ǀ
tám cinmandānó vṛṣabháḥ sutásyoccáiríndro apagū́ryā jaghāna ǁtyaṃ cid itthā katpayaṃ śayānam asūrye tamasi vāvṛdhānam |
taṃ cin mandāno vṛṣabhaḥ sutasyoccair indro apagūryā jaghāna ||त्यम् । चि॒त् । इ॒त्था । क॒त्प॒यम् । शया॑नम् । अ॒सू॒र्ये । तम॑सि । व॒वृ॒धा॒नम् ।
तम् । चि॒त् । म॒न्दा॒नः । वृ॒ष॒भः । सु॒तस्य॑ । उ॒च्चैः । इन्द्रः॑ । अ॒प॒ऽगूर्य॑ । ज॒घा॒न॒ ॥त्यम् । चित् । इत्था । कत्पयम् । शयानम् । असूर्ये । तमसि । ववृधानम् ।
तम् । चित् । मन्दानः । वृषभः । सुतस्य । उच्चैः । इन्द्रः । अपऽगूर्य । जघान ॥tyám ǀ cit ǀ itthā́ ǀ katpayám ǀ śáyānam ǀ asūryé ǀ támasi ǀ vavṛdhānám ǀ
tám ǀ cit ǀ mandānáḥ ǀ vṛṣabháḥ ǀ sutásya ǀ uccáiḥ ǀ índraḥ ǀ apa-gū́rya ǀ jaghāna ǁtyam ǀ cit ǀ itthā ǀ katpayam ǀ śayānam ǀ asūrye ǀ tamasi ǀ vavṛdhānam ǀ
tam ǀ cit ǀ mandānaḥ ǀ vṛṣabhaḥ ǀ sutasya ǀ uccaiḥ ǀ indraḥ ǀ apa-gūrya ǀ jaghāna ǁ5.32.6 Aṣṭaka 4.1.32.6Anuvāka 5.2.124
-
Ṛk 7
उद्यदिंद्रो॑ मह॒ते दा॑न॒वाय॒ वध॒र्यमि॑ष्ट॒ सहो॒ अप्र॑तीतं ।
यदीं॒ वज्र॑स्य॒ प्रभृ॑तौ द॒दाभ॒ विश्व॑स्य जं॒तोर॑ध॒मं च॑कार ॥उद् यद् इन्द्रो महते दानवाय वधर् यमिष्ट सहो अप्रतीतम् |
यद् ईं वज्रस्य प्रभृतौ ददाभ विश्वस्य जन्तोर् अधमं चकार ||údyádíndro mahaté dānavā́ya vádharyámiṣṭa sáho ápratītam ǀ
yádīm vájrasya prábhṛtau dadā́bha víśvasya jantóradhamám cakāra ǁud yad indro mahate dānavāya vadhar yamiṣṭa saho apratītam |
yad īṃ vajrasya prabhṛtau dadābha viśvasya jantor adhamaṃ cakāra ||उत् । यत् । इन्द्रः॑ । म॒ह॒ते । दा॒न॒वाय॑ । वधः॑ । यमि॑ष्ट । सहः॑ । अप्र॑तिऽइतम् ।
यत् । ई॒म् । वज्र॑स्य । प्रऽभृ॑तौ । द॒दाभ॑ । विश्व॑स्य । ज॒न्तोः । अ॒ध॒मम् । च॒का॒र॒ ॥उत् । यत् । इन्द्रः । महते । दानवाय । वधः । यमिष्ट । सहः । अप्रतिऽइतम् ।
यत् । ईम् । वज्रस्य । प्रऽभृतौ । ददाभ । विश्वस्य । जन्तोः । अधमम् । चकार ॥út ǀ yát ǀ índraḥ ǀ mahaté ǀ dānavā́ya ǀ vádhaḥ ǀ yámiṣṭa ǀ sáhaḥ ǀ áprati-itam ǀ
yát ǀ īm ǀ vájrasya ǀ prá-bhṛtau ǀ dadā́bha ǀ víśvasya ǀ jantóḥ ǀ adhamám ǀ cakāra ǁut ǀ yat ǀ indraḥ ǀ mahate ǀ dānavāya ǀ vadhaḥ ǀ yamiṣṭa ǀ sahaḥ ǀ aprati-itam ǀ
yat ǀ īm ǀ vajrasya ǀ pra-bhṛtau ǀ dadābha ǀ viśvasya ǀ jantoḥ ǀ adhamam ǀ cakāra ǁ5.32.7 Aṣṭaka 4.1.33.1Anuvāka 5.2.125
-
Ṛk 8
त्यं चि॒दर्णं॑ मधु॒पं शया॑नमसि॒न्वं व॒व्रं मह्याद॑दु॒ग्रः ।
अ॒पाद॑म॒त्रं म॑ह॒ता व॒धेन॒ नि दु॑र्यो॒ण आ॑वृणङ्मृ॒ध्रवा॑चं ॥त्यं चिद् अर्णम् मधुपं शयानम् असिन्वं वव्रम् मह्य् आदद् उग्रः |
अपादम् अत्रम् महता वधेन नि दुर्योण आवृणङ् मृध्रवाचम् ||tyám cidárṇam madhupám śáyānamasinvám vavrám máhyā́dadugráḥ ǀ
apā́damatrám mahatā́ vadhéna ní duryoṇá āvṛṇaṅmṛdhrávācam ǁtyaṃ cid arṇam madhupaṃ śayānam asinvaṃ vavram mahy ādad ugraḥ |
apādam atram mahatā vadhena ni duryoṇa āvṛṇaṅ mṛdhravācam ||त्यम् । चि॒त् । अर्ण॑म् । म॒धु॒ऽपम् । शया॑नम् । अ॒सि॒न्वम् । व॒व्रम् । महि॑ । आद॑त् । उ॒ग्रः ।
अ॒पाद॑म् । अ॒त्रम् । म॒ह॒ता । व॒धेन॑ । नि । दु॒र्यो॒णे । अ॒वृ॒ण॒क् । मृ॒ध्रऽवा॑चम् ॥त्यम् । चित् । अर्णम् । मधुऽपम् । शयानम् । असिन्वम् । वव्रम् । महि । आदत् । उग्रः ।
अपादम् । अत्रम् । महता । वधेन । नि । दुर्योणे । अवृणक् । मृध्रऽवाचम् ॥tyám ǀ cit ǀ árṇam ǀ madhu-pám ǀ śáyānam ǀ asinvám ǀ vavrám ǀ máhi ǀ ā́dat ǀ ugráḥ ǀ
apā́dam ǀ atrám ǀ mahatā́ ǀ vadhéna ǀ ní ǀ duryoṇé ǀ avṛṇak ǀ mṛdhrá-vācam ǁtyam ǀ cit ǀ arṇam ǀ madhu-pam ǀ śayānam ǀ asinvam ǀ vavram ǀ mahi ǀ ādat ǀ ugraḥ ǀ
apādam ǀ atram ǀ mahatā ǀ vadhena ǀ ni ǀ duryoṇe ǀ avṛṇak ǀ mṛdhra-vācam ǁ5.32.8 Aṣṭaka 4.1.33.2Anuvāka 5.2.126
-
Ṛk 9
को अ॑स्य॒ शुष्मं॒ तवि॑षीं वरात॒ एको॒ धना॑ भरते॒ अप्र॑तीतः ।
इ॒मे चि॑दस्य॒ ज्रय॑सो॒ नु दे॒वी इंद्र॒स्यौज॑सो भि॒यसा॑ जिहाते ॥को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः |
इमे चिद् अस्य ज्रयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते ||kó asya śúṣmam táviṣīm varāta éko dhánā bharate ápratītaḥ ǀ
imé cidasya jráyaso nú devī́ índrasyáujaso bhiyásā jihāte ǁko asya śuṣmaṃ taviṣīṃ varāta eko dhanā bharate apratītaḥ |
ime cid asya jrayaso nu devī indrasyaujaso bhiyasā jihāte ||कः । अ॒स्य॒ । शुष्म॑म् । तवि॑षीम् । व॒रा॒ते॒ । एकः॑ । धना॑ । भ॒र॒ते॒ । अप्र॑तिऽइतः ।
इ॒मे । चि॒त् । अ॒स्य॒ । ज्रय॑सः । नु । दे॒वी इति॑ । इन्द्र॑स्य । ओज॑सः । भि॒यसा॑ । जि॒हा॒ते॒ इति॑ ॥कः । अस्य । शुष्मम् । तविषीम् । वराते । एकः । धना । भरते । अप्रतिऽइतः ।
इमे । चित् । अस्य । ज्रयसः । नु । देवी इति । इन्द्रस्य । ओजसः । भियसा । जिहाते इति ॥káḥ ǀ asya ǀ śúṣmam ǀ táviṣīm ǀ varāte ǀ ékaḥ ǀ dhánā ǀ bharate ǀ áprati-itaḥ ǀ
imé ǀ cit ǀ asya ǀ jráyasaḥ ǀ nú ǀ devī́ íti ǀ índrasya ǀ ójasaḥ ǀ bhiyásā ǀ jihāte íti ǁkaḥ ǀ asya ǀ śuṣmam ǀ taviṣīm ǀ varāte ǀ ekaḥ ǀ dhanā ǀ bharate ǀ aprati-itaḥ ǀ
ime ǀ cit ǀ asya ǀ jrayasaḥ ǀ nu ǀ devī iti ǀ indrasya ǀ ojasaḥ ǀ bhiyasā ǀ jihāte iti ǁ5.32.9 Aṣṭaka 4.1.33.3Anuvāka 5.2.127
-
Ṛk 10
न्य॑स्मै दे॒वी स्वधि॑तिर्जिहीत॒ इंद्रा॑य गा॒तुरु॑श॒तीव॑ येमे ।
सं यदोजो॑ यु॒वते॒ विश्व॑माभि॒रनु॑ स्व॒धाव्ने॑ क्षि॒तयो॑ नमंत ॥न्य् अस्मै देवी स्वधितिर् जिहीत इन्द्राय गातुर् उशतीव येमे |
सं यद् ओजो युवते विश्वम् आभिर् अनु स्वधाव्ने क्षितयो नमन्त ||nyásmai devī́ svádhitirjihīta índrāya gātúruśatī́va yeme ǀ
sám yádójo yuváte víśvamābhiránu svadhā́vne kṣitáyo namanta ǁny asmai devī svadhitir jihīta indrāya gātur uśatīva yeme |
saṃ yad ojo yuvate viśvam ābhir anu svadhāvne kṣitayo namanta ||नि । अ॒स्मै॒ । दे॒वी । स्वऽधि॑तिः । जि॒ही॒ते॒ । इन्द्रा॑य । गा॒तुः । उ॒श॒तीऽइ॑व । ये॒मे॒ ।
सम् । यत् । ओजः॑ । यु॒वते॑ । विश्व॑म् । आ॒भिः॒ । अनु॑ । स्व॒धाऽव्ने॑ । क्षि॒तयः॑ । न॒म॒न्त॒ ॥नि । अस्मै । देवी । स्वऽधितिः । जिहीते । इन्द्राय । गातुः । उशतीऽइव । येमे ।
सम् । यत् । ओजः । युवते । विश्वम् । आभिः । अनु । स्वधाऽव्ने । क्षितयः । नमन्त ॥ní ǀ asmai ǀ devī́ ǀ svá-dhitiḥ ǀ jihīte ǀ índrāya ǀ gātúḥ ǀ uśatī́-iva ǀ yeme ǀ
sám ǀ yát ǀ ójaḥ ǀ yuváte ǀ víśvam ǀ ābhiḥ ǀ ánu ǀ svadhā́-vne ǀ kṣitáyaḥ ǀ namanta ǁni ǀ asmai ǀ devī ǀ sva-dhitiḥ ǀ jihīte ǀ indrāya ǀ gātuḥ ǀ uśatī-iva ǀ yeme ǀ
sam ǀ yat ǀ ojaḥ ǀ yuvate ǀ viśvam ǀ ābhiḥ ǀ anu ǀ svadhā-vne ǀ kṣitayaḥ ǀ namanta ǁ5.32.10 Aṣṭaka 4.1.33.4Anuvāka 5.2.128
-
Ṛk 11
एकं॒ नु त्वा॒ सत्प॑तिं॒ पांच॑जन्यं जा॒तं शृ॑णोमि य॒शसं॒ जने॑षु ।
तं मे॑ जगृभ्र आ॒शसो॒ नवि॑ष्ठं दो॒षा वस्तो॒र्हव॑मानास॒ इंद्रं॑ ॥एकं नु त्वा सत्पतिम् पाञ्चजन्यं जातं शृणोमि यशसं जनेषु |
तम् मे जगृभ्र आशसो नविष्ठं दोषा वस्तोर् हवमानास इन्द्रम् ||ékam nú tvā sátpatim pā́ñcajanyam jātám śṛṇomi yaśásam jáneṣu ǀ
tám me jagṛbhra āśáso náviṣṭham doṣā́ vástorhávamānāsa índram ǁekaṃ nu tvā satpatim pāñcajanyaṃ jātaṃ śṛṇomi yaśasaṃ janeṣu |
tam me jagṛbhra āśaso naviṣṭhaṃ doṣā vastor havamānāsa indram ||एक॑म् । नु । त्वा॒ । सत्ऽप॑तिम् । पाञ्च॑ऽजन्यम् । जा॒तम् । शृ॒णो॒मि॒ । य॒शस॑म् । जने॑षु ।
तम् । मे॒ । ज॒गृ॒भ्रे॒ । आ॒ऽशसः॑ । नवि॑ष्ठम् । दो॒षा । वस्तोः॑ । हव॑मानासः । इन्द्र॑म् ॥एकम् । नु । त्वा । सत्ऽपतिम् । पाञ्चऽजन्यम् । जातम् । शृणोमि । यशसम् । जनेषु ।
तम् । मे । जगृभ्रे । आऽशसः । नविष्ठम् । दोषा । वस्तोः । हवमानासः । इन्द्रम् ॥ékam ǀ nú ǀ tvā ǀ sát-patim ǀ pā́ñca-janyam ǀ jātám ǀ śṛṇomi ǀ yaśásam ǀ jáneṣu ǀ
tám ǀ me ǀ jagṛbhre ǀ ā-śásaḥ ǀ náviṣṭham ǀ doṣā́ ǀ vástoḥ ǀ hávamānāsaḥ ǀ índram ǁekam ǀ nu ǀ tvā ǀ sat-patim ǀ pāñca-janyam ǀ jātam ǀ śṛṇomi ǀ yaśasam ǀ janeṣu ǀ
tam ǀ me ǀ jagṛbhre ǀ ā-śasaḥ ǀ naviṣṭham ǀ doṣā ǀ vastoḥ ǀ havamānāsaḥ ǀ indram ǁ5.32.11 Aṣṭaka 4.1.33.5Anuvāka 5.2.129
-
Ṛk 12
ए॒वा हि त्वामृ॑तु॒था या॒तयं॑तं म॒घा विप्रे॑भ्यो॒ दद॑तं शृ॒णोमि॑ ।
किं ते॑ ब्र॒ह्माणो॑ गृहते॒ सखा॑यो॒ ये त्वा॒या नि॑द॒धुः काम॑मिंद्र ॥एवा हि त्वाम् ऋतुथा यातयन्तम् मघा विप्रेभ्यो ददतं शृणोमि |
किं ते ब्रह्माणो गृहते सखायो ये त्वाया निदधुः कामम् इन्द्र ||evā́ hí tvā́mṛtuthā́ yātáyantam maghā́ víprebhyo dádatam śṛṇómi ǀ
kím te brahmā́ṇo gṛhate sákhāyo yé tvāyā́ nidadhúḥ kā́mamindra ǁevā hi tvām ṛtuthā yātayantam maghā viprebhyo dadataṃ śṛṇomi |
kiṃ te brahmāṇo gṛhate sakhāyo ye tvāyā nidadhuḥ kāmam indra ||ए॒व । हि । त्वाम् । ऋ॒तु॒ऽथा । या॒तय॑न्तम् । म॒घा । विप्रे॑भ्यः । दद॑तम् । शृ॒णोमि॑ ।
किम् । ते॒ । ब्र॒ह्माणः॑ । गृ॒ह॒ते॒ । सखा॑यः । ये । त्वा॒ऽया । नि॒ऽद॒धुः । काम॑म् । इ॒न्द्र॒ ॥एव । हि । त्वाम् । ऋतुऽथा । यातयन्तम् । मघा । विप्रेभ्यः । ददतम् । शृणोमि ।
किम् । ते । ब्रह्माणः । गृहते । सखायः । ये । त्वाऽया । निऽदधुः । कामम् । इन्द्र ॥evá ǀ hí ǀ tvā́m ǀ ṛtu-thā́ ǀ yātáyantam ǀ maghā́ ǀ víprebhyaḥ ǀ dádatam ǀ śṛṇómi ǀ
kím ǀ te ǀ brahmā́ṇaḥ ǀ gṛhate ǀ sákhāyaḥ ǀ yé ǀ tvā-yā́ ǀ ni-dadhúḥ ǀ kā́mam ǀ indra ǁeva ǀ hi ǀ tvām ǀ ṛtu-thā ǀ yātayantam ǀ maghā ǀ viprebhyaḥ ǀ dadatam ǀ śṛṇomi ǀ
kim ǀ te ǀ brahmāṇaḥ ǀ gṛhate ǀ sakhāyaḥ ǀ ye ǀ tvā-yā ǀ ni-dadhuḥ ǀ kāmam ǀ indra ǁ5.32.12 Aṣṭaka 4.1.33.6Anuvāka 5.2.130
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.