Ṛk 5.32.1
Saṃhitā
अद॑र्द॒रुत्स॒मसृ॑जो॒ वि खानि॒ त्वम॑र्ण॒वान्ब॑द्बधा॒नाँ अ॑रम्णाः ।
म॒हांत॑मिंद्र॒ पर्व॑तं॒ वि यद्वः सृ॒जो वि धारा॒ अव॑ दान॒वं ह॑न् ॥
अदर्दर् उत्सम् असृजो वि खानि त्वम् अर्णवान् बद्बधानां अरम्णाः |
महान्तम् इन्द्र पर्वतं वि यद् वः सृजो वि धारा अव दानवं हन् ||
ádardarútsamásṛjo ví khā́ni tvámarṇavā́nbadbadhānā́m̐ aramṇāḥ ǀ
mahā́ntamindra párvatam ví yádváḥ sṛjó ví dhā́rā áva dānavám han ǁ
adardar utsam asṛjo vi khāni tvam arṇavān badbadhānāṃ aramṇāḥ |
mahāntam indra parvataṃ vi yad vaḥ sṛjo vi dhārā ava dānavaṃ han ||
Padapāṭha
अद॑र्दः । उत्स॑म् । असृ॑जः । वि । खानि॑ । त्वम् । अ॒र्ण॒वान् । ब॒द्ब॒धा॒नान् । अ॒र॒म्णाः॒ ।
म॒हान्त॑म् । इ॒न्द्र॒ । पर्व॑तम् । वि । यत् । वरिति॒ वः । सृ॒जः । वि । धाराः॑ । अव॑ । दा॒न॒वम् । ह॒न्निति॑ हन् ॥
अदर्दः । उत्सम् । असृजः । वि । खानि । त्वम् । अर्णवान् । बद्बधानान् । अरम्णाः ।
महान्तम् । इन्द्र । पर्वतम् । वि । यत् । वरिति वः । सृजः । वि । धाराः । अव । दानवम् । हन्निति हन् ॥
ádardaḥ ǀ útsam ǀ ásṛjaḥ ǀ ví ǀ khā́ni ǀ tvám ǀ arṇavā́n ǀ badbadhānā́n ǀ aramṇāḥ ǀ
mahā́ntam ǀ indra ǀ párvatam ǀ ví ǀ yát ǀ váríti váḥ ǀ sṛjáḥ ǀ ví ǀ dhā́rāḥ ǀ áva ǀ dānavám ǀ hanníti han ǁ
adardaḥ ǀ utsam ǀ asṛjaḥ ǀ vi ǀ khāni ǀ tvam ǀ arṇavān ǀ badbadhānān ǀ aramṇāḥ ǀ
mahāntam ǀ indra ǀ parvatam ǀ vi ǀ yat ǀ variti vaḥ ǀ sṛjaḥ ǀ vi ǀ dhārāḥ ǀ ava ǀ dānavam ǀ hanniti han ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.032.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.32.01
- Maṇḍala · Anuvāka · Ṛk
- 05.02.119
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gātu Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.