Ṛk 5.32.5
Saṃhitā
त्यं चि॑दस्य॒ क्रतु॑भि॒र्निष॑त्तमम॒र्मणो॑ वि॒ददिद॑स्य॒ मर्म॑ ।
यदीं॑ सुक्षत्र॒ प्रभृ॑ता॒ मद॑स्य॒ युयु॑त्संतं॒ तम॑सि ह॒र्म्ये धाः ॥
त्यं चिद् अस्य क्रतुभिर् निषत्तम् अमर्मणो विदद् इद् अस्य मर्म |
यद् ईं सुक्षत्र प्रभृता मदस्य युयुत्सन्तं तमसि हर्म्ये धाः ||
tyám cidasya krátubhirníṣattamamarmáṇo vidádídasya márma ǀ
yádīm sukṣatra prábhṛtā mádasya yúyutsantam támasi harmyé dhā́ḥ ǁ
tyaṃ cid asya kratubhir niṣattam amarmaṇo vidad id asya marma |
yad īṃ sukṣatra prabhṛtā madasya yuyutsantaṃ tamasi harmye dhāḥ ||
Padapāṭha
त्यम् । चि॒त् । अ॒स्य॒ । क्रतु॑ऽभिः । निऽस॑त्तम् । अ॒म॒र्मणः॑ । वि॒दत् । इत् । अ॒स्य॒ । मर्म॑ ।
यत् । ई॒म् । सु॒ऽक्ष॒त्र॒ । प्रऽभृ॑ता । मद॑स्य । युयु॑त्सन्तम् । तम॑सि । ह॒र्म्ये । धाः ॥
त्यम् । चित् । अस्य । क्रतुऽभिः । निऽसत्तम् । अमर्मणः । विदत् । इत् । अस्य । मर्म ।
यत् । ईम् । सुऽक्षत्र । प्रऽभृता । मदस्य । युयुत्सन्तम् । तमसि । हर्म्ये । धाः ॥
tyám ǀ cit ǀ asya ǀ krátu-bhiḥ ǀ ní-sattam ǀ amarmáṇaḥ ǀ vidát ǀ ít ǀ asya ǀ márma ǀ
yát ǀ īm ǀ su-kṣatra ǀ prá-bhṛtā ǀ mádasya ǀ yúyutsantam ǀ támasi ǀ harmyé ǀ dhā́ḥ ǁ
tyam ǀ cit ǀ asya ǀ kratu-bhiḥ ǀ ni-sattam ǀ amarmaṇaḥ ǀ vidat ǀ it ǀ asya ǀ marma ǀ
yat ǀ īm ǀ su-kṣatra ǀ pra-bhṛtā ǀ madasya ǀ yuyutsantam ǀ tamasi ǀ harmye ǀ dhāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.032.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.32.05
- Maṇḍala · Anuvāka · Ṛk
- 05.02.123
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gātu Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.