Ṛk 5.32.11
Saṃhitā
एकं॒ नु त्वा॒ सत्प॑तिं॒ पांच॑जन्यं जा॒तं शृ॑णोमि य॒शसं॒ जने॑षु ।
तं मे॑ जगृभ्र आ॒शसो॒ नवि॑ष्ठं दो॒षा वस्तो॒र्हव॑मानास॒ इंद्रं॑ ॥
एकं नु त्वा सत्पतिम् पाञ्चजन्यं जातं शृणोमि यशसं जनेषु |
तम् मे जगृभ्र आशसो नविष्ठं दोषा वस्तोर् हवमानास इन्द्रम् ||
ékam nú tvā sátpatim pā́ñcajanyam jātám śṛṇomi yaśásam jáneṣu ǀ
tám me jagṛbhra āśáso náviṣṭham doṣā́ vástorhávamānāsa índram ǁ
ekaṃ nu tvā satpatim pāñcajanyaṃ jātaṃ śṛṇomi yaśasaṃ janeṣu |
tam me jagṛbhra āśaso naviṣṭhaṃ doṣā vastor havamānāsa indram ||
Padapāṭha
एक॑म् । नु । त्वा॒ । सत्ऽप॑तिम् । पाञ्च॑ऽजन्यम् । जा॒तम् । शृ॒णो॒मि॒ । य॒शस॑म् । जने॑षु ।
तम् । मे॒ । ज॒गृ॒भ्रे॒ । आ॒ऽशसः॑ । नवि॑ष्ठम् । दो॒षा । वस्तोः॑ । हव॑मानासः । इन्द्र॑म् ॥
एकम् । नु । त्वा । सत्ऽपतिम् । पाञ्चऽजन्यम् । जातम् । शृणोमि । यशसम् । जनेषु ।
तम् । मे । जगृभ्रे । आऽशसः । नविष्ठम् । दोषा । वस्तोः । हवमानासः । इन्द्रम् ॥
ékam ǀ nú ǀ tvā ǀ sát-patim ǀ pā́ñca-janyam ǀ jātám ǀ śṛṇomi ǀ yaśásam ǀ jáneṣu ǀ
tám ǀ me ǀ jagṛbhre ǀ ā-śásaḥ ǀ náviṣṭham ǀ doṣā́ ǀ vástoḥ ǀ hávamānāsaḥ ǀ índram ǁ
ekam ǀ nu ǀ tvā ǀ sat-patim ǀ pāñca-janyam ǀ jātam ǀ śṛṇomi ǀ yaśasam ǀ janeṣu ǀ
tam ǀ me ǀ jagṛbhre ǀ ā-śasaḥ ǀ naviṣṭham ǀ doṣā ǀ vastoḥ ǀ havamānāsaḥ ǀ indram ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.032.11
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.1.33.05
- Maṇḍala · Anuvāka · Ṛk
- 05.02.129
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Gātu Ātreya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.