Sūkta 73
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Paura Ātreya
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdanuṣṭup (1, 2, 4, 5, 7); anuṣṭup (3, 6, 8, 9); virāḍanuṣṭup (10)
2nd set of styles anuṣṭubh
-
Ṛk 1
यद॒द्य स्थः प॑रा॒वति॒ यद॑र्वा॒वत्य॑श्विना ।
यद्वा॑ पु॒रू पु॑रुभुजा॒ यदं॒तरि॑क्ष॒ आ ग॑तं ॥यद् अद्य स्थः परावति यद् अर्वावत्य् अश्विना |
यद् वा पुरू पुरुभुजा यद् अन्तरिक्ष आ गतम् ||yádadyá stháḥ parāváti yádarvāvátyaśvinā ǀ
yádvā purū́ purubhujā yádantárikṣa ā́ gatam ǁyad adya sthaḥ parāvati yad arvāvaty aśvinā |
yad vā purū purubhujā yad antarikṣa ā gatam ||यत् । अ॒द्य । स्थः । प॒रा॒ऽवति॑ । यत् । अ॒र्वा॒ऽवति॑ । अ॒श्वि॒ना॒ ।
यत् । वा॒ । पु॒रु । पु॒रु॒ऽभु॒जा॒ । यत् । अ॒न्तरि॑क्षे । आ । ग॒त॒म् ॥यत् । अद्य । स्थः । पराऽवति । यत् । अर्वाऽवति । अश्विना ।
यत् । वा । पुरु । पुरुऽभुजा । यत् । अन्तरिक्षे । आ । गतम् ॥yát ǀ adyá ǀ stháḥ ǀ parā-váti ǀ yát ǀ arvā-váti ǀ aśvinā ǀ
yát ǀ vā ǀ purú ǀ puru-bhujā ǀ yát ǀ antárikṣe ǀ ā́ ǀ gatam ǁyat ǀ adya ǀ sthaḥ ǀ parā-vati ǀ yat ǀ arvā-vati ǀ aśvinā ǀ
yat ǀ vā ǀ puru ǀ puru-bhujā ǀ yat ǀ antarikṣe ǀ ā ǀ gatam ǁ5.73.1 Aṣṭaka 4.4.11.1Anuvāka 5.6.1
-
Ṛk 2
इ॒ह त्या पु॑रु॒भूत॑मा पु॒रू दंसां॑सि॒ बिभ्र॑ता ।
व॒र॒स्या या॒म्यध्रि॑गू हु॒वे तु॒विष्ट॑मा भु॒जे ॥इह त्या पुरुभूतमा पुरू दंसांसि बिभ्रता |
वरस्या याम्य् अध्रिगू हुवे तुविष्टमा भुजे ||ihá tyā́ purubhū́tamā purū́ dáṃsāṃsi bíbhratā ǀ
varasyā́ yāmyádhrigū huvé tuvíṣṭamā bhujé ǁiha tyā purubhūtamā purū daṃsāṃsi bibhratā |
varasyā yāmy adhrigū huve tuviṣṭamā bhuje ||इ॒ह । त्या । पु॒रु॒ऽभूत॑मा । पु॒रु । दंसां॑सि । बिभ्र॑ता ।
व॒र॒स्या । या॒मि॒ । अध्रि॑गू॒ इत्यध्रि॑ऽगू । हु॒वे । तु॒विःऽत॑मा । भु॒जे ॥इह । त्या । पुरुऽभूतमा । पुरु । दंसांसि । बिभ्रता ।
वरस्या । यामि । अध्रिगू इत्यध्रिऽगू । हुवे । तुविःऽतमा । भुजे ॥ihá ǀ tyā́ ǀ puru-bhū́tamā ǀ purú ǀ dáṃsāṃsi ǀ bíbhratā ǀ
varasyā́ ǀ yāmi ǀ ádhrigū ítyadhri-gū ǀ huvé ǀ tuvíḥ-tamā ǀ bhujé ǁiha ǀ tyā ǀ puru-bhūtamā ǀ puru ǀ daṃsāṃsi ǀ bibhratā ǀ
varasyā ǀ yāmi ǀ adhrigū ityadhri-gū ǀ huve ǀ tuviḥ-tamā ǀ bhuje ǁ5.73.2 Aṣṭaka 4.4.11.2Anuvāka 5.6.2
-
Ṛk 3
ई॒र्मान्यद्वपु॑षे॒ वपु॑श्च॒क्रं रथ॑स्य येमथुः ।
पर्य॒न्या नाहु॑षा यु॒गा म॒ह्ना रजां॑सि दीयथः ॥ईर्मान्यद् वपुषे वपुश् चक्रं रथस्य येमथुः |
पर्य् अन्या नाहुषा युगा मह्ना रजांसि दीयथः ||īrmā́nyádvápuṣe vápuścakrám ráthasya yemathuḥ ǀ
páryanyā́ nā́huṣā yugā́ mahnā́ rájāṃsi dīyathaḥ ǁīrmānyad vapuṣe vapuś cakraṃ rathasya yemathuḥ |
pary anyā nāhuṣā yugā mahnā rajāṃsi dīyathaḥ ||ई॒र्मा । अ॒न्यत् । वपु॑षे । वपुः॑ । च॒क्रम् । रथ॑स्य । ये॒म॒थुः॒ ।
परि॑ । अ॒न्या । नाहु॑षा । यु॒गा । म॒ह्ना । रजां॑सि । दी॒य॒थः॒ ॥ईर्मा । अन्यत् । वपुषे । वपुः । चक्रम् । रथस्य । येमथुः ।
परि । अन्या । नाहुषा । युगा । मह्ना । रजांसि । दीयथः ॥īrmā́ ǀ anyát ǀ vápuṣe ǀ vápuḥ ǀ cakrám ǀ ráthasya ǀ yemathuḥ ǀ
pári ǀ anyā́ ǀ nā́huṣā ǀ yugā́ ǀ mahnā́ ǀ rájāṃsi ǀ dīyathaḥ ǁīrmā ǀ anyat ǀ vapuṣe ǀ vapuḥ ǀ cakram ǀ rathasya ǀ yemathuḥ ǀ
pari ǀ anyā ǀ nāhuṣā ǀ yugā ǀ mahnā ǀ rajāṃsi ǀ dīyathaḥ ǁ5.73.3 Aṣṭaka 4.4.11.3Anuvāka 5.6.3
-
Ṛk 4
तदू॒ षु वा॑मे॒ना कृ॒तं विश्वा॒ यद्वा॒मनु॒ ष्टवे॑ ।
नाना॑ जा॒ताव॑रे॒पसा॒ सम॒स्मे बंधु॒मेय॑थुः ॥तद् ऊ षु वाम् एना कृतं विश्वा यद् वाम् अनु ष्टवे |
नाना जाताव् अरेपसा सम् अस्मे बन्धुम् एयथुः ||tádū ṣú vāmenā́ kṛtám víśvā yádvāmánu ṣṭáve ǀ
nā́nā jātā́varepásā sámasmé bándhuméyathuḥ ǁtad ū ṣu vām enā kṛtaṃ viśvā yad vām anu ṣṭave |
nānā jātāv arepasā sam asme bandhum eyathuḥ ||तत् । ऊं॒ इति॑ । सु । वा॒म् । ए॒ना । कृ॒तम् । विश्वा॑ । यत् । वा॒म् । अनु॑ । स्तवे॑ ।
नाना॑ । जा॒तौ । अ॒रे॒पसा॑ । सम् । अ॒स्मे इति॑ । बन्धु॑म् । आ । ई॒य॒थुः॒ ॥तत् । ऊं इति । सु । वाम् । एना । कृतम् । विश्वा । यत् । वाम् । अनु । स्तवे ।
नाना । जातौ । अरेपसा । सम् । अस्मे इति । बन्धुम् । आ । ईयथुः ॥tát ǀ ūṃ íti ǀ sú ǀ vām ǀ enā́ ǀ kṛtám ǀ víśvā ǀ yát ǀ vām ǀ ánu ǀ stáve ǀ
nā́nā ǀ jātáu ǀ arepásā ǀ sám ǀ asmé íti ǀ bándhum ǀ ā́ ǀ īyathuḥ ǁtat ǀ ūṃ iti ǀ su ǀ vām ǀ enā ǀ kṛtam ǀ viśvā ǀ yat ǀ vām ǀ anu ǀ stave ǀ
nānā ǀ jātau ǀ arepasā ǀ sam ǀ asme iti ǀ bandhum ǀ ā ǀ īyathuḥ ǁ5.73.4 Aṣṭaka 4.4.11.4Anuvāka 5.6.4
-
Ṛk 5
आ यद्वां॑ सू॒र्या रथं॒ तिष्ठ॑द्रघु॒ष्यदं॒ सदा॑ ।
परि॑ वामरु॒षा वयो॑ घृ॒णा व॑रंत आ॒तपः॑ ॥आ यद् वां सूर्या रथं तिष्ठद् रघुष्यदं सदा |
परि वाम् अरुषा वयो घृणा वरन्त आतपः ||ā́ yádvām sūryā́ rátham tíṣṭhadraghuṣyádam sádā ǀ
pári vāmaruṣā́ váyo ghṛṇā́ varanta ātápaḥ ǁā yad vāṃ sūryā rathaṃ tiṣṭhad raghuṣyadaṃ sadā |
pari vām aruṣā vayo ghṛṇā varanta ātapaḥ ||आ । यत् । वा॒म् । सू॒र्या । रथ॑म् । तिष्ठ॑त् । र॒घु॒ऽस्यद॑म् । सदा॑ ।
परि॑ । वा॒म् । अ॒रु॒षाः । वयः॑ । घृ॒णा । व॒र॒न्ते॒ । आ॒ऽतपः॑ ॥आ । यत् । वाम् । सूर्या । रथम् । तिष्ठत् । रघुऽस्यदम् । सदा ।
परि । वाम् । अरुषाः । वयः । घृणा । वरन्ते । आऽतपः ॥ā́ ǀ yát ǀ vām ǀ sūryā́ ǀ rátham ǀ tíṣṭhat ǀ raghu-syádam ǀ sádā ǀ
pári ǀ vām ǀ aruṣā́ḥ ǀ váyaḥ ǀ ghṛṇā́ ǀ varante ǀ ā-tápaḥ ǁā ǀ yat ǀ vām ǀ sūryā ǀ ratham ǀ tiṣṭhat ǀ raghu-syadam ǀ sadā ǀ
pari ǀ vām ǀ aruṣāḥ ǀ vayaḥ ǀ ghṛṇā ǀ varante ǀ ā-tapaḥ ǁ5.73.5 Aṣṭaka 4.4.11.5Anuvāka 5.6.5
-
Ṛk 6
यु॒वोरत्रि॑श्चिकेतति॒ नरा॑ सु॒म्नेन॒ चेत॑सा ।
घ॒र्मं यद्वा॑मरे॒पसं॒ नास॑त्या॒स्ना भु॑र॒ण्यति॑ ॥युवोर् अत्रिश् चिकेतति नरा सुम्नेन चेतसा |
घर्मं यद् वाम् अरेपसं नासत्यास्ना भुरण्यति ||yuvórátriściketati nárā sumnéna cétasā ǀ
gharmám yádvāmarepásam nā́satyāsnā́ bhuraṇyáti ǁyuvor atriś ciketati narā sumnena cetasā |
gharmaṃ yad vām arepasaṃ nāsatyāsnā bhuraṇyati ||यु॒वोः । अत्रिः॑ । चि॒के॒त॒ति॒ । नरा॑ । सु॒म्नेन॑ । चेत॑सा ।
घ॒र्मम् । यत् । वा॒म् । अ॒रे॒पस॑म् । नास॑त्या । आ॒स्ना । भु॒र॒ण्यति॑ ॥युवोः । अत्रिः । चिकेतति । नरा । सुम्नेन । चेतसा ।
घर्मम् । यत् । वाम् । अरेपसम् । नासत्या । आस्ना । भुरण्यति ॥yuvóḥ ǀ átriḥ ǀ ciketati ǀ nárā ǀ sumnéna ǀ cétasā ǀ
gharmám ǀ yát ǀ vām ǀ arepásam ǀ nā́satyā ǀ āsnā́ ǀ bhuraṇyáti ǁyuvoḥ ǀ atriḥ ǀ ciketati ǀ narā ǀ sumnena ǀ cetasā ǀ
gharmam ǀ yat ǀ vām ǀ arepasam ǀ nāsatyā ǀ āsnā ǀ bhuraṇyati ǁ5.73.6 Aṣṭaka 4.4.12.1Anuvāka 5.6.6
-
Ṛk 7
उ॒ग्रो वां॑ ककु॒हो य॒यिः शृ॒ण्वे यामे॑षु संत॒निः ।
यद्वां॒ दंसो॑भिरश्वि॒नात्रि॑र्नराव॒वर्त॑ति ॥उग्रो वां ककुहो ययिः शृण्वे यामेषु संतनिः |
यद् वां दंसोभिर् अश्विनात्रिर् नराववर्तति ||ugró vām kakuhó yayíḥ śṛṇvé yā́meṣu saṃtaníḥ ǀ
yádvām dáṃsobhiraśvinā́trirnarāvavártati ǁugro vāṃ kakuho yayiḥ śṛṇve yāmeṣu saṃtaniḥ |
yad vāṃ daṃsobhir aśvinātrir narāvavartati ||उ॒ग्रः । वा॒म् । क॒कु॒हः । य॒यिः । शृ॒ण्वे । यामे॑षु । स॒म्ऽत॒निः ।
यत् । वा॒म् । दंसः॑ऽभिः । अ॒श्वि॒ना॒ । अत्रिः॑ । न॒रा॒ । आ॒ऽव॒वर्त॑ति ॥उग्रः । वाम् । ककुहः । ययिः । शृण्वे । यामेषु । सम्ऽतनिः ।
यत् । वाम् । दंसःऽभिः । अश्विना । अत्रिः । नरा । आऽववर्तति ॥ugráḥ ǀ vām ǀ kakuháḥ ǀ yayíḥ ǀ śṛṇvé ǀ yā́meṣu ǀ sam-taníḥ ǀ
yát ǀ vām ǀ dáṃsaḥ-bhiḥ ǀ aśvinā ǀ átriḥ ǀ narā ǀ ā-vavártati ǁugraḥ ǀ vām ǀ kakuhaḥ ǀ yayiḥ ǀ śṛṇve ǀ yāmeṣu ǀ sam-taniḥ ǀ
yat ǀ vām ǀ daṃsaḥ-bhiḥ ǀ aśvinā ǀ atriḥ ǀ narā ǀ ā-vavartati ǁ5.73.7 Aṣṭaka 4.4.12.2Anuvāka 5.6.7
-
Ṛk 8
मध्व॑ ऊ॒ षु म॑धूयुवा॒ रुद्रा॒ सिष॑क्ति पि॒प्युषी॑ ।
यत्स॑मु॒द्राति॒ पर्ष॑थः प॒क्वाः पृक्षो॑ भरंत वां ॥मध्व ऊ षु मधूयुवा रुद्रा सिषक्ति पिप्युषी |
यत् समुद्राति पर्षथः पक्वाः पृक्षो भरन्त वाम् ||mádhva ū ṣú madhūyuvā rúdrā síṣakti pipyúṣī ǀ
yátsamudrā́ti párṣathaḥ pakvā́ḥ pṛ́kṣo bharanta vām ǁmadhva ū ṣu madhūyuvā rudrā siṣakti pipyuṣī |
yat samudrāti parṣathaḥ pakvāḥ pṛkṣo bharanta vām ||मध्वः॑ । ऊं॒ इति॑ । सु । म॒धु॒ऽयु॒वा॒ । रुद्रा॑ । सिस॑क्ति । पि॒प्युषी॑ ।
यत् । स॒मु॒द्रा । अति॑ । पर्ष॑थः । प॒क्वाः । पृक्षः॑ । भ॒र॒न्त॒ । वा॒म् ॥मध्वः । ऊं इति । सु । मधुऽयुवा । रुद्रा । सिसक्ति । पिप्युषी ।
यत् । समुद्रा । अति । पर्षथः । पक्वाः । पृक्षः । भरन्त । वाम् ॥mádhvaḥ ǀ ūṃ íti ǀ sú ǀ madhu-yuvā ǀ rúdrā ǀ sísakti ǀ pipyúṣī ǀ
yát ǀ samudrā́ ǀ áti ǀ párṣathaḥ ǀ pakvā́ḥ ǀ pṛ́kṣaḥ ǀ bharanta ǀ vām ǁmadhvaḥ ǀ ūṃ iti ǀ su ǀ madhu-yuvā ǀ rudrā ǀ sisakti ǀ pipyuṣī ǀ
yat ǀ samudrā ǀ ati ǀ parṣathaḥ ǀ pakvāḥ ǀ pṛkṣaḥ ǀ bharanta ǀ vām ǁ5.73.8 Aṣṭaka 4.4.12.3Anuvāka 5.6.8
-
Ṛk 9
स॒त्यमिद्वा उ॑ अश्विना यु॒वामा॑हुर्मयो॒भुवा॑ ।
ता याम॑न्याम॒हूत॑मा॒ याम॒न्ना मृ॑ळ॒यत्त॑मा ॥सत्यम् इद् वा उ अश्विना युवाम् आहुर् मयोभुवा |
ता यामन् यामहूतमा यामन्न् आ मृऌअयत्तमा ||satyámídvā́ u aśvinā yuvā́māhurmayobhúvā ǀ
tā́ yā́manyāmahū́tamā yā́mannā́ mṛḷayáttamā ǁsatyam id vā u aśvinā yuvām āhur mayobhuvā |
tā yāman yāmahūtamā yāmann ā mṛḷayattamā ||स॒त्यम् । इत् । वै । ऊं॒ इति॑ । अ॒श्वि॒ना॒ । यु॒वाम् । आ॒हुः॒ । म॒यः॒ऽभुवा॑ ।
ता । याम॑न् । या॒म॒ऽहूत॑मा । याम॑न् । आ । मृ॒ळ॒यत्ऽत॑मा ॥सत्यम् । इत् । वै । ऊं इति । अश्विना । युवाम् । आहुः । मयःऽभुवा ।
ता । यामन् । यामऽहूतमा । यामन् । आ । मृळयत्ऽतमा ॥satyám ǀ ít ǀ vái ǀ ūṃ íti ǀ aśvinā ǀ yuvā́m ǀ āhuḥ ǀ mayaḥ-bhúvā ǀ
tā́ ǀ yā́man ǀ yāma-hū́tamā ǀ yā́man ǀ ā́ ǀ mṛḷayát-tamā ǁsatyam ǀ it ǀ vai ǀ ūṃ iti ǀ aśvinā ǀ yuvām ǀ āhuḥ ǀ mayaḥ-bhuvā ǀ
tā ǀ yāman ǀ yāma-hūtamā ǀ yāman ǀ ā ǀ mṛḷayat-tamā ǁ5.73.9 Aṣṭaka 4.4.12.4Anuvāka 5.6.9
-
Ṛk 10
इ॒मा ब्रह्मा॑णि॒ वर्ध॑ना॒श्विभ्यां॑ संतु॒ शंत॑मा ।
या तक्षा॑म॒ रथाँ॑ इ॒वावो॑चाम बृ॒हन्नमः॑ ॥इमा ब्रह्माणि वर्धनाश्विभ्यां सन्तु शन्तमा |
या तक्षाम रथां इवावोचाम बृहन् नमः ||imā́ bráhmāṇi várdhanāśvíbhyām santu śáṃtamā ǀ
yā́ tákṣāma ráthām̐ ivā́vocāma bṛhánnámaḥ ǁimā brahmāṇi vardhanāśvibhyāṃ santu śantamā |
yā takṣāma rathāṃ ivāvocāma bṛhan namaḥ ||इ॒मा । ब्रह्मा॑णि । वर्ध॑ना । अ॒श्विऽभ्या॑म् । स॒न्तु॒ । शम्ऽत॑मा ।
या । तक्षा॑म । रथा॑न्ऽइव । अवो॑चाम । बृ॒हत् । नमः॑ ॥इमा । ब्रह्माणि । वर्धना । अश्विऽभ्याम् । सन्तु । शम्ऽतमा ।
या । तक्षाम । रथान्ऽइव । अवोचाम । बृहत् । नमः ॥imā́ ǀ bráhmāṇi ǀ várdhanā ǀ aśví-bhyām ǀ santu ǀ śám-tamā ǀ
yā́ ǀ tákṣāma ǀ ráthān-iva ǀ ávocāma ǀ bṛhát ǀ námaḥ ǁimā ǀ brahmāṇi ǀ vardhanā ǀ aśvi-bhyām ǀ santu ǀ śam-tamā ǀ
yā ǀ takṣāma ǀ rathān-iva ǀ avocāma ǀ bṛhat ǀ namaḥ ǁ5.73.10 Aṣṭaka 4.4.12.5Anuvāka 5.6.10
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.