Ṛk 5.73.3
Saṃhitā
ई॒र्मान्यद्वपु॑षे॒ वपु॑श्च॒क्रं रथ॑स्य येमथुः ।
पर्य॒न्या नाहु॑षा यु॒गा म॒ह्ना रजां॑सि दीयथः ॥
ईर्मान्यद् वपुषे वपुश् चक्रं रथस्य येमथुः |
पर्य् अन्या नाहुषा युगा मह्ना रजांसि दीयथः ||
īrmā́nyádvápuṣe vápuścakrám ráthasya yemathuḥ ǀ
páryanyā́ nā́huṣā yugā́ mahnā́ rájāṃsi dīyathaḥ ǁ
īrmānyad vapuṣe vapuś cakraṃ rathasya yemathuḥ |
pary anyā nāhuṣā yugā mahnā rajāṃsi dīyathaḥ ||
Padapāṭha
ई॒र्मा । अ॒न्यत् । वपु॑षे । वपुः॑ । च॒क्रम् । रथ॑स्य । ये॒म॒थुः॒ ।
परि॑ । अ॒न्या । नाहु॑षा । यु॒गा । म॒ह्ना । रजां॑सि । दी॒य॒थः॒ ॥
ईर्मा । अन्यत् । वपुषे । वपुः । चक्रम् । रथस्य । येमथुः ।
परि । अन्या । नाहुषा । युगा । मह्ना । रजांसि । दीयथः ॥
īrmā́ ǀ anyát ǀ vápuṣe ǀ vápuḥ ǀ cakrám ǀ ráthasya ǀ yemathuḥ ǀ
pári ǀ anyā́ ǀ nā́huṣā ǀ yugā́ ǀ mahnā́ ǀ rájāṃsi ǀ dīyathaḥ ǁ
īrmā ǀ anyat ǀ vapuṣe ǀ vapuḥ ǀ cakram ǀ rathasya ǀ yemathuḥ ǀ
pari ǀ anyā ǀ nāhuṣā ǀ yugā ǀ mahnā ǀ rajāṃsi ǀ dīyathaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.073.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.11.03
- Maṇḍala · Anuvāka · Ṛk
- 05.06.003
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Paura Ātreya
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.