Ṛk 5.73.4
Saṃhitā
तदू॒ षु वा॑मे॒ना कृ॒तं विश्वा॒ यद्वा॒मनु॒ ष्टवे॑ ।
नाना॑ जा॒ताव॑रे॒पसा॒ सम॒स्मे बंधु॒मेय॑थुः ॥
तद् ऊ षु वाम् एना कृतं विश्वा यद् वाम् अनु ष्टवे |
नाना जाताव् अरेपसा सम् अस्मे बन्धुम् एयथुः ||
tádū ṣú vāmenā́ kṛtám víśvā yádvāmánu ṣṭáve ǀ
nā́nā jātā́varepásā sámasmé bándhuméyathuḥ ǁ
tad ū ṣu vām enā kṛtaṃ viśvā yad vām anu ṣṭave |
nānā jātāv arepasā sam asme bandhum eyathuḥ ||
Padapāṭha
तत् । ऊं॒ इति॑ । सु । वा॒म् । ए॒ना । कृ॒तम् । विश्वा॑ । यत् । वा॒म् । अनु॑ । स्तवे॑ ।
नाना॑ । जा॒तौ । अ॒रे॒पसा॑ । सम् । अ॒स्मे इति॑ । बन्धु॑म् । आ । ई॒य॒थुः॒ ॥
तत् । ऊं इति । सु । वाम् । एना । कृतम् । विश्वा । यत् । वाम् । अनु । स्तवे ।
नाना । जातौ । अरेपसा । सम् । अस्मे इति । बन्धुम् । आ । ईयथुः ॥
tát ǀ ūṃ íti ǀ sú ǀ vām ǀ enā́ ǀ kṛtám ǀ víśvā ǀ yát ǀ vām ǀ ánu ǀ stáve ǀ
nā́nā ǀ jātáu ǀ arepásā ǀ sám ǀ asmé íti ǀ bándhum ǀ ā́ ǀ īyathuḥ ǁ
tat ǀ ūṃ iti ǀ su ǀ vām ǀ enā ǀ kṛtam ǀ viśvā ǀ yat ǀ vām ǀ anu ǀ stave ǀ
nānā ǀ jātau ǀ arepasā ǀ sam ǀ asme iti ǀ bandhum ǀ ā ǀ īyathuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.073.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.11.04
- Maṇḍala · Anuvāka · Ṛk
- 05.06.004
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Paura Ātreya
- Chandas छन्दस्
- Anuṣṭubh
- Svara स्वरः
- गान्धारः
Text and interpretations from the Ṛgveda database of theveda.org.in.