Sūkta 84
- Devatā देवता
- Pṛthivī
- Ṛṣi ऋषि
- Atri Bhauma
- Chandas छन्दस्
- Anuṣṭubh
Metres by ṛk
1st set of styles nicṛdanuṣṭup (1, 2); virāḍanuṣṭup (3)
2nd set of styles anuṣṭubh
-
Ṛk 1
बळि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि ।
प्र या भूमिं॑ प्रवत्वति म॒ह्ना जि॒नोषि॑ महिनि ॥बऌ इत्था पर्वतानां खिद्रम् बिभर्षि पृथिवि |
प्र या भूमिम् प्रवत्वति मह्ना जिनोषि महिनि ||báḷitthā́ párvatānām khidrám bibharṣi pṛthivi ǀ
prá yā́ bhū́mim pravatvati mahnā́ jinóṣi mahini ǁbaḷ itthā parvatānāṃ khidram bibharṣi pṛthivi |
pra yā bhūmim pravatvati mahnā jinoṣi mahini ||बट् । इ॒त्था । पर्व॑तानाम् । खि॒द्रम् । बि॒भ॒र्षि॒ । पृ॒थि॒वि॒ ।
प्र । या । भूमि॑म् । प्र॒व॒त्व॒ति॒ । म॒ह्ना । जि॒नोषि॑ । म॒हि॒नि॒ ॥बट् । इत्था । पर्वतानाम् । खिद्रम् । बिभर्षि । पृथिवि ।
प्र । या । भूमिम् । प्रवत्वति । मह्ना । जिनोषि । महिनि ॥báṭ ǀ itthā́ ǀ párvatānām ǀ khidrám ǀ bibharṣi ǀ pṛthivi ǀ
prá ǀ yā́ ǀ bhū́mim ǀ pravatvati ǀ mahnā́ ǀ jinóṣi ǀ mahini ǁbaṭ ǀ itthā ǀ parvatānām ǀ khidram ǀ bibharṣi ǀ pṛthivi ǀ
pra ǀ yā ǀ bhūmim ǀ pravatvati ǀ mahnā ǀ jinoṣi ǀ mahini ǁ5.84.1 Aṣṭaka 4.4.29.1Anuvāka 5.6.89
-
Ṛk 2
स्तोमा॑सस्त्वा विचारिणि॒ प्रति॑ ष्टोभंत्य॒क्तुभिः॑ ।
प्र या वाजं॒ न हेषं॑तं पे॒रुमस्य॑स्यर्जुनि ॥स्तोमासस् त्वा विचारिणि प्रति ष्टोभन्त्य् अक्तुभिः |
प्र या वाजं न हेषन्तम् पेरुम् अस्यस्य् अर्जुनि ||stómāsastvā vicāriṇi práti ṣṭobhantyaktúbhiḥ ǀ
prá yā́ vā́jam ná héṣantam perúmásyasyarjuni ǁstomāsas tvā vicāriṇi prati ṣṭobhanty aktubhiḥ |
pra yā vājaṃ na heṣantam perum asyasy arjuni ||स्तोमा॑सः । त्वा॒ । वि॒ऽचा॒रि॒णि॒ । प्रति॑ । स्तो॒भ॒न्ति॒ । अ॒क्तुऽभिः॑ ।
प्र । या । वाज॑म् । न । हेष॑न्तम् । पे॒रुम् । अस्य॑सि । अ॒र्जु॒नि॒ ॥स्तोमासः । त्वा । विऽचारिणि । प्रति । स्तोभन्ति । अक्तुऽभिः ।
प्र । या । वाजम् । न । हेषन्तम् । पेरुम् । अस्यसि । अर्जुनि ॥stómāsaḥ ǀ tvā ǀ vi-cāriṇi ǀ práti ǀ stobhanti ǀ aktú-bhiḥ ǀ
prá ǀ yā́ ǀ vā́jam ǀ ná ǀ héṣantam ǀ perúm ǀ ásyasi ǀ arjuni ǁstomāsaḥ ǀ tvā ǀ vi-cāriṇi ǀ prati ǀ stobhanti ǀ aktu-bhiḥ ǀ
pra ǀ yā ǀ vājam ǀ na ǀ heṣantam ǀ perum ǀ asyasi ǀ arjuni ǁ5.84.2 Aṣṭaka 4.4.29.2Anuvāka 5.6.90
-
Ṛk 3
दृ॒ळ्हा चि॒द्या वन॒स्पती॑न्क्ष्म॒या दर्ध॒र्ष्योज॑सा ।
यत्ते॑ अ॒भ्रस्य॑ वि॒द्युतो॑ दि॒वो वर्षं॑ति वृ॒ष्टयः॑ ॥दृऌहा चिद् या वनस्पतीन् क्ष्मया दर्धर्ष्य् ओजसा |
यत् ते अभ्रस्य विद्युतो दिवो वर्षन्ति वृष्टयः ||dṛḷhā́ cidyā́ vánaspátīnkṣmayā́ dárdharṣyójasā ǀ
yátte abhrásya vidyúto divó várṣanti vṛṣṭáyaḥ ǁdṛḷhā cid yā vanaspatīn kṣmayā dardharṣy ojasā |
yat te abhrasya vidyuto divo varṣanti vṛṣṭayaḥ ||दृ॒ळ्हा । चि॒त् । या । वन॒स्पती॑न् । क्ष्म॒या । दर्ध॑र्षि । ओज॑सा ।
यत् । ते॒ । अ॒भ्रस्य॑ । वि॒ऽद्युतः॑ । दि॒वः । वर्ष॑न्ति । वृ॒ष्टयः॑ ॥दृळ्हा । चित् । या । वनस्पतीन् । क्ष्मया । दर्धर्षि । ओजसा ।
यत् । ते । अभ्रस्य । विऽद्युतः । दिवः । वर्षन्ति । वृष्टयः ॥dṛḷhā́ ǀ cit ǀ yā́ ǀ vánaspátīn ǀ kṣmayā́ ǀ dárdharṣi ǀ ójasā ǀ
yát ǀ te ǀ abhrásya ǀ vi-dyútaḥ ǀ diváḥ ǀ várṣanti ǀ vṛṣṭáyaḥ ǁdṛḷhā ǀ cit ǀ yā ǀ vanaspatīn ǀ kṣmayā ǀ dardharṣi ǀ ojasā ǀ
yat ǀ te ǀ abhrasya ǀ vi-dyutaḥ ǀ divaḥ ǀ varṣanti ǀ vṛṣṭayaḥ ǁ5.84.3 Aṣṭaka 4.4.29.3Anuvāka 5.6.91
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.