Sūkta 63
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Arcanānas Ātreya
- Chandas छन्दस्
- Jagatī
Metres by ṛk
1st set of styles nicṛjjagatī (1, 2, 4, 7); jagatī (3, 5, 6)
2nd set of styles jagatī
-
Ṛk 1
ऋत॑स्य गोपा॒वधि॑ तिष्ठथो॒ रथं॒ सत्य॑धर्माणा पर॒मे व्यो॑मनि ।
यमत्र॑ मित्रावरु॒णाव॑थो यु॒वं तस्मै॑ वृ॒ष्टिर्मधु॑मत्पिन्वते दि॒वः ॥ऋतस्य गोपाव् अधि तिष्ठथो रथं सत्यधर्माणा परमे व्योमनि |
यम् अत्र मित्रावरुणावथो युवं तस्मै वृष्टिर् मधुमत् पिन्वते दिवः ||ṛ́tasya gopāvádhi tiṣṭhatho rátham sátyadharmāṇā paramé vyómani ǀ
yámátra mitrāvaruṇā́vatho yuvám tásmai vṛṣṭírmádhumatpinvate diváḥ ǁṛtasya gopāv adhi tiṣṭhatho rathaṃ satyadharmāṇā parame vyomani |
yam atra mitrāvaruṇāvatho yuvaṃ tasmai vṛṣṭir madhumat pinvate divaḥ ||ऋत॑स्य । गो॒पौ॒ । अधि॑ । ति॒ष्ठ॒थः॒ । रथ॑म् । सत्य॑ऽधर्माणा । प॒र॒मे । विऽओ॑मनि ।
यम् । अत्र॑ । मि॒त्रा॒व॒रु॒णा॒ । अव॑थः । यु॒वम् । तस्मै॑ । वृ॒ष्टिः । मधु॑ऽमत् । पि॒न्व॒ते॒ । दि॒वः ॥ऋतस्य । गोपौ । अधि । तिष्ठथः । रथम् । सत्यऽधर्माणा । परमे । विऽओमनि ।
यम् । अत्र । मित्रावरुणा । अवथः । युवम् । तस्मै । वृष्टिः । मधुऽमत् । पिन्वते । दिवः ॥ṛ́tasya ǀ gopau ǀ ádhi ǀ tiṣṭhathaḥ ǀ rátham ǀ sátya-dharmāṇā ǀ paramé ǀ ví-omani ǀ
yám ǀ átra ǀ mitrāvaruṇā ǀ ávathaḥ ǀ yuvám ǀ tásmai ǀ vṛṣṭíḥ ǀ mádhu-mat ǀ pinvate ǀ diváḥ ǁṛtasya ǀ gopau ǀ adhi ǀ tiṣṭhathaḥ ǀ ratham ǀ satya-dharmāṇā ǀ parame ǀ vi-omani ǀ
yam ǀ atra ǀ mitrāvaruṇā ǀ avathaḥ ǀ yuvam ǀ tasmai ǀ vṛṣṭiḥ ǀ madhu-mat ǀ pinvate ǀ divaḥ ǁ5.63.1 Aṣṭaka 4.4.1.1Anuvāka 5.5.61
-
Ṛk 2
स॒म्राजा॑व॒स्य भुव॑नस्य राजथो॒ मित्रा॑वरुणा वि॒दथे॑ स्व॒र्दृशा॑ ।
वृ॒ष्टिं वां॒ राधो॑ अमृत॒त्वमी॑महे॒ द्यावा॑पृथि॒वी वि च॑रंति त॒न्यवः॑ ॥सम्राजाव् अस्य भुवनस्य राजथो मित्रावरुणा विदथे स्वर्दृशा |
वृष्टिं वां राधो अमृतत्वम् ईमहे द्यावापृथिवी वि चरन्ति तन्यवः ||samrā́jāvasyá bhúvanasya rājatho mítrāvaruṇā vidáthe svardṛ́śā ǀ
vṛṣṭím vām rā́dho amṛtatvámīmahe dyā́vāpṛthivī́ ví caranti tanyávaḥ ǁsamrājāv asya bhuvanasya rājatho mitrāvaruṇā vidathe svardṛśā |
vṛṣṭiṃ vāṃ rādho amṛtatvam īmahe dyāvāpṛthivī vi caranti tanyavaḥ ||स॒म्ऽराजौ॑ । अ॒स्य । भुव॑नस्य । रा॒ज॒थः॒ । मित्रा॑वरुणा । वि॒दथे॑ । स्वः॒ऽदृशा॑ ।
वृ॒ष्टिम् । वा॒म् । राधः॑ । अ॒मृ॒त॒ऽत्वम् । ई॒म॒हे॒ । द्यावा॑पृथि॒वी इति॑ । वि । च॒र॒न्ति॒ । त॒न्यवः॑ ॥सम्ऽराजौ । अस्य । भुवनस्य । राजथः । मित्रावरुणा । विदथे । स्वःऽदृशा ।
वृष्टिम् । वाम् । राधः । अमृतऽत्वम् । ईमहे । द्यावापृथिवी इति । वि । चरन्ति । तन्यवः ॥sam-rā́jau ǀ asyá ǀ bhúvanasya ǀ rājathaḥ ǀ mítrāvaruṇā ǀ vidáthe ǀ svaḥ-dṛ́śā ǀ
vṛṣṭím ǀ vām ǀ rā́dhaḥ ǀ amṛta-tvám ǀ īmahe ǀ dyā́vāpṛthivī́ íti ǀ ví ǀ caranti ǀ tanyávaḥ ǁsam-rājau ǀ asya ǀ bhuvanasya ǀ rājathaḥ ǀ mitrāvaruṇā ǀ vidathe ǀ svaḥ-dṛśā ǀ
vṛṣṭim ǀ vām ǀ rādhaḥ ǀ amṛta-tvam ǀ īmahe ǀ dyāvāpṛthivī iti ǀ vi ǀ caranti ǀ tanyavaḥ ǁ5.63.2 Aṣṭaka 4.4.1.2Anuvāka 5.5.62
-
Ṛk 3
स॒म्राजा॑ उ॒ग्रा वृ॑ष॒भा दि॒वस्पती॑ पृथि॒व्या मि॒त्रावरु॑णा॒ विच॑र्षणी ।
चि॒त्रेभि॑र॒भ्रैरुप॑ तिष्ठथो॒ रवं॒ द्यां व॑र्षयथो॒ असु॑रस्य मा॒यया॑ ॥सम्राजा उग्रा वृषभा दिवस् पती पृथिव्या मित्रावरुणा विचर्षणी |
चित्रेभिर् अभ्रैर् उप तिष्ठथो रवं द्यां वर्षयथो असुरस्य मायया ||samrā́jā ugrā́ vṛṣabhā́ diváspátī pṛthivyā́ mitrā́váruṇā vícarṣaṇī ǀ
citrébhirabhráirúpa tiṣṭhatho rávam dyā́m varṣayatho ásurasya māyáyā ǁsamrājā ugrā vṛṣabhā divas patī pṛthivyā mitrāvaruṇā vicarṣaṇī |
citrebhir abhrair upa tiṣṭhatho ravaṃ dyāṃ varṣayatho asurasya māyayā ||स॒म्ऽराजौ॑ । उ॒ग्रा । वृ॒ष॒भा । दि॒वः । पती॒ इति॑ । पृ॒थि॒व्याः । मि॒त्रावरु॑णा । विच॑र्षणी॒ इति॒ विऽच॑र्षणी ।
चि॒त्रेभिः॑ । अ॒भ्रैः । उप॑ । ति॒ष्ठ॒थः॒ । रव॑म् । द्याम् । व॒र्ष॒य॒थः॒ । असु॑रस्य । मा॒यया॑ ॥सम्ऽराजौ । उग्रा । वृषभा । दिवः । पती इति । पृथिव्याः । मित्रावरुणा । विचर्षणी इति विऽचर्षणी ।
चित्रेभिः । अभ्रैः । उप । तिष्ठथः । रवम् । द्याम् । वर्षयथः । असुरस्य । मायया ॥sam-rā́jau ǀ ugrā́ ǀ vṛṣabhā́ ǀ diváḥ ǀ pátī íti ǀ pṛthivyā́ḥ ǀ mitrā́váruṇā ǀ vícarṣaṇī íti ví-carṣaṇī ǀ
citrébhiḥ ǀ abhráiḥ ǀ úpa ǀ tiṣṭhathaḥ ǀ rávam ǀ dyā́m ǀ varṣayathaḥ ǀ ásurasya ǀ māyáyā ǁsam-rājau ǀ ugrā ǀ vṛṣabhā ǀ divaḥ ǀ patī iti ǀ pṛthivyāḥ ǀ mitrāvaruṇā ǀ vicarṣaṇī iti vi-carṣaṇī ǀ
citrebhiḥ ǀ abhraiḥ ǀ upa ǀ tiṣṭhathaḥ ǀ ravam ǀ dyām ǀ varṣayathaḥ ǀ asurasya ǀ māyayā ǁ5.63.3 Aṣṭaka 4.4.1.3Anuvāka 5.5.63
-
Ṛk 4
मा॒या वां॑ मित्रावरुणा दि॒वि श्रि॒ता सूर्यो॒ ज्योति॑श्चरति चि॒त्रमायु॑धं ।
तम॒भ्रेण॑ वृ॒ष्ट्या गू॑हथो दि॒वि पर्ज॑न्य द्र॒प्सा मधु॑मंत ईरते ॥माया वाम् मित्रावरुणा दिवि श्रिता सूर्यो ज्योतिश् चरति चित्रम् आयुधम् |
तम् अभ्रेण वृष्ट्या गूहथो दिवि पर्जन्य द्रप्सा मधुमन्त ईरते ||māyā́ vām mitrāvaruṇā diví śritā́ sū́ryo jyótiścarati citrámā́yudham ǀ
támabhréṇa vṛṣṭyā́ gūhatho diví párjanya drapsā́ mádhumanta īrate ǁmāyā vām mitrāvaruṇā divi śritā sūryo jyotiś carati citram āyudham |
tam abhreṇa vṛṣṭyā gūhatho divi parjanya drapsā madhumanta īrate ||मा॒या । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । दि॒वि । श्रि॒ता । सूर्यः॑ । ज्योतिः॑ । च॒र॒ति॒ । चि॒त्रम् । आयु॑धम् ।
तम् । अ॒भ्रेण॑ । वृ॒ष्ट्या । गू॒ह॒थः॒ । दि॒वि । पर्ज॑न्य । द्र॒प्साः । मधु॑ऽमन्तः । ई॒र॒ते॒ ॥माया । वाम् । मित्रावरुणा । दिवि । श्रिता । सूर्यः । ज्योतिः । चरति । चित्रम् । आयुधम् ।
तम् । अभ्रेण । वृष्ट्या । गूहथः । दिवि । पर्जन्य । द्रप्साः । मधुऽमन्तः । ईरते ॥māyā́ ǀ vām ǀ mitrāvaruṇā ǀ diví ǀ śritā́ ǀ sū́ryaḥ ǀ jyótiḥ ǀ carati ǀ citrám ǀ ā́yudham ǀ
tám ǀ abhréṇa ǀ vṛṣṭyā́ ǀ gūhathaḥ ǀ diví ǀ párjanya ǀ drapsā́ḥ ǀ mádhu-mantaḥ ǀ īrate ǁmāyā ǀ vām ǀ mitrāvaruṇā ǀ divi ǀ śritā ǀ sūryaḥ ǀ jyotiḥ ǀ carati ǀ citram ǀ āyudham ǀ
tam ǀ abhreṇa ǀ vṛṣṭyā ǀ gūhathaḥ ǀ divi ǀ parjanya ǀ drapsāḥ ǀ madhu-mantaḥ ǀ īrate ǁ5.63.4 Aṣṭaka 4.4.1.4Anuvāka 5.5.64
-
Ṛk 5
रथं॑ युंजते म॒रुतः॑ शु॒भे सु॒खं शूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु ।
रजां॑सि चि॒त्रा वि च॑रंति त॒न्यवो॑ दि॒वः स॑म्राजा॒ पय॑सा न उक्षतं ॥रथं युञ्जते मरुतः शुभे सुखं शूरो न मित्रावरुणा गविष्टिषु |
रजांसि चित्रा वि चरन्ति तन्यवो दिवः सम्राजा पयसा न उक्षतम् ||rátham yuñjate marútaḥ śubhé sukhám śū́ro ná mitrāvaruṇā gáviṣṭiṣu ǀ
rájāṃsi citrā́ ví caranti tanyávo diváḥ samrājā páyasā na ukṣatam ǁrathaṃ yuñjate marutaḥ śubhe sukhaṃ śūro na mitrāvaruṇā gaviṣṭiṣu |
rajāṃsi citrā vi caranti tanyavo divaḥ samrājā payasā na ukṣatam ||रथ॑म् । यु॒ञ्ज॒ते॒ । म॒रुतः॑ । शु॒भे । सु॒ऽखम् । शूरः॑ । न । मि॒त्रा॒व॒रु॒णा॒ । गोऽइ॑ष्टिषु ।
रजां॑सि । चि॒त्रा । वि । च॒र॒न्ति॒ । त॒न्यवः॑ । दि॒वः । स॒म्ऽरा॒जा॒ । पय॑सा । नः॒ । उ॒क्ष॒त॒म् ॥रथम् । युञ्जते । मरुतः । शुभे । सुऽखम् । शूरः । न । मित्रावरुणा । गोऽइष्टिषु ।
रजांसि । चित्रा । वि । चरन्ति । तन्यवः । दिवः । सम्ऽराजा । पयसा । नः । उक्षतम् ॥rátham ǀ yuñjate ǀ marútaḥ ǀ śubhé ǀ su-khám ǀ śū́raḥ ǀ ná ǀ mitrāvaruṇā ǀ gó-iṣṭiṣu ǀ
rájāṃsi ǀ citrā́ ǀ ví ǀ caranti ǀ tanyávaḥ ǀ diváḥ ǀ sam-rājā ǀ páyasā ǀ naḥ ǀ ukṣatam ǁratham ǀ yuñjate ǀ marutaḥ ǀ śubhe ǀ su-kham ǀ śūraḥ ǀ na ǀ mitrāvaruṇā ǀ go-iṣṭiṣu ǀ
rajāṃsi ǀ citrā ǀ vi ǀ caranti ǀ tanyavaḥ ǀ divaḥ ǀ sam-rājā ǀ payasā ǀ naḥ ǀ ukṣatam ǁ5.63.5 Aṣṭaka 4.4.1.5Anuvāka 5.5.65
-
Ṛk 6
वाचं॒ सु मि॑त्रावरुणा॒विरा॑वतीं प॒र्जन्य॑श्चि॒त्रां व॑दति॒ त्विषी॑मतीं ।
अ॒भ्रा व॑सत म॒रुतः॒ सु मा॒यया॒ द्यां व॑र्षयतमरु॒णाम॑रे॒पसं॑ ॥वाचं सु मित्रावरुणाव् इरावतीम् पर्जन्यश् चित्रां वदति त्विषीमतीम् |
अभ्रा वसत मरुतः सु मायया द्यां वर्षयतम् अरुणाम् अरेपसम् ||vā́cam sú mitrāvaruṇāvírāvatīm parjányaścitrā́m vadati tvíṣīmatīm ǀ
abhrā́ vasata marútaḥ sú māyáyā dyā́m varṣayatamaruṇā́marepásam ǁvācaṃ su mitrāvaruṇāv irāvatīm parjanyaś citrāṃ vadati tviṣīmatīm |
abhrā vasata marutaḥ su māyayā dyāṃ varṣayatam aruṇām arepasam ||वाच॑म् । सु । मि॒त्रा॒व॒रु॒णौ॒ । इरा॑ऽवतीम् । प॒र्जन्यः॑ । चि॒त्राम् । व॒द॒ति॒ । त्विषि॑ऽमतीम् ।
अ॒भ्रा । व॒स॒त॒ । म॒रुतः॑ । सु । मा॒यया॑ । द्याम् । व॒र्ष॒य॒त॒म् । अ॒रु॒णाम् । अ॒रे॒पस॑म् ॥वाचम् । सु । मित्रावरुणौ । इराऽवतीम् । पर्जन्यः । चित्राम् । वदति । त्विषिऽमतीम् ।
अभ्रा । वसत । मरुतः । सु । मायया । द्याम् । वर्षयतम् । अरुणाम् । अरेपसम् ॥vā́cam ǀ sú ǀ mitrāvaruṇau ǀ írā-vatīm ǀ parjányaḥ ǀ citrā́m ǀ vadati ǀ tvíṣi-matīm ǀ
abhrā́ ǀ vasata ǀ marútaḥ ǀ sú ǀ māyáyā ǀ dyā́m ǀ varṣayatam ǀ aruṇā́m ǀ arepásam ǁvācam ǀ su ǀ mitrāvaruṇau ǀ irā-vatīm ǀ parjanyaḥ ǀ citrām ǀ vadati ǀ tviṣi-matīm ǀ
abhrā ǀ vasata ǀ marutaḥ ǀ su ǀ māyayā ǀ dyām ǀ varṣayatam ǀ aruṇām ǀ arepasam ǁ5.63.6 Aṣṭaka 4.4.1.6Anuvāka 5.5.66
-
Ṛk 7
धर्म॑णा मित्रावरुणा विपश्चिता व्र॒ता र॑क्षेथे॒ असु॑रस्य मा॒यया॑ ।
ऋ॒तेन॒ विश्वं॒ भुव॑नं॒ वि रा॑जथः॒ सूर्य॒मा ध॑त्थो दि॒वि चित्र्यं॒ रथं॑ ॥धर्मणा मित्रावरुणा विपश्चिता व्रता रक्षेथे असुरस्य मायया |
ऋतेन विश्वम् भुवनं वि राजथः सूर्यम् आ धत्थो दिवि चित्र्यं रथम् ||dhármaṇā mitrāvaruṇā vipaścitā vratā́ rakṣethe ásurasya māyáyā ǀ
ṛténa víśvam bhúvanam ví rājathaḥ sū́ryamā́ dhattho diví cítryam rátham ǁdharmaṇā mitrāvaruṇā vipaścitā vratā rakṣethe asurasya māyayā |
ṛtena viśvam bhuvanaṃ vi rājathaḥ sūryam ā dhattho divi citryaṃ ratham ||धर्म॑णा । मि॒त्रा॒व॒रु॒णा॒ । वि॒पः॒ऽचि॒ता॒ । व्र॒ता । र॒क्षे॒थे॒ इति॑ । असु॑रस्य । मा॒यया॑ ।
ऋ॒तेन॑ । विश्व॑म् । भुव॑नम् । वि । रा॒ज॒थः॒ । सूर्य॑म् । आ । ध॒त्थः॒ । दि॒वि । चित्र्य॑म् । रथ॑म् ॥धर्मणा । मित्रावरुणा । विपःऽचिता । व्रता । रक्षेथे इति । असुरस्य । मायया ।
ऋतेन । विश्वम् । भुवनम् । वि । राजथः । सूर्यम् । आ । धत्थः । दिवि । चित्र्यम् । रथम् ॥dhármaṇā ǀ mitrāvaruṇā ǀ vipaḥ-citā ǀ vratā́ ǀ rakṣethe íti ǀ ásurasya ǀ māyáyā ǀ
ṛténa ǀ víśvam ǀ bhúvanam ǀ ví ǀ rājathaḥ ǀ sū́ryam ǀ ā́ ǀ dhatthaḥ ǀ diví ǀ cítryam ǀ rátham ǁdharmaṇā ǀ mitrāvaruṇā ǀ vipaḥ-citā ǀ vratā ǀ rakṣethe iti ǀ asurasya ǀ māyayā ǀ
ṛtena ǀ viśvam ǀ bhuvanam ǀ vi ǀ rājathaḥ ǀ sūryam ǀ ā ǀ dhatthaḥ ǀ divi ǀ citryam ǀ ratham ǁ5.63.7 Aṣṭaka 4.4.1.7Anuvāka 5.5.67
Text, recitation and interpretations from the Ṛgveda database of theveda.org.in.