Ṛk 5.63.4
Saṃhitā
मा॒या वां॑ मित्रावरुणा दि॒वि श्रि॒ता सूर्यो॒ ज्योति॑श्चरति चि॒त्रमायु॑धं ।
तम॒भ्रेण॑ वृ॒ष्ट्या गू॑हथो दि॒वि पर्ज॑न्य द्र॒प्सा मधु॑मंत ईरते ॥
माया वाम् मित्रावरुणा दिवि श्रिता सूर्यो ज्योतिश् चरति चित्रम् आयुधम् |
तम् अभ्रेण वृष्ट्या गूहथो दिवि पर्जन्य द्रप्सा मधुमन्त ईरते ||
māyā́ vām mitrāvaruṇā diví śritā́ sū́ryo jyótiścarati citrámā́yudham ǀ
támabhréṇa vṛṣṭyā́ gūhatho diví párjanya drapsā́ mádhumanta īrate ǁ
māyā vām mitrāvaruṇā divi śritā sūryo jyotiś carati citram āyudham |
tam abhreṇa vṛṣṭyā gūhatho divi parjanya drapsā madhumanta īrate ||
Padapāṭha
मा॒या । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । दि॒वि । श्रि॒ता । सूर्यः॑ । ज्योतिः॑ । च॒र॒ति॒ । चि॒त्रम् । आयु॑धम् ।
तम् । अ॒भ्रेण॑ । वृ॒ष्ट्या । गू॒ह॒थः॒ । दि॒वि । पर्ज॑न्य । द्र॒प्साः । मधु॑ऽमन्तः । ई॒र॒ते॒ ॥
माया । वाम् । मित्रावरुणा । दिवि । श्रिता । सूर्यः । ज्योतिः । चरति । चित्रम् । आयुधम् ।
तम् । अभ्रेण । वृष्ट्या । गूहथः । दिवि । पर्जन्य । द्रप्साः । मधुऽमन्तः । ईरते ॥
māyā́ ǀ vām ǀ mitrāvaruṇā ǀ diví ǀ śritā́ ǀ sū́ryaḥ ǀ jyótiḥ ǀ carati ǀ citrám ǀ ā́yudham ǀ
tám ǀ abhréṇa ǀ vṛṣṭyā́ ǀ gūhathaḥ ǀ diví ǀ párjanya ǀ drapsā́ḥ ǀ mádhu-mantaḥ ǀ īrate ǁ
māyā ǀ vām ǀ mitrāvaruṇā ǀ divi ǀ śritā ǀ sūryaḥ ǀ jyotiḥ ǀ carati ǀ citram ǀ āyudham ǀ
tam ǀ abhreṇa ǀ vṛṣṭyā ǀ gūhathaḥ ǀ divi ǀ parjanya ǀ drapsāḥ ǀ madhu-mantaḥ ǀ īrate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 05.063.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 4.4.01.04
- Maṇḍala · Anuvāka · Ṛk
- 05.05.064
- Devatā देवता
- Mitra, Varuṇa
- Ṛṣi ऋषि
- Arcanānas Ātreya
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.